अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
:
- It has: a top bar.
- Left side: curve? No, it's a circle/loop.
Wait, could it be: 'म' with a halanta?
Wait, look at: 'म' 'पी' 'षा'?
Actually, looks like: 'म' 'पी' 'षा' 'म' 'ा' 'क्षे' 'प' -> "विचारकाणामपीषामाक्षेप" or "विचारकाणासूपीषामाक्षेप".
Wait, look at the first stroke after णा:
It has a top bar. A vertical coming down from the top bar? No, it looks like 'स' with 'ू' = 'सू'!
Wait, why would it be 'सू'? Is "सूपीषा" a word? No!
Wait, could it be "अप्युषामाक्षेप"? No.
Wait, could it be "विचारकाणामपीहाक्षेप"?
Wait, let's look at the letter after 'पी':
Is it 'ह'?
Let's look at 'ह' in 'तदव्यक्तमाह हीत्यधिकरणे':
'ह' in 'माह' has: top bar, short vertical, curl to the left, curl to the right, and a tail.
Now look at the letter in L24:
It has a top bar, left vertical down, horizontal, right vertical: it's a SQUARE, like 'प' or 'ष', with a diagonal stroke! It is 100% 'ष' (
३८ वेदान्ताधिकरणमाला ।
ततोऽष्टमे त्रिसूत्रे प्रकाशादिवच्चेत्यधिकरणे पूर्वोक्त एवार्थः प्रकारांतरेण स्थिरीक्रियते ।
तत्र यथा सूर्यचंद्रमणिप्रकाशादिषूष्णशीतौ उभयरूपाः स्पर्शाः प्रतीयमाना अपि तेजसि तावंतो
नांगीक्रियंते, किंतूष्ण एव स्पर्शोंगीक्रियते, एवं हिमतप्तकुण्डादिषु प्रतीयमाना अपि जले तावंतो
नांगीक्रियंते, किंतु शीतस्पर्श एवांगीक्रियते, एवं सुवर्णे वर्णभेदा अपि, अतो न ते स्वाभाविकाः,
तेजस्त्वादिस्वभावहानिप्रसंगात्, तथा ब्रह्मणोऽपि निर्विशेषत्वमेवांगीकर्तव्यं, सर्वत्र निर्विशेषं ब्रह्मेत्येव
प्रसिद्धेः । अत एव 'अगृह्यो नहि गृह्यते' इत्यादिश्रुतयोऽपि संगच्छंते । न च पूर्वोक्तश्रुतिप्रत्यक्षादेः
का गतिरिति शंकनीयम् । तपःप्रणिधानादिकर्मणि यथा तेषामुपासकानां कामस्तथा प्रकटीभवतीति
तत्कामहेतुकं तादृशप्रत्यक्षम् । अत एव क्वचित्प्रत्यक्षं क्वचिदन्यथाप्रत्यक्षं च यद्येकवारमेकरूप एव
प्रकटः स्यात्तादृशरूपमंगीक्रियेतापि, किंतु वारंवारं किंचिद्वैलक्षण्येन प्रकटीभवति । अतः प्रकाशोऽपि
कृत्रिम एव, दीपप्रकाशवदित्येका शंका । तस्मान्न भक्तप्रत्यक्षेण निर्णय इति प्रथमसूत्रे उक्तम् । ततो
द्वितीयसूत्रे एकस्य वस्तुनः निमित्तं विना प्रतिक्षणमन्यान्यादृशत्वं न वक्तुं शक्यते, अतोऽनंतरूपेणा-
विर्भावे भक्तकाम एव निमित्तम् । तथा सति तद्विग्रह एव, न तु ब्रह्मस्वरूपम् । अत एव 'यद्यद्धिया
तु उरुगाय विभावयंति तत्तद्वपुः प्रणयसे सदनुग्रहाये'ति तृतीयस्कंधे ब्रह्मणाप्युक्तम् । अतस्तच्छरी-
रमेव, न तु ब्रह्मस्वरूपमिति द्वितीया शंका । तस्मान्न श्रुत्या निर्णयः, नापि भक्तप्रत्यक्षेणेति सूत्रद्वये-
नाशंक्य, तृतीयसूत्रेण सिद्धांतमाह । नैवं केवलयुक्त्या लौकिकदृष्टांतेन निर्णयः कर्तुं शक्यः,
शास्त्रवैयर्थ्यप्रसंगात् । अत्र हि वेदादेव ब्रह्मस्वरूपमवगम्यते, तत्कथं स्वरूपशक्त्यैकतरनिर्णयः, वेदे
निर्गुणत्वेनानंतगुणपूर्णत्वेन च व्यपदेशात् । तर्ह्येकस्यानेकधाभानं कथमिति तु न शंक्यम् । यथा
एक एव सर्प ऋजुरनेकाकारः कुंडलश्च भवति, तद्वदुभयरूपताया उपपत्तेः । न चैवं यथाश्रुतांगी-
कारे शास्त्रवैफल्यं शंक्यम्, नानास्वभावैः सूरिव्यामोहे तन्निवारणार्थत्वेन शास्त्रसाफल्यात् । तस्मा-
च्छ्रुतिप्रत्यक्षाभ्यां यत्पूर्वं निर्णय उक्तः, स एव सिद्धांत इत्युक्तम् ॥ ८
रूपत्वात् । अतो देशकालवस्तुस्वरूपकृतचतुर्विधपरिच्छेदरहितं ब्रह्मणोऽन्यदेव किंचित्परं वक्तव्य-
मिति प्रथमसूत्रे आशंक्य, द्वितीये ‘सेत्वादिसामान्यात्सेत्वादिव्यपदेशार्थः । संसारसागरतरणो-
पायत्वात्सेतुत्वम्, निर्लेपत्वादाकाशत्वमित्यादिकं गौण्या व्यपदिश्यते । यथा कुंडपायिनामयने
‘मासमग्निहोत्रं जुहोती’ति, तस्मात् गुणार्थमेव तदुक्तिः, न तु सर्वप्रकारसाम्यार्थम् । अतः सेत्वा-
दिशेषाभावात् ब्रह्मैव परम्, नान्यदिति समाहितम् । ततस्तृतीये यथा भूतादि पादवत्त्वेनोपास-
नीयम्, तथा गौण्यान्यसमानधर्मवत्त्वव्यपदेशस्य किं प्रयोजनमित्याकांक्षायां सेत्वादिधर्मवत्त्वेनोपास-
नीयमित्युपासनार्थत्वं प्रयोजनमुक्तम् । ततश्चतुर्थे स एवायमित्यतिदेशेष्वप्युपासनासंपत्तेः किमर्थो
धर्मातिदेश इत्याशंक्य, यथा चंद्रादित्याग्नितेजसां तेजस्त्वेनैक्ये
४० वेदान्ताधिकरणमाला ।
त्रयो मया प्रोक्ता' इति भगवदुक्तेषु त्रिषु साधनेषु ज्ञानभक्ती अंतरंगे । तत्र निर्विण्णाधिकारकत्वात्
ज्ञानस्यांतरंगता । निर्वेदाभावेपि लौकिकात्यासक्तिरहिताधिकारकत्वाद्भक्तेरंतरंगतेति भेदः । कर्म तु
कामाधिकारकत्वाद्वहिरंगसाधनम् । अतः कर्मोपसंहारात्पूर्वं ज्ञानभक्त्युपयोगित्वात् पूर्वं गुणोप-
संहारो विचार्यते ।
स कथं कर्तव्य इत्याकांक्षायां ज्ञानभक्त्योः सविषयत्वात् पूर्वं विषयो विचारणीयः । तत्र
विषयः पूर्वसिद्धं ब्रह्म, तदेव च फलदाने समर्थमिति द्वितीयपादांते स्थितम् । तदेतत्स्मारयितुमुप-
संहारोपोद्घातत्वेन ज्ञानभक्त्योर्विषयतया ब्रह्मणः ज्ञानभक्तिषु युक्ततवोपासनायाश्च सर्ववेदांतप्रत्ययत्वं
सूत्रद्वयेन विचारितम् । तेन ज्ञानाधिकारिभिस्तैंथैवोपासना कार्येति सेत्स्यति ॥ १ ॥
तत इदानींतनानां सर्वशाखाज्ञानाभावेन सर्ववेदांतप्रत्ययत्वस्यावधारयितुमशक्यत्वात्तेषामुप-
काराय भक्तिमार्गीयोपासनोपकाराय काम्योपासनोपकाराय च तत्तच्छाखानुरुद्धशिष्टाचारमनुरुध्य,
तत्तद्भक्तिमनुरुध्य, तत्तत्काममनुरुध्य च स्वाध्यायादिसूत्रद्वयेऽनुपसंहारहेतुकथनेन तत्तद्गुणोपसंहाररूपः
संकोचो विचारितः ॥ २ ॥
ततो गुणोपसंहार एवास्य पादस्यार्थ इति बोधयितुमुपसंहारसूत्रेण सर्वोपसंहारतत्संकोचयोः
काम्योपासनोपयुक्तोपसंहारस्य च बीजमुक्तम् । ततोऽन्यथात्वादिसूत्रत्रयमध्ये प्रथमेन सर्वोपसंहार-
पक्षेऽब्रह्मत्वरूपं बाधकं निवार
श्रीपुरुषोत्तमविरचिता । ४१
सर्वभगवद्गुणोपसंहारः ज्ञानभक्त्यर्थं विचारितः । ततश्चित्तिरावेशिनि गुरुप्रतिमादावाविष्टे रूपे तदनु-
पसंहारः केवलभक्त्यर्थं विचारितः ॥ ३ ॥
ततश्चतुर्थे एकसूत्रे पुरुषविद्यायामित्यधिकरणे उत्तमाधिकारिभिरशेषगुणपूर्णं परं ब्रह्मै-
वोपास्यम्, न विभूतिरूपमिति साधितम् । आध्यात्मिकेषु विभूतिरूपेषु सर्वगुणानुपसंहारेऽसाधारण-
गुणानामानन्दपो हेतुश्चोक्तः ॥ ४ ॥
ततः पञ्चमे द्विसूत्रे वेधाद्यधिकरणे पूर्वसूत्रेणासन्यरूपे चेतनविभूतौ भगवत्संबन्धाद्यो-
षाभावनिरूपणात्कैमुतिकन्यायेन मूलरूपस्य निर्दोषत्वं समर्थितम्, आधिभौतिकरूपाणां जीवानां
सदोषत्वं च बोधितम् । ततो द्वितीये सूत्रे तत्सदोषत्वं भगवत्सकाशात् विभागदशायामेव, तथा
सति मुक्तिदशायां तारतम्याभावे प्राप्ते भगवत्तुल्यतापि स्यादिति
४२ वेदान्ताधिकरणमाला ।
ततो द्वादशे त्रिसूत्रेऽन्तरा भूतग्रामवदित्यधिकरणे श्रुतावसंग्रहोपासनस्य मुख्यलक्ष-
णत्वात् ज्ञाने भक्तौ च तस्य तुल्यत्वादुभयोस्तौल्यस्य ज्ञानाधिक्यस्य वा प्राप्तौ तस्या उपासनाया
भक्त्येकदेशकथनेन ज्ञानापेक्षया मुख्यभक्तेर्विरहरूपान्तरंगसाधनत उत्कर्षः पूर्वोक्तसंगत्या प्रति-
पादितः ॥ १२ ॥
ततस्त्रयोदशे द्विसूत्रे सैव हीत्यधिकरणे प्रथमसूत्रेण विहिताविहितरूपाया द्विविधाया
अपि मध्यमभक्तेः पूर्वोक्तसंगत्या साधनत उत्कर्षः प्रतिपादितः । द्वितीयसूत्रेण भगवद्विषयककामा-
दीनामपि मुक्तिफलकत्वकथनेन मुक्तौ भगवद्विषयकत्वरूपसाक्षात्संबंधस्यैव मुक्तिसाधनतावच्छेदक-
त्वम्, न तु ज्ञानत्वं भक्तित्वं वेति निरूपितम् ॥ १३ ॥
ततश्चतुर्दशे द्विसूत्रे आदरादित्यधिकरणे कैमुतिकन्यायेन कर्मापेक्षया भक्तिसाधनाना-
मुत्कर्षः कर्मिप्रत्यवस्थाननिवृत्त्यर्थं प्रतिपादितः ॥ १४ ॥
ततः पंचदशे एकसूत्रे तन्निर्धारणाधिकरणे स्वश्रुतवेदमर्यादारक्षार्थं विहिताविहितभक्ति-
मार्गीयस्य कर्मकरणाकरणयोर्हेतुफले बोधिते । द्वितीयपक्षेपि मुख्यभक्तेः पूर्वोक्तमच्छिद्रत्वाद्युत्कर्षः
साधनतः फलतश्च प्रसंगात् प्रतिपादितः ॥ १५ ॥
ततः षोडशे प्रदानवदित्यधिकरणे सर्वात्मभावात्मकमुख्यभक्तेर्विहितयावत्साधनसाध्यत्व-
निराकरणेन वरदानवत्प्राप्तिरित्युक्तम् ॥ १६ ॥
ततः सप्तदशे दशसूत्रात्मके लिंगभूयस्त्वाधिकरणे सर्वात्मभावात्मकमुख्यभक्तेः
स्वरूपमंतरंगतमत्वकाष्ठाबोधनार्थं श्रुतिवाक्यैः प्रपंचितम् ॥ १७ ॥
ततोऽष्टादशे त्रिसूत्रे व्यतिरेकाधिकरणे ज्ञानिनां पूर्णाक्षरज्ञानाभावस्य प्रतिपादनेन
अग्रिमसूत्रद्वये निदर्शनकथनेन च भक्तानां पूर्णतज्ज्ञानकथनात्सर्वात्मभावरूपमुख्यभक्तिफलस्य
योग्यस्य पुरुषोत्तमज्ञानमध्यमभक्तिफलरूपपुरुषोत्तमसायुज्यादाधिक्यमर्थतः प्रतिपादितम् ॥ १८ ॥
तत ऊनविंशे एकसूत्रे भूम्न इत्यधिकरणे फलविचारेण सर्वात्मभावस्य साधनदशायां
दुःखरूपदोषः परिहृतः ॥ १९ ॥
एवं च पंचदशभिरधिकरणैः संबंधिरूपमार्गस्तत्तारतम्यं च निरूपितम् । एवं स्वरूपपरासू-
पासनासु तारतम्यबोधनेन तासु तासु तत्तज्ज्ञानोपयोगिनो गुणा उपसंहार्थ्या इति पादार्थसंगतिः ।
ततो विंशे एकसूत्रे नानाशब्दादिभेदादित्यधिकरणे ततो न्यूनासु सत्त्वोपहितावतार-
रूपोपासनासु नानात्वं विचारितम् ॥ २० ॥
ततोऽग्रिमे एकसूत्रे एकविंशे तासां तासां विकल्पो विचारितः । गुणोपसंहारस्तु तत्तज्ज्ञा-
नोपभोग्येवेति पूर्वोक्तैव व्यवस्था ॥ २१ ॥
ततो द्वाविंशे काम्योपासनासु समुच्चयविकल्पौ यथाकामं विचारितौ, तेन तासु तत्तत्कामो-
पयोगी गुणोपसंहारो बोधितः ॥ २२ ॥
ततस्त्रयोविंशे द्विसूत्रे अंगेष्वित्यधिकरणे उपासनांगानां क्रतूनामप्यनित्यत्वं प्रसंगा-
द्विचारितम् ॥ २३ ॥
870
[Header]
श्रीपुरुषोत्तमविरचिता । ४१
[Divider]
.ततोऽस्मिंसे द्वित्रिसूत्रे समाहारादिलिङ्गाधिकरणद्वये ज्ञानमार्गीयोपासनासु सर्वगुणोपसंहा-
रानुपसंहारावधिकारादिभेदेन विचारितौ । तेन ज्ञानमार्गीयो विचार एवात्र मुख्यो, भक्तिमार्गविचा-
रस्तु भक्तौ भगवत्कृपारूपस्याधिकस्य साधनस्य प्रवेशाच्च सर्वोपयोगी यद्यपि,
तथापि शास्त्रारंभे ब्रह्मसंबन्धिजिज्ञासाप्रतिज्ञानुरोधात्कृतः, तत्प्रयोजनं त्वग्रि-
मपादे 'भक्तिमार्गप्रचारैकहृदयो बादरायण' इति श्लोकेन वक्तव्यमिति ॥२४,२५॥
इति श्रीवल्लभाचार्यचरणरजःदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ
वेदान्ताधिकरणमालायां तृतीयाध्यायस्य तृतीयः पादः ॥
[Divider]
वेदान्तेषु कर्माङ्गभूता उद्गीथाद्युपासना उक्ताः । आचार्येणापि अङ्गेषु यथाश्रयभाव इत्यादिना
पूर्वपादान्ते ता विचारिताः । भाष्यकारैरपि प्राचीनवृत्तिकारादिसंमतं
४४ वेदान्ताधिकरणमाला ।
ततस्तत्फलं किं, कथं च तस्य ज्ञानफलदाधिक्यमित्याकांक्षायां चतुर्थे एकसूत्रे तद्भूतस्ये-
त्यधिकरणे भगवद्धर्माणां साधनदशायामुत्कृष्टत्वेपि फलदशायां मुक्तिभवने फलतो न कश्चिद्विशेष
इत्याशंक्य, नियमादिभिर्हेतुभिस्तस्य नित्यत्वं, भक्तानां मुक्त्यनिच्छया तत आधिक्यं च मुख्य-
भक्तिमार्गोत्कर्षार्थ प्रसंगात्प्रतिपादितम् ॥ ४ ॥
ततः पंचमे द्विसूत्रे न चाधिकारिकमित्यधिकरणे मर्यादापुष्टस्यापि यत् भगवदीयत्व-
रूपमंतरंगिष्ठारूपं यत्फलं तन्नित्यं, ज्ञानमार्गियमुक्तेः सकाशादधिकमित्यनुप्रसंगेन निरूपितम् ।
एवमधिकरणद्वयेन पूर्वोक्तकर्मोपसंहारप्रकारे बीजं बोधितम् ॥ ५ ॥
ततः षष्ठे चतुःसूत्रे बहिस्तूभयथेत्यधिकरणे सर्वविधस्य पुष्टिमार्गीयस्य आश्रमरूप-
संन्यासधर्मानुपसंहारार्थं साधनत उत्कर्षबोधनायानुप्रसंगेन गृहत्यागो विचारितः । स च मध्यमा-
धिकारे एवेति फलति ॥ ६ ॥
ततः सप्तमे एकसूत्रे सहकार्यंतराधिकरणे गृहत्यागिनो मर्यादापुष्टिमार्गीयस्य शमादिकं
भावनासहकारित्वेन कर्तव्यम्, पुष्ट्यंशबाहुल्ये तु तेनापि भावनामात्रमेव कर्तव्यमिति साधन-
व्यवस्थाऽनुप्रसंगाद् दर्शिता ॥ ७ ॥
ततोऽष्टमे चतुःसूत्रे गृहिणोपसंहाराधिकरणे, प्रथमसूत्रेण पूर्वोक्तेभ्यो जघन्याधिकारिणां
