सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 979, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 979

८१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १
णाय चतुर्थः पाद आरभ्यते । तत्र, ईक्षतेर्नाशब्दमिति सांख्यमतमशब्दत्वादिति
निवारितम् । वेदेन प्रतिपादितमिति तत्राशङ्कते । आनुमानिकमप्येकेषाम् ।
एकेषां शाखिनां शाखासु सांख्यपरिकल्पितप्रकृत्यादि श्रूयते ।
‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।
मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥’
भाष्यप्रकाशः ।
धिकरणे एतादृशमपि वाक्यं विचारितमेवेति, किमनेन विचारेणेत्याशङ्कां समादधानाः सूत्राक्ष-
मवतारयन्ति तत्र ईक्षतेरित्यादि । तथाच यद्यपि तद्वाक्यं विचारितं, तथापि तन्मतस्य सर्वथा
अश्रौतत्वमेवेति नोपपादितमतो विचार इत्यर्थः । एतेनास्य पादस्य, ईक्षतिसमन्वयसूत्रप्रपञ्च-
रूपत्वं बोधितम् । नन्वत्र प्रकृतिनिराकरणमेवास्तु । मतस्य श्रौततानिराकरणे किं गमकमित्या-
काङ्क्षायामानुमानिकपदमेव गमकमित्याशयेन व्याकुर्वन्ति एकेषामित्यादि । तथा च पूर्वग्रन्थे-
‘कामाच्च नानुमानापेक्षा,’ ‘नानुमानमतच्छब्दात्’ इत्यादौ केवलानुमानपदादत्र च संबन्धितद्धि-
तान्तानुमानिकपदात् सांख्यप्रवचनीये, ‘संघातपरार्थत्वात् पुरुषस्य’ इति सूत्रेऽनुमानेन प्रकृतिसं-
बन्धित्वेन सिद्धः पुरुषोऽपि संग्राह्यत्वेन गम्यते । तयोश्च निराकरणे तन्मतमेव निराकृतं भवतीति
सौत्रं पदमेव गमकमित्यर्थः । केषां शाखायामित्याकाङ्क्षायां विषयवाक्यमुदाहरन्ति इन्द्रियेभ्य
रश्मिः ।
एतादृशमिति ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रम्’
इत्यादिकं वाक्यं मायाप्रकृत्यविद्यावादानां श्रौतताभ्रमजनकम् । अवतारयन्तीति इदमुपलक्षणं तन्मतं
पूर्वपक्षे निवेश्य शंकराचार्यमतेनावतारयन्ति स्म विचारितमिति । नन्वीक्षत्यधिकरणे तु शब्दा-
प्रतिपाद्यं न भवति ईक्षतेः श्रावणादित्युक्तं न प्रकृतिर्निवारिता शंकरभाष्ये तु निवारितेति चेन्न ।
प्रकृतिनिराकरणं सूचितार्थत्वेनाङ्गीकृत्य विचारितप्रायमित्यर्थः । नोपपादितमिति सूचितार्थपक्षे ।
एतेनेति सूचितार्थाङ्गीकारेण ‘सर्वेषामेव शब्दानां व्यञ्जकत्वमपीष्यते’ इति । बोधितमिति व्यञ्जनया
बोधितं सूचितमिति यावