सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 966, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 966

श्रीपुरुषोत्तमविरचिता । ४१
सर्वभगवद्गुणोपसंहारः ज्ञानभक्त्यर्थं विचारितः । ततश्चित्तिरावेशिनि गुरुप्रतिमादावाविष्टे रूपे तदनु-
पसंहारः केवलभक्त्यर्थं विचारितः ॥ ३ ॥
ततश्चतुर्थे एकसूत्रे पुरुषविद्यायामित्यधिकरणे उत्तमाधिकारिभिरशेषगुणपूर्णं परं ब्रह्मै-
वोपास्यम्, न विभूतिरूपमिति साधितम् । आध्यात्मिकेषु विभूतिरूपेषु सर्वगुणानुपसंहारेऽसाधारण-
गुणानामानन्दपो हेतुश्चोक्तः ॥ ४ ॥
ततः पञ्चमे द्विसूत्रे वेधाद्यधिकरणे पूर्वसूत्रेणासन्यरूपे चेतनविभूतौ भगवत्संबन्धाद्यो-
षाभावनिरूपणात्कैमुतिकन्यायेन मूलरूपस्य निर्दोषत्वं समर्थितम्, आधिभौतिकरूपाणां जीवानां
सदोषत्वं च बोधितम् । ततो द्वितीये सूत्रे तत्सदोषत्वं भगवत्सकाशात् विभागदशायामेव, तथा
सति मुक्तिदशायां तारतम्याभावे प्राप्ते भगवत्तुल्यतापि स्यादिति