त्यागानुकल्परूपं गृहे स्थित्वा भगवद्भजनं कर्तव्यमिति विचार्य, द्वितीयादिभिस्तस्य करणप्रकारस्तदा-
धिक्यं, भगवद्भावस्य लोकेष्वप्रकटनं, भगवद्भजनव्यतिरिक्तसमये लौकिककरणं, गृहिणोपसंहार-
श्रुतिमनुसृत्यानुप्रसंगाद्विचारितम् । तेन विहितत्वाच्चाश्रमकर्मापीत्यनेन यत्पूर्वमुक्तं तस्य
प्रकारो बोधितः ॥ ८ ॥
ततो नवमे एकसूत्रे एवं मुक्तिफलानियम इत्यधिकरणे तादृशस्य देहपातोत्तरं मुक्तिर्वा
भगवदीयत्वं वेति संशये मुक्तिस्तु नियतैव, भगवदीयत्वं तु भगवत्कृपाधीनमित्यनियमो
निर्णीतः । तेनानुकल्पोपि मर्यादामार्गादधिकः, निरवद्यानंदपुरुषोत्तमसायुज्यादिति ॥ ९ ॥
एवमस्मिन्पादे बहिरंगविचारेण सप्रकारः कर्मोपसंहारो दर्शितः । एवमस्मिन्नध्याये चतुर्भिः
पादैः सर्वसाधनं सप्रकारमुपदिष्टम् ॥
इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ
वेदान्ताधिकरणमालायां तृतीयाध्यायस्य चतुर्थः पादः समाप्तः ।
तृतीयाध्यायः समाप्तः ।
चतुर्थोध्यायः ।
अथ चतुर्थाध्यायेऽवसरसंगत्या फलं निरूप्यते । तच्च फलं ब्रह्मविद इति चतुर्भिः पादै-
र्जीवतो म्रियमाणस्य गच्छतः प्राप्तफलस्य च क्रमेण तस्य यथाधिकारमवस्था निरूप्यंते ।
तत्र प्रथमपादस्य द्विसूत्रे प्रथमेधिकरणे प्रथमवर्णकेन श्रवणादीनामवांतरफलसद्भाव
तेषामावृत्तिः कर्तव्येत्युच्यते । तेन पूर्वपादांते गृहिणोपसंहारे सर्वेद्रियाणामात्मनि प्रतिष्ठापनमुक्तम्,
तत्प्रकारोत्र दर्शित इति पूर्वेण सह प्रकारप्रकारिभावः संगतिरिति बोध्यम् । द्वितीयवर्णकेन तु
872
श्रीपुरुषोत्तमविरचिता । ४५
ज्ञानभक्त्योः फलत उत्कृष्टत्वाय कर्ममार्ग आवृत्तिव्युत्पादनेन फलजघन्यत्वमपि बोधितम् । तेन
कर्मणि तत्फले चानासक्तिरपि तत्प्रकारत्वेन बोध्यत इति सैव पूर्वेण सह संगतिरिति बोध्यम् ॥ १ ॥
ततो द्वितीये त्रिसूत्रे आत्मेतीत्यधिकरणे प्रथमवर्णकेन ज्ञानफलं द्विविधं विचार्यते ।
मुख्यं त्वात्मप्रवेशरूपमनश्वरम्, द्वितीयं त्वधिकार्युपस्थितेषु तेभ्यो ज्ञानोपदेशरूपमवान्तरफलम्,
भगवदाज्ञापरिपालनात्मकम्, न त्वाचार्यत्वकामनाकृतमित्युच्यते । द्वितीये ननु 'न स पुनरावर्तत'
इतिश्रुत्युक्तो ज्ञानभक्त्योः फलरूपः पुनरावृत्यभावः किं सावधिक उत निरवधिक इत्याशंकायाम्,
निरवधिक इति सिद्धांत उच्यते । नित्ये भगवद्रूप आत्मनि ब्रह्मविदो जीवात्मनः शुद्धजले जलस्येव
प्रवेशेन ताहक्त्वस्यैव श्रुतावुक्तत्वादिति, भक्तिमार्गे च भगवतो मुक्तोपसृप्यत्वेन सेवार्थं तन्निकट-
[
'? No, it is 'उभयोर्मुख्यमानत्वेपि'.
Let's check every line carefully from L1 to L33:
कार्यायैव, येषामग्निहोत्रकरणरूपं प्रारब्धमस्ति तेषां तत्करणरूपेण भोगेन तन्निवृत्तेः, न तु तस्य
कर्मणः संश्लेष इत्युक्तम् । तेन मर्यादामार्गीयस्य कर्मसंसर्गाभाव इत्यनेनाधिकरणेनावसराद्वा
प्रसङ्गाद्वा साधितम् ॥ ६ ॥
ततः सप्तमे त्रिसूत्रे अतोऽन्यापीत्यधिकरणे पुष्टिमार्गीयस्य 'तस्य पुत्रा दायमुपयंति
सुहृदः साधुकृत्याम् द्विषंतः पापकृत्या'मिति श्रुतिबलाद् विनैव भोगं प्रारब्धनिवृत्तिरिति प्रथमसूत्रे
उच्यते । ततो द्वितीये 'यदेव विद्यये'ति श्रुत्या ब्रह्मविदः कर्मकरणप्राप्तौ तत्संश्लेषमाशंक्य, इदं
वाक्यं कर्मांगभूतोद्गीथोपासनाविषयम्, न तु ब्रह्मविद्याविषयम्, अतो न तस्य आपादयितुं शक्यते
कर्मसंश्लेषो ब्रह्मविदः । किंच, यद्यनया कर्मकरणं प्रस
विहितसाधनं विनैव मोचनेच्छा पुष्टिमार्गमर्यादा । अतस्तयोः संकरः कदापि न भवतीति विशिष्टे-
च्छया आधिक्यमुक्तम् । ततो द्वितीये पुष्टिमार्गीयमुक्तिदशायां मर्यादामागींयमुक्तेः संसारतौल्यव्य-
पदेश इत्युक्तम्, तेन पुष्टिमार्गस्याधिक्यं सूच्यते । ततस्तृतीये यदि तस्याः संसारतुल्यत्वं तदा
तस्या हेयत्वं स्यात्, तद्बोधकश्रुतेः प्रतारकत्वं चेत्याशंकायाम्, पुष्टिमार्गीयं तत्त्वं दुर्ज्ञेयम् । अतस्त-
दज्ञानान्मर्यादामार्गीयमुक्तिर्येषामीप्सिता तान् प्रति तामेवोपादेयत्वेन श्रुतिर्वदति, रागिणः प्रति स्वर्गादि
उपदिश्यते (तद्वत् । ततश्चतुर्थे तर्हि ब्रह्मविदामिव तादृशानां भक्तानामपि स्वमार्गोपदेशनं क्वचिच्छू-
येत), यतो नैवम्, अतो नैवमित्याशंकायाम्, तदनुपदेशने बीजमाह । पुष्टिमार्गीयाणां हि अवस्था-
द्वयम्, विरहः प्रियसंगो वा । तत्राद्ये स्वास्थ्याभावान्नोपदेशः । द्वितीये तु भगवत्संनिधानेन तदग्रे
धार्ष्ट्यं कर्तुमशक्यत्वान्नोपदेशः । अत उपदेशाभावान्न तस्यासत्ता वक्तुं शक्येत्युक्तम् । ततः
पंचमे भगवदीयानां विरह एव कथमित्याशंकायाम्, पुष्टिमार्गे भगवतो रसात्मकत्वस्यैव प्राकट्यात्
तेनैव तदुपपत्तिरिति युक्त्या समाहितम् । ततः षष्ठे विरहांगीकारे श्रुतिविरोधमाशंक्य, श्रुतौ शरीर-
संबंधिन एव दुःखस्य निषेधो, न भगवद्विरहजन्यस्येत्येवं समाहितम् । ततः सप्तमे श्रुत्या, अष्टमे
च स्मृत्या तद्दृढीकृतम् । ततो नवमे सर्वासां रसावस्थानां सत्ता श्रीगोकुल एव विद्यत इति श्रुत्या
व्यवस्थापितम् । एवं पंचभिः सूत्रैः प्रमाणपूर्वकं रसावस्थास्थापनेन पुष्टिमार्गस्य सर्वोत्कृष्टत्वं व्यव-
स्थापितम् । अतः पुष्टिमर्यादायामुपदेशेपि न कश्चिद् दोष इत्यर्थात् सूचितं भवति ॥ ३ ॥
ततश्चतुर्थे एकसूत्रे अविभागो वचनादित्यधिकरणे प्रसंगात् पुष्टिमार्गीयस्य नित्य-
लीलारूपफलानुभवस्य नित्यत्वं मर्यादामार्गात् फलतो विशेषप्रतिपादनाय विचारितम् ॥ ४ ॥
ततः पंचमे एकसूत्रे तदोकोऽग्रज्वलनाधिकरणे मर्यादामार्गीयस्य ब्रह्माण्डमध्ये सद्यो
मुक्तिप्रकारो विचारितः । तदग्रिमे च अवसरसंगत्या मर्यादामार्गीयस्य जीवोत्क्रांत्यनन्तरं क्रममुक्ति-
प्रकार उच्यते । तत्र साधारणस्यापि जीवस्य इंद्रियरूपाभिस्तेजोमात्राभिः सहैव येन केनचिद्वारेण
निर्गमनम्, तथापि यस्य साधनेन ( परमात्मा तुष्टः, ) स जीवस्तु एकशतनाडीषु या शताधिका
मूर्धन्या नाडी, तया ऊर्ध्वं त ‘क्त्या’ निष्क्रामति, साधनेन तुष्टो यो हृदयवर्ती परमात्मा तदनु-
ग्रहाद्विद्यासामर्थ्याच्च या भगवत्स्मृतिपरंपरा, तया तस्यानुग्रहः, तेन मूर्धन्यनाड्या निष्क्रमणमि-
त्युक्तम् ॥ ५ ॥
ततः षष्ठे चतुःसूत्रे रश्म्यनुसार्यधिकरणे । तत्र प्रथमसूत्रे यः क्रमेण मोक्षाधि-
कारी रश्म्यनुसारी मूर्धन्यनाड्या निःसरति तस्यापि हृदयाग्रे प्रकाश इत्युक्तम् । ततो द्वितीये
तृतीये च रात्रिकृतोऽयनकृतो विशेषश्च नास्तीत्युक्तम् । ततश्चतुर्थे स्मृतौ धूममार्गस्याप्युक्तत्वात्
तत्र च रात्रिदक्षिणावयनादीनामुक्तत्वादर्चिरादिमार्गे च ज्योतिरुत्तरायणादीनामुक्तत्वान्मुच्यमानस्य
कथं न विशेष इत्याशंक्य, स विशेषो योगिन एव, गती च ते स्मार्ते, अतो न ज्ञानिनः, तेन ज्ञानिन
उत्क्रमणे सर्वोपि कालः समान इत्युक्तम् । एतस्य करणग्रामनिष्पत्तिस्तु यत्र प्रारब्धसमाप्तिस्तत्र
मूतनेव भविष्यतीति ज्ञेयम् । उपक्रमे तन्मेवोक्तत्वादिति ॥ ६ ॥
१. विद्यांतर्गतत्वाद्भिन्न त्रुटितेति प्रतिभाति । २. इतः परं सूत्रत्रयं भिन्नाधिकरणत्वेन श्रीगोपेश्वरा इच्छंति, शांक-
रभाष्यानुसारतः श्रीकल्याणरायाः । 875
४८ वेदान्ताधिकरणमाला ।
एवमस्मिन् पादे पुष्टिमर्यादामार्गीययोर्प्रियमाणावस्था विचारिता ॥
इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ
वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य द्वितीयः पादः ॥
अथ तृतीयपादे क्रममुक्त्यधिकारिणो ब्रह्मविदोर्चिरादिमार्गेण गच्छतो व्यवस्थावसर-
प्राप्तोच्यते ।
तत्र प्रथमे चतुःसूत्रे अर्चिरादीत्यधिकरणे ज्ञानमार्गीयस्य भक्तस्य चेत्युभयोरर्चिरा-
दिमार्गेण गमनम्, उत सद्योमुक्तिरितिसंशये, यथा ज्ञानिनो नियमाभावस्तथा भक्तस्यापीति पूर्वपक्षे,
पंचाग्निविद्यायां ज्ञानमार्गीयाणामेवोपक्रांतत्वात्तेषामेव तेन मार्गेण गतिः, न तु भक्तस्यापीति निश्चीयते ।
ततस्त्रिभिः सूत्रैस्तन्मार्गपर्वनिर्धारः क्रियते । श्रुतिभेदेन पर्वभेदानामनेकोक्तत्वात् मार्गभेदे
प्राप्ते देवयानस्य मार्गस्य श्रुत्यंतरे यदैक्यमुक्तं तद्विरोधसंभवात् । पर्वसु निर्धारितेषु तु यस्य यत्पर्व-
भोगो भावी तं प्रति तत् पर्व, अन्यं प्रत्यन्यत् । यथा महामार्गे नानाग्रामेषु सत्स्वपि कस्यचित्
कस्मिंश्चिद् ग्रामे अवांतरनिवासः, अन्यस्यान्यस्मिन् ग्रामे सः, तद्वत् । एवं पर्वभेदेप्युपपत्तौ ब्रह्म-
लोकगमनसैक एवार्चिरादिमार्गों देवयानाख्यः सिध्यतीति निर्णीतम् ॥ १ ॥
ततो द्वितीये त्रिसूत्रे आतिवाहिकाधिकरणे तेन मार्गेण कथं गच्छतीत्याकांक्षाया-
मवसरगर्मेण प्रसंगेन गमनप्रकारो निर्धार्यते । तत्र पर्वभूतविद्युल्लोकपर्यंतं विद्यासामर्थ्येनैव गच्छति ।
ततो विद्युल्लोके अमानवः पुरुषो ब्रह्मलोकगमयिता तत्रागत्य तं विद्युल्लोकस्थं गंतारं ब्रह्मलोकं प्रापय-
तीति श्रावितम् । एवं सति येषां विद्युल्लोकमोगोस्ति ते वरुणादिलोकं गच्छंति । तत्र सः ब्रह्मलो-
कप्रापयिता आयाति न वेति संशये, तत्राप्यायाति, श्रुत्यंतरे प्रजापतिलोकानंतरमपि ब्रह्मलोकसोक्त-
त्वात्, ब्रह्मलोकप्रापयितॄणां पुरुषाणां च बहुत्वात्, यस्य यल्लोकभोगेन प्रारब्धसमाप्तिस्तं तत एव
लोकाद्ब्रह्म प्रापयंतीति प्रथमसूत्रे निर्णीतम् । तेषां ब्रह्मलोकप्रापका ये पुरुषास्ते आतिवाहिकशब्दे-
नोच्यंत इत्यपि । ततो द्वितीये सूत्रे अपुनरावृत्तिश्रुत्या देवयानं पंथानं प्राप्तानां ब्रह्मवित्त्वात्तेषां
सद्योमुक्तिरेवोचितेति तेषामवांतरलोकभोगजनिका कामनैव कुतः । किंच, 'यत्कर्मभिर्यत्तपसे'ति भग-
वद्वाक्ये मर्यादामक्तस्य या लोकांतरकामनोक्ता सापि कुतः । तेषां सद्योमुक्तेरेव प्रथमाधिकरणे निर्णी-
तत्वादाशंक्य, केषांचित् ज्ञानिनां मर्यादामक्तानां व्यामोहितत्वात् सा । व्यामोहश्च लीलासिद्ध्यर्थं,
येऽवांतर्लोकाः कृतास्तत्सृष्टिसार्थक्त्वाय भगवतैव क्रियते । अतो नानुपपत्तिरित्युक्तम् । ततस्तृ-
तीयसूत्रे ये वरुणादिलोकं गतास्तेषां स्वत एव ब्रह्मप्राप्तिरस्तु । आतिवाहिकस्य विद्युल्लोकीयत्व-
श्रावणेन तेषु लोकेषु तदभावादित्याशंक्य, श्रुतावातिवाहिकस्य न विद्युल्लोकीयत्वमभिप्रेतम् । 'पुरु-
षोऽमानव एत्ये'ति श्रावणाद्ब्रह्मलोकीयत्वम् । वैद्युतत्वं तु तस्य विद्युल्लोकपर्यंतमागमनात् । अतो
लोकांतरादपि ब्रह्मलोकप्राप्तावातिवाहिकापेक्षास्तीत्युक्तम् । किंच, वाजसनेयके 'ब्रह्मलोकान् गमय-
ती'ति श्रावितम् । छांदोग्ये तु 'ब्रह्म गमयती'ति श्रावितम् । तेन मर्यादामार्गीयं भक्तं वैकुंठलोकान्
गमयति । ज्ञानमार्गीयं त्वक्षरब्रह्म गमयतीत्यपि तत्र निर्णीतम् । एवमेतेन गमनप्रकारो निर्णीतः ॥२॥
876
ततस्तृतीये अष्टसूत्रे कार्यं बादरिरित्यधिकरणे पूर्वसूत्राधिकरणश्रुत्युक्तस्य प्राप्तव्यस्य
ब्रह्मणः किमविकृतब्रह्मत्वम्, उत कार्यब्रह्मलोकत्वमिति संशये, प्रथमं पंचसूत्रैर्यद्बादरिमतमुक्तम्,
तत्राधिकृतस्य परब्रह्मणो व्यापकत्वादग्नोक्तं गमनं न संगच्छते तस्मात् । किंच, श्रुत्यंतरे 'ब्रह्मलोका'-
निति 'तेषु वसंती'ति च बहुत्वेन वासाधिकरणत्वेन च विशेषितत्वादपि तथा। तत्र ब्रह्मत्वव्यपदेशस्तु
ब्रह्मसामीप्यात् । कल्पसमाप्तौ कार्यब्रह्मलोकस्य नाशे चतुर्मुखेन ब्रह्मणा सह तस्यापि चतुर्मुखवत्
परब्रह्मप्राप्तेः श्रुतौ स्मृतौ चाभिधानादपि प्राप्यब्रह्मलोकोऽपर एव, न तु परब्रह्मेति पूर्वपक्षत्वेनोक्तम् ।
ततस्त्रिभिः सूत्रैर्जैमिनिमतं सिद्धांतत्वेनोक्तम् । तत्र प्रथमसूत्रे ब्रह्मशब्दस्य बृहत्त्वादिगुणविशि-
ष्टत्वेन परस्मिन्नेव मुख्यवृत्तत्वात् गौण्याऽपरब्रह्मांगीकारो न युक्त इत्युक्तम् । ततो द्वितीये कौषीत-
किश्रुतौ प्रजापतिलोकाद्ब्रह्मलोकस्य पार्थक्येनोक्तत्वात् छांदोग्ये अर्चिरादिमार्गप्राप्यत्वेन समाप्तौ 'ब्रह्म
गमयती'त्युक्तत्वात् प्रजापतिलोकादन्यस्य कार्यब्रह्मलोकस्य कुत्राप्यश्रवणाद्गमनस्य प्रारब्धहेतुकत्वेन
विलंबप्राप्तेः संभवाच्च न गमनादिश्रुतिस्मृतिविरोध इत्युक्तम् । ततस्तृतीये 'ब्रह्मविदाप्नोति पर'मिति
श्रुतौ परप्राप्तिर्या उक्ता सैवाग्रिमर्चा विव्रीयते । तस्यां च ब्रह्मणा सह सर्वकामभोगलक्षणा या प्रति-
पत्तिरुच्यते, सा परेणैव सह । कुत्रापि श्रुतौ कार्यरूपे प्रतिपत्तेरनभिप्रेतत्वात् । अतो ब्रह्मशब्देन
परब्रह्मैवोच्यत इति सिद्धांतितम् । एवमष्टभिः सूत्रैः गंतव्यब्रह्मस्वरूपं प्रसंगाान्निरूपितम् ॥ ३ ॥
ततश्चतुर्थे एकसूत्रे अप्रतीकालंबनाधिकरणे पूर्वोक्तप्रकारेणातिवाहिकप्रापिता ब्रह्म-
प्राप्तिः किं सर्वेषामुपासकानाम्, उत केषांचिदेवेति संशये, अप्रतीकालंबनानेवातिवाहको नयतीति
निश्चीयते । तत्र प्रतीकोपासका द्विधा । केचिदतस्मिंस्तत्त्वेनोपासकाः, अन्यं तु तदंगेषु तत्त्वेनो-
पासकाः । तत्राद्यानामुपासनैव व्यंगा । 'योऽन्यथा संतमात्मान'मिति वाच्योक्तदोषप्रसंगात् । द्विती-
यानां तूपासनाव्यंगत्वाभावेपि 'यावन्मनसो गतं तत्रास्य कामचारो भवती'त्यादिश्रावणेन तत्क्रतुन्याय-
स्तस्तत्रैव पर्यवसानेन तेषां ब्रह्मप्राप्तेरनभिप्रेतत्वात् । पंचाग्निविद्यायास्तु अंगोपासनात्वेन प्रतीकत्वेपि
वाचनिकत्वात् तेषां नयनम् । तस्मात् ये परब्रह्मोपासकास्तानेव नयतीति ज्ञानमार्गीया व्यवस्था ।
भक्तिमार्गीयास्तु निष्कामांगोपासनकर्ता भक्तः सन् भक्तिफलादेवातिवाहिकं विनैव स्वयं गच्छतीति
तत्क्रतुश्चेति सूत्रशेषेण निश्चीयत इत्युक्तम् । एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यव-
स्थोक्ता । संगतिस्तत्रावसर एव ॥ ४ ॥
ततः पंचमे एकसूत्रे विशेषं च दर्शयतीत्यधिकरणे भक्तिमार्गीयाणां ज्ञानमार्गी-
याणां चाविशेषेणैव ब्रह्मप्राप्तिः, उत गमने विशेषात् फलप्राप्तावपि कश्चिद्विशेषोस्तीति संदेहे,
'ब्रह्मविदाप्नोति पर'मिति यजुर्व्याख्यानरूपायां 'सत्यं ज्ञान'मित्यस्यामृचि ज्ञानमार्गीयस्य अक्षर-
प्राप्तिरेव, भक्तिमार्गीयस्य तु 'यमेवैष वृणुते' इति श्रुत्युक्तवरणेन भक्त्या हृदि अक्षरब्रह्मप्रादुर्भावात्तत्र
स्थितेन पुरुषोत्तमेन सह भोग उच्यते । तत्र भक्तिमार्गः पुष्टिमर्यादाकेवलपुष्टिभेदेन द्विविधः ।
तत्राद्यस्य यथाधिकारं पुरुषोत्तमानुभवरूपो भोगः । द्वितीयस्य तु यथाधिकारं ब्रह्मणा सह सर्वकामा-
शनरूप इति विशेषं श्रुतिर्दर्शयति । तस्माद् ब्रह्मप्राप्तावस्ति तयोर्विशेष इति प्रसंगगर्भया पूर्वोक्त-
संगतैव निर्णीतम् ॥ ५ ॥
इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ
वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य तृतीयः पादः ।
ततश्चतुर्थे पादे पंचभिरधिकरणैः प्राप्तफलस्य ब्रह्मविदो व्यवस्था वक्तव्या । तत्र ब्रह्मविदो
भक्तिज्ञानमार्गभेदेन द्विविधाः । भक्तिमार्गीया अपि मर्यादापुष्टिकेलपुष्टिभेदेन द्विविधाः । अवांतर-
भेदास्त्वनेके । तत्र ज्ञानमार्गीयाः पुष्टिमर्यादामार्गीयाश्च प्रायशः क्रमेणैव मुच्यंते । अतिकृपया तु
केचित् सद्योऽपि । पुष्टिमार्गीयास्तु सद्य एव । एवमेतेषु ब्रह्मवित्सु ज्ञानमार्गीया अक्षरोपासकत्वात्त-
त्रैव पर्यवसन्नाः सद्यः क्रमेण वा तमेव प्रविशंति । पुष्टिमर्यादामार्गीयास्तु सद्यः क्रमेण वा नित्यं
ब्रह्मलोकं प्राप्नुवंति । तेषां लौकिक्यामेव गुहायामक्षरम् । तत्र स्थितं पुरुषोत्तमं चानुभूय पुरुषोत्तम-
स्वरूपे प्रविशंतीत्येतावत्पूर्वपादांते सिद्धम् । ये पुनः क्रमेण नित्यं भगवल्लोकं प्राप्नुवंति, ते तत्रैव
भगवंतं भिन्नमीश्वरत्वेनानुभवंतो यथाधिकारं सेवौपयिकदेहं प्राप्नुवंतीत्यर्थात् सिध्यति । तदपि
तृतीयस्कंधे ‘अथो विभूतिं मम मायाविनस्ता’मिति कपिलदेववाक्यादवसीयते ।
अतःपरं पुष्टिमार्गीयस्य प्राप्तफलस्य ‘सोऽश्नुते सर्वान् कामान्’ इति श्रुत्युक्ता व्यवस्थाव-
शिष्यते । सा विशेषदर्शनसूत्रे संक्षेपेण सिद्धास्मिन्पादे प्रपंच्यते ।
ततः संपद्याविर्भाव इति चतुःसूत्रे प्रथमाधिकरणे प्रथमसूत्रे भगवत्स्वरूपे
लीनस्य पुष्टिमार्गीयस्य स्वलीलानुभावनार्थं भगवता बहिराविर्भावः क्रियते, अनुगृहीतत्वात् । स
चाविर्भावो भगवत्स्वरूपबलेनैव लीलाधिकरणे भवति, न तु प्रपंच इति श्रुतिबलादुक्तम् । ततो
द्वितीये तस्यैवाविर्भावेपि मुक्तत्वं नापैतीत्युक्तम् । ततस्तृतीये एवं फलदातुः परमात्मत्वमेवे-
त्युक्तम् । ततश्चतुर्थे ‘सत्यं ज्ञान’मित्यस्या ऋचः ‘ब्रह्मविदाप्नोती’त्यनेनैकवाक्यत्वं व्याख्यान-
व्याख्येयभावादस्ति, तस्मादयमेवार्थ इति निर्धारितम् ॥
ततो द्वितीये अष्टसूत्रे ब्राह्मेणेत्यधिकरणे येन देहेनायं जीवो लीलानुभवं करोति
तादृशो देह उपोद्घातेनावसरेण वा विचारितः । तत्र प्रथमसूत्रे सच्चिदानंदात्मकेनैव देहेन ब्रह्मणा
सह भोगान् भुंक्त इति स देहस्तादृशो ब्रह्मणा संपादित इति साधितम् । तत्प्रकरणे ब्रह्मात्मकाना-
मेवान्नमयादिविभूतीनामुपन्यासादिति जैमिनिमतकथनमुखेन तत्संपत्तिश्च प्रदर्शिता । ततो द्वितीय-
सूत्रे प्रज्ञानघनश्रुत्या केवलज्ञानात्मको ब्रह्मणो विग्रहो बोध्यते । अतस्तादृशेन सह भोगकर्त्री
ज्ञानात्मकेनैव भवितव्यम् । नचैवमानंदानुभवेन सर्वकामाशनबाधः शंकनीयः । भगवतः पूर्णानंदत्वात्
तत्संबंधेनैवानंदानुभवः सिद्धः । तस्माद्विग्रहं विनैव केवलस्वरूपेण भुंक्त इत्यौडुलोमिमतमुक्तम् ।
ततस्तृतीये सूत्रे ‘सत्यं ज्ञान’मित्यस्यामृचि गुहाया उक्तत्वात् तस्याश्च विग्रह एव संभवात् श्रुतौ
विग्रहत्वेनैवोपन्यासः । ते च विग्रहा भगवद्धाम्नि पूर्वमेव वर्तंते भगवद्धर्मरूपाः । तेषु कस्मिंश्चिदयं
चिन्मात्र एवाविश्याभिमानं कृत्वा भगवदिच्छानुरूपलीलात्मकान् भोगान् भुंक्ते । तस्मान्न चिन्मात्र-
त्वस्य नित्यविग्रहवत्त्वस्य च विरोध इति मतद्वयं संगृह्य तादृशविग्रहेणैव भुंक्त इति स्वमतमुक्तम् ।
ततश्चतुर्थे सूत्रे तादृशदेहप्राप्तौ भक्ते भगवदनुग्रह एव हेतुरित्युक्तम् । तेन तादृशो भोगो न
सर्वेषाम्, किंत्वत्यंतभगवदनुगृहीतानामेवेति वरणश्रुत्या सिध्यति । ततः पंचमसूत्रे अतो हेतोः
भगवाननन्याधिपतिः । अनन्याश्च त एव ये साधनत्वेन (फलत्वेन) च भगवंतमेवे जानंति ।
तस्मात्तदर्थमेवं भगवतः संकल्प इत्युक्तम् । तेन तदेकतानतया तदाश्रयतया च ते सर्वदा तिष्ठंतीति
सिध्यति । ततः षष्ठे सूत्रे मुक्तस्य देहांगीकारप्रतिकूलं बादरिमतमाह । ‘यत्र हि द्वैतमिव भवती’-
त्यादिश्रुतिर्मुक्तिदशायां द्वैतदर्शनमुक्त्वा ‘यत्र त्वस्य सर्वमात्मैवाभू’दित्यादिना , मुक्तस्य द्वैतदर्शनं
878
निवेषति । तथा सति द्वितीयदर्शनाभावे कामभोगवार्तैव दूरेति तदाक्षेप्त्यो देहोपि दूरतरः । एतन्मते
'ब्रह्मविदाप्नोति पर'मित्यादिश्रुतिः पूर्वपक्षाविश्रांता । ततः सप्तमे बादरिविरुद्धं जैमिनिमतमाह ।
जैमिनिस्तु मुक्तस्य देहसत्तां मन्यते । 'ब्रह्मविदाप्नोती'ति श्रुतिः पूर्वपक्षाविश्रांतेत्यत्र मानाभावान्न
बादरिमतं साधीयः । अनेन श्रुतिविरोधापत्तेः । श्रुतौ हि 'ब्रह्मविदाप्नोती'त्यत्र ज्ञानस्य तत्प्राप्ति-
साधनत्वमुच्यते, 'नायमात्मे'त्यत्र वरणैकप्राप्यत्वम् । अतः साधनबोधकश्रुत्योः परस्परविरोधः ।
'सोश्नुत' इत्यादिना परप्राप्तिरूपन्यस्यते । 'ब्रह्मैव सन् ब्रह्माप्येती'त्यत्र ब्रह्मणि जीवस्य लय उच्यते ।
अतः फलबोधकश्रुत्योर्विरोधः । एवं विरोधे सति तदभावाय गतिरवश्यं कल्पनीया । तत्र पुष्टि-
मर्यादाभ्यां मार्गभेदस्य सिद्धत्वात् तत्तन्मार्गीयस्य तत्तदेव फलं परमिति व्यवस्थितविकल्प एव
ज्यायानिति नैकतरादरणं युक्तमिति । ततोष्टमे भगवान् व्यासः स्वसिद्धांतमाह । लोके हि शरीरं
भूतजन्यं भोगायतनं च दृष्टम् । मुक्तस्य तु शरीरतदभावावाक्षेपलभ्यौ न निवारयितुं शक्यौ । अतः
शरीरमेव तादृशं कल्पनीयं येन श्रुत्यविरोधः । तत्र भूमविद्याया'मात्मतः प्राण' इत्युपक्रम्य 'आत्मत
एवेदं सर्व'मित्यंतेन भगवत एव सकाशाद्भोगोपयोगिसर्वसामग्रीश्रावणान्मुक्तस्य शरीरं न भूतजन्यम्,
तस्मादशरीरम् । तत्रैव 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानंद' इति श्रावणात्तच्छरीरं भोगा-
यतनम् । तस्माच्छरीरमपि । एवमुभयविधत्व आस्थिते श्रुतीनां न कश्चिद्विरोधः ॥
ततस्तृतीये द्विसूत्रे तद्भावाधिकरणे गुणोपसंहारपादोक्तं निर्दोषपूर्णगुणं भगवत्स्व-
रूपमेव फलमिति विचारितम् । तत्र पूर्वसूत्रे दोषरूपाणामङ्गत्वादीनां भगवति या प्रतीतिः, सा भ्रांता,
स्वप्नवदर्थाभावेपि प्रतीयते । तस्माद् ब्रह्म निर्दोषमित्युक्तम् । ततो द्वितीये सूत्रे याः पौगंडाद्यो-
वस्थाः, ये च गुणास्ते सर्वे संत एव मायापसारणाद्भक्तानां प्रतीयंते । तस्माद् ब्रह्मानंतगुणपूर्णमव-
तारेपीत्युक्तम् । तथा चावसर एव संगतिरित्यर्थः ॥ ३ ॥
ततश्चतुर्थे द्विसूत्रे प्रदीपवदित्यधिकरणे फलानुभवोपकरणं प्रकृतत्वाद्दिचार्यते । पूर्वा-
धिकरणयोः फलप्राप्त्युपकरणस्य फलस्वरूपस्य च विचारितत्वात् । अतोवसरोत्र संगतिः । तत्र प्रथ-
मसूत्रे मुक्तस्य भगवत्कृपयाभिव्यक्ताभ्यां जैवज्ञानक्रियाभ्यां योगेपि न ताभ्यां भगवता सह काम-
भोगकरणसमर्थो भवति, किंतु यथा प्राचीनः प्रकृष्टो दीपः स्नेहयुक्तायामर्वाचीनायां वर्त्यां प्रविष्टस्तां
समानकार्यक्षमां करोति, तथा भगवानपि स्वदत्ते मुक्तदेहे जीवेन सह प्रविष्टस्तं देहं स्वभोगरूपकार्य-
क्षमं करोति । यतो 'भर्ता स'न्निति भर्तृसूक्तारंभमंत्रे भगवतः क्रीडार्थं बहुधा आवेश उक्तः । तेनैवं
ज्ञायते क्रीडोपयोगिभगवदावेश एव फलानुभवोपकरणमिति । ततो द्वितीयसूत्रे अस्थूलादिश्रुतेः
सर्वकामभोगश्रुतेश्च यो विरोधः स सुषुप्तिमोक्षभेदेन भगवदाविर्भावप्रकारभेदात् परिहृतः ॥
ततः पंचमे षट्सूत्रे जगद्व्यापाराधिकरणे भोगप्रकारो विचारितः । तत्र प्रथमसूत्रे
'सोश्नुते सर्वान् कामान्'निति श्रुतिर्मुक्तिकरणस्था । तस्मात्तत्र न जगत्संबंधः । किंच, भगवल्लीला
कालमायाव्यतीता । तेन प्राकृतं जगत् ततो दूरतरमिति न तत्संबंधः । अतो लौकिकव्यापाररहित-
मेव मुक्तस्य भोगकरणमित्युक्तम् । ततो द्वितीयसूत्रे 'सर्वं हि पश्यः पश्यती'तिश्रुत्युक्तप्रत्यक्षोप-
देशेन तस्य जगद्व्यापारसाहित्यमाशंक्य, श्रुतौ सर्वपदेन न जगदुच्यते, किंतु लीलास्थाः पदार्था
एवोच्यंते । तेषामेव दर्शनम् । अतो न श्रुतिविरोधः । किंच, पूर्वोक्तश्रुत्यनंतरं 'स एकधा भवती'ति
भक्तस्य नानारूपबोधिकाश्रुतिः पठ्यते । तेन नानारूपैर्नानालीलां भगवदनुभावितामनुभवतीति न
५२ वेदान्ताधिकरणमाला ।
लीलानामनित्यत्वम्, नापि काचिदन्यानुपपत्तिरित्युक्तम् । ततस्तृतीये सूत्रे 'आयास' इत्यागम-
नभविष्यत्वबोधकभगवद्वाक्याल्लीलानां भक्तरूपाणां चानित्यत्वमाशंक्य, भगवल्लीला प्राकृतविलक्षणा
भगवदिच्छयैवोपपद्यमाना न कुतकैरन्यथा भाव्या, किंतु श्रुत्या नित्यत्वेनोक्तत्वादलौकिकानुसरण-
मेव कर्तव्यमित्युक्तम् । ततश्चतुर्थसूत्रे अस्मिन् सूत्रे कुतर्केणान्यथाभावनं न कर्तव्यमिति यदुक्तं
तदेव श्रुतिप्रत्यक्षाभ्यां साधितम् । ततः पंचमसूत्रे जीवस्य भोगमात्र एव भगवत्साम्यम्, न तु
सर्वथेति 'न तत्समश्चाभ्यधिकश्च दृश्यते' इतिश्रुतेर्न विरोध इत्युक्तम् । एवमत्र पंचसूत्र्या भगवतः
परमफलत्वमर्थादुक्तं भवति । ततः षष्ठे ईदृशं परमफलं प्राप्य भक्तानां ज्ञानिनां चावृत्तिर्नास्ति । तत्र
प्रमाणं च शब्दः श्रुतिरूपः स्मृतिरूपश्चेत्युक्तम् । एवं षड्भिः सूत्रैर्फलभोगप्रकारो विचारितः ॥ ५ ॥
वेदांतीयन्यायमालामणुभाष्यानुसारिणीम् । सौकर्यायार्थबोधस्य चकार पुरुषोत्तमः ॥ १ ॥
इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ
वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य चतुर्थः पादः ।
चतुर्थोध्यायः समाप्तः ॥
880
श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ प्रथमोऽध्यायः ।
चतुर्थः पादः ।
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति
च ॥ १ ॥ (१४१)
एवं सर्वेषां वेदान्तानां ब्रह्मपरत्वे निर्णीते, केचिद् वेदार्थाऽज्ञानात् क्वचिद्
वेदभागे कापिलमतानुसारिपददर्शनेन तस्यापि वेदमूलकत्वं वदन्ति । तन्निराकर-
भाष्यप्रकाशः ।
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥
अतीतेषु पादेषु प्रथमेऽतिव्याप्तिजनकशब्दकृतसंदेहवारणाय कार्यनिरूपकाणि वाक्यानि विचार्य,
द्वितीयतृतीययोश्च यथायथं जीवजडरूपार्थकृततत्संदेहवारणायान्तर्याम्युपास्यरूपनिरूपकाणि च
वाक्यानि विचार्य सर्वेषां वेदान्तानां साक्षात् परंपरया च ब्रह्मणि समन्वयः प्रतिपादितः । स
तदा दृढीभवति यदा श्रौतत्वेनाभिमन्यमानस्य मतान्तरस्य श्रौतता निराक्रियते । अतस्तदर्थं
चतुर्थे पादे जीवजडसमुदायात्मकार्थनिरूपकतया मतान्तरश्रौतताभ्रमजनकानि प्रकीर्णानि
वाक्यानि विचार्यन्त इत्युपोद्घातबोधनाय पूर्वपादत्रयसिद्धमर्थमनुवदन्त एतत्पादार्थमाहुः
एवमित्यादि । तथा च तन्निराकरणं प्रयोजनं, तादृशवाक्यविचारश्चार्थ इत्यर्थः । नन्वदृश्यत्वाद्य-
रश्मिः ।
आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥
परंपरयेति जीवमुख्यप्राणलिङ्गादित्यत्र जीवमुख्यप्राणप्रतिपादकवेदान्तानां परंपरया समन्वय ।
उपोद्घात इति । तथाच प्रकृतः स च वेदान्तानां समन्वयः तत्सिद्ध्यर्थां चिन्तां मतान्तरनिराकरण-
चिन्तामुपोद्घातं बुधा विदुरिति । ननु सांख्यमतनिराकरणमाकस्मिकमिति चेन्न, षट्सु शास्त्रेषु
वेदवेदान्तयोरङ्गाङ्गिभावः परस्परं, स आरम्भ एव विचारितः । अधुना तृतीयशास्त्रस्य विचारः
प्राप्तावसरः क्रियत इति योगः प्रत्युक्त एव । द्वितीयेऽध्याये पञ्चरात्रविचारः पाशुपतमतदूषणं
'येऽप्यन्यदेवता भक्ताः' इत्यादिना गीतायां स्पष्टमेव । नास्तिकादिमतानि दूष्यत्वेन पुराणप्रसिद्धानि
द्वितीये द्वितीयपादे प्रतिवक्तव्यानीति ज्ञेयम् । तादृशेति प्रकीर्णकवाक्यविचारः प्रकीर्णकत्वं
कापिलमतश्रौतताभ्रमजनकत्वं क्वचिद्वेदभागे कापिलमतेत्यादिभाष्यात् । समन्वयानुकूलः मतान्तर-
श्रौतताभ्रमजनकवाक्यविचारः इत्यत्र विचारपदं तादृशसमन्वये लाक्षणिकं वा । समन्वयस्त्वध्यायार्थः।
१०५ ब्र० सू० १०
८१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १
णाय चतुर्थः पाद आरभ्यते । तत्र, ईक्षतेर्नाशब्दमिति सांख्यमतमशब्दत्वादिति
निवारितम् । वेदेन प्रतिपादितमिति तत्राशङ्कते । आनुमानिकमप्येकेषाम् ।
एकेषां शाखिनां शाखासु सांख्यपरिकल्पितप्रकृत्यादि श्रूयते ।
‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥’
भाष्यप्रकाशः ।
धिकरणे एतादृशमपि वाक्यं विचारितमेवेति, किमनेन विचारेणेत्याशङ्कां समादधानाः सूत्राक्ष-
मवतारयन्ति तत्र ईक्षतेरित्यादि । तथाच यद्यपि तद्वाक्यं विचारितं, तथापि तन्मतस्य सर्वथा
अश्रौतत्वमेवेति नोपपादितमतो विचार इत्यर्थः । एतेनास्य पादस्य, ईक्षतिसमन्वयसूत्रप्रपञ्च-
रूपत्वं बोधितम् । नन्वत्र प्रकृतिनिराकरणमेवास्तु । मतस्य श्रौततानिराकरणे किं गमकमित्या-
काङ्क्षायामानुमानिकपदमेव गमकमित्याशयेन व्याकुर्वन्ति एकेषामित्यादि । तथा च पूर्वग्रन्थे-
‘कामाच्च नानुमानापेक्षा,’ ‘नानुमानमतच्छब्दात्’ इत्यादौ केवलानुमानपदादत्र च संबन्धितद्धि-
तान्तानुमानिकपदात् सांख्यप्रवचनीये, ‘संघातपरार्थत्वात् पुरुषस्य’ इति सूत्रेऽनुमानेन प्रकृतिसं-
बन्धित्वेन सिद्धः पुरुषोऽपि संग्राह्यत्वेन गम्यते । तयोश्च निराकरणे तन्मतमेव निराकृतं भवतीति
सौत्रं पदमेव गमकमित्यर्थः । केषां शाखायामित्याकाङ्क्षायां विषयवाक्यमुदाहरन्ति इन्द्रियेभ्य
रश्मिः ।
एतादृशमिति ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रम्’
इत्यादिकं वाक्यं मायाप्रकृत्यविद्यावादानां श्रौतताभ्रमजनकम् । अवतारयन्तीति इदमुपलक्षणं तन्मतं
पूर्वपक्षे निवेश्य शंकराचार्यमतेनावतारयन्ति स्म विचारितमिति । नन्वीक्षत्यधिकरणे तु शब्दा-
प्रतिपाद्यं न भवति ईक्षतेः श्रावणादित्युक्तं न प्रकृतिर्निवारिता शंकरभाष्ये तु निवारितेति चेन्न ।
प्रकृतिनिराकरणं सूचितार्थत्वेनाङ्गीकृत्य विचारितप्रायमित्यर्थः । नोपपादितमिति सूचितार्थपक्षे ।
एतेनेति सूचितार्थाङ्गीकारेण ‘सर्वेषामेव शब्दानां व्यञ्जकत्वमपीष्यते’ इति । बोधितमिति व्यञ्जनया
बोधितं सूचितमिति यावत् । तथा चायं भाष्यार्थः । तत्रेति शांकरमतेऽसाकं सूचितार्थपक्षे ।
इतीति इत्येवं तयोः पक्षयोराशङ्कत इत्यर्थः । ननु शांकरमतपूर्वपक्षस्य पूर्वपक्षकरणे किं फलमिति
चेन्न सिद्धान्तस्य पूर्वपक्षतुल्यत्वात् । तथा च शांकरभाष्यमेतत्सूत्रसमाप्तौ । तदेवं पूर्वापरालोचनायां
नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाश इति । परपरिकल्पितस्येति प्रधानविशेषणान्मायाङ्गीकार-
ध्वननात् । पूर्वग्रन्थ इति आनन्दमयाधिकरणे द्युभ्वाद्यायतनाधिकरणे च । संबन्धीति अनुमानेन
संबध्यत इत्यानुमानिकं ‘शेषे’ इति ठक् । इति सूत्रे प्रथमाध्यायस्थे । अनुमानेनेति । ननु
आनुमानिकेनेति वक्तव्ये अनुमानपदं कुतः इति चेन्न । अनुमानेन प्रकृत्या सिद्धः पुरुषः
संग्राह्यत्वेन काठके गम्यते । प्रकृतिसंबन्धित्वेन संघातपरार्थत्वेन सिद्धः पुरुषः संग्राह्यत्वेन मन्यते
इत्यपि पदार्थात् । तथा च सूत्राणि ‘सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहं-
कारात्तन्मात्राणि उभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः’ ‘स्थूलात्पञ्चतन्मात्रस्य’
‘शब्दाभ्यन्तराभ्यां तैरहंकारस्य’ ‘तेनान्तःकरणस्य’ ‘ततः प्रकृतेः’ ‘संघातपरार्थत्वात्पुरुषस्य’ तयो-
रिति प्रकृतिपुरुषयोः । इन्द्रियेभ्य इत्यादीति तथा च काठकपदाद्यजुर्वेदे चरकाणाम् द्वादशविध
882
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३१
महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।
पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः' इति काठके श्रूयते ।
तत्र बुद्धेरात्मा अहंकारः । ततो महान् महत्तत्त्वम् । ततोऽव्यक्तं प्रकृतिः ।
ततः पुरुष इति । न ह्यहंकारादयः पदार्था ब्रह्मवादे संभवन्ति । तस्मादेवंजातीय-
केषु तन्मतपदार्थानां श्रवणान्मायाप्रकृत्यविद्यावादा अपि श्रौता इति चेन्न ।
भाष्यप्रकाशः ।
इत्यादि । कात्र प्रकृत्यादीत्यतो व्याकुर्वन्ति तत्र बुद्धेरित्यादि । बुद्धेरात्मा अहंकार इति ।
पर इत्यनुषज्यते । बुद्धेः सकाशादात्मा । 'सर्वात्मनोऽन्तःकरणं गिरित्रम्' इत्यन्तःकरणत्वेन
सिद्धस्य गिरित्रस्य, 'चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्राः' इति स्वस्मिन्ना-
त्मपदप्रयोगादात्माऽहंकारः पर इत्यर्थः । शेषं स्फुटम् । तथा चैवमत्र सांख्यमतप्रत्यभिज्ञानात्
तन्मतं श्रौतमिति तदाहुः नहीत्यादि । अपिशब्दार्थमाहुः तस्मादित्यादि । एवंजातीयके-
ष्विति । वक्ष्यमाणेष्वजादिवाक्येषु । मायाप्रकृत्यविद्यावादा इति । मायां तु प्रकृतिं विद्यात्,
पञ्चाब्रह्मवेदां पञ्चपर्वामघौम' इत्यादिवाक्येष्वभिमन्यमानाः । एवं पूर्वपक्षमनूद्य तद्दूषकं
रश्मिः ।
भवन्ति चरकाह्वर्का कठोः प्राच्यैकठाः कपिष्ठलकठोश्वारायणीयाः वार्तन्तव्याः श्वेताः श्वश्वतराः
औपमन्यवेः पांता ऐरिनेयौः मैत्रायणीयाश्चेति । श्वेताश्वतरोपनिषदिति प्रसिद्ध्याकारो न वाचनीयः
षडालिखितपाठक इति हि भाष्ये पाठकाधमेषु गणनात् । अतो द्वादश । यद्वा चरका इत्युद्देश्यं
अग्रे द्वादशविधेयानि । तथा चायं भाष्यार्थः । एकेषां मुख्येभ्यः सामान्यार्थशास्त्रिभ्योऽन्येषां
यजुर्वेदशाखिनां शाखासु चरकादिनाम्नीषु यद्वा एकेषां चरकानां केवलानां शाखिनां शाखासु हरकादिषु
इति । कठशाखायामित्यर्थः । कात्रेति अत्र श्रुतिषु सांख्यसिद्धप्रकृत्यादि केति प्रश्नः । सांख्य-
सूत्रानुक्तान्येव । आत्मपदस्याहंकारवाचकत्वं बुद्धेः परत्वं च व्युत्पादयन्ति बुद्धेरिति । सर्वात्मनः
पुरुषस्य । इदं द्वितीयस्कन्धेस्ति । अन्तःकरणत्वेनेत्यस्याहंकारत्वेनेत्यर्थः । चन्द्रो मनः । इदमुत्तरार्धं
त्रिपष्टितमेध्याये शिवस्तुतावस्ति । अहं श्रीशिवः अहंकारः । आत्मेत्यात्मपदमहंकारवाचकम् । बुद्धेः
परत्वमीश्वरस्य स्पष्टम् ।
'यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः' ॥
इति । भुजा इन्द्रः । स्वस्मिन्निति श्रीकपर्दिनि ह्यहंकारे तथाच गिरित्रसाहंकारस्य चन्द्रो मन
इत्याद्युक्तरीत्या वाचकं यदात्मपदं तस्य प्रयोगात् कस्मिन्नित्यतः स्वस्मिन्नहंकाररूपे श्रीशिवे इति
पंक्तिकान्वयः । चैत्रस्य गुरुकुलममित्यस्यैकदेशान्वयः । सांख्येति तदिदं सांख्यमतं श्रुताविति
सांख्यमतप्रत्यभिज्ञानम् । ननु वैदिकशब्दानां भिन्नत्वात्कथं श्रौतमिति चेन्न परमत ऐक्यात्
अपपीति मायाविद्यासमुच्चये रूपम् । ननु मायावादः शांकराणां प्रकृतिवादो निरीश्वरसांख्यानां
अविद्यावादः सैषाऽविद्या जगत्सर्वमिति श्रीनृसिंहतापनीयश्रुतेः तापनीयशाखिनामनिर्णयकर्तॄणामिति
त्रयाणां भेद उक्तो भाष्ये तेषामैक्यं पूर्वपक्ष इति प्रमाणपूर्वकं तं पक्षमाहुः मायां स्थिति । पञ्च-
पर्वाविद्या तासामभेदान्वयः आदिनाऽजादिवाक्यानि । श्रौता इति समख्या अभेदान्वयान् नामभेदेन
प्रयुक्ता न्यख्या । अभीति अभिमन्यन्ते ये वादास्तेष्वभिमन्यमानाः 'लटः शतृशानचौ' 'बाने दृक्' ।
883
८३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १
शब्दसाम्यमात्रेण न तन्मतं सिध्यति ।
'संदिग्धानां पदार्थानां पौर्वापर्येण निर्णयः ।
न तु संदिग्धवाक्येन सर्वव्याकुलतोचिता' ॥
अत्र हि पूर्वम् ।
'आत्मानं रथिनं विद्धि शरीरं रथमेव तु ।
बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
इन्द्रियाणि हयानाहुर्विषयाँस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' ॥
तदनु चत्वारि वाक्यानि । 'यस्त्वविज्ञानवान्' इत्यादि । तदनु 'इन्द्रियेभ्यः
भाष्यप्रकाशः ।
हेतुमवतारयितुं निषेधं व्याकुर्वन्ति शब्देत्यादि । तन्मतमिति । अहंकारमहत्तत्त्वप्रकृतिपुरुषाणा-
मुत्तरोत्तरं परत्वबोधकं सांख्यमतं कुतो न सिध्यतीत्यतः कारिकया तद्धेतुमाहुः संदि-
ग्धेत्यादि । पौर्वापर्येणेति पूर्वापरसंदर्भेण । संदिग्धा ह्यस्मिन् वाक्ये पदवाच्या अर्थाः । पदानि
वाक्यावयवभूतानि, वाक्यं च महावाक्यस्य । अतो महावाक्यानुरोधेन तदर्थो निर्णेयः । न तु
संदिग्धपदघटितवाक्येनावयविभूतस्य महावाक्यस्य व्याकुलता युक्ता । तथा च तद्व्याकुलीभावा-
देतन्मतं न सिध्यतीत्यर्थः । तदेतद् व्युत्पादयन्ति अत्र हीत्यादि । अत्रेति प्रकरणे । हिर्हेतौ ।
चत्वारीति । विज्ञानसारथिवाक्यस्य क्वचिदिन्द्रियेभ्यः परा इत्याद्यनन्तरं दर्शनाच्चत्वारि, विज्ञान-
रश्मिः ।
ननु 'कर्तरि कृत्' इति चेन्न घञादौ कर्तरि कृदित्यस्याप्रवृत्तिवदत्राप्यप्रवृत्तेरिति वैयाकरणभूषणसारे
सिद्धान्तनिर्णय उक्तत्वात् । निषेधमिति सौत्रनकारार्थम् । महेति अवयवभूतम् । व्याकुलतेति
उक्तशरीरूपकविन्यस्तागृहीतिपरित्यागेन सूक्ष्मदर्शनपरित्यागेन च स्थूलदृष्ट्या शब्दपीडा युक्तेत्यर्थः ।
हिर्हेति । परा इतीति हेतोः इत्यग्रेन्वयः । चत्वारीति ।
'यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः' ॥
'यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः' ॥
'यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः ।
न स तत्पदमाप्नोति संसारं चाधिगच्छति' ॥
'यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः ।
स तु तत्पदमाप्नोति यस्माद्भूयो न जायते' ॥
इति चत्वारि । वदतीति सूत्रे व्यासो वदति । 'भाष्ये । पूर्वमिति आत्मानं रथिनमित्यादि-
संबद्धः । एवकारेण सांख्यमतव्यवच्छेदः । तमिति पूर्वसंबद्धार्थम् । प्रकृते । ननु प्रथमसुबोधिन्यां
काव्यवद्रूपकनिरूपणे स्पष्टोर्थो भवति यद्यपि तथापि भागवते तथाकथनमनुचितं सर्ववेदसारीद्धार-
त्वात् । रूपकादिकं तु बुद्धिपरिकल्पितमिति रूपककरणं भाष्ये कुतः इति चेन्न ईश्वरवद्वेदोपि कर्तु-
मकर्तुमन्यथाकर्तुं समर्थ इति ज्ञापनाय कचिद्रूपककरणात् 'अत एव च नित्यत्वम्' इति व्याससूत्रात्
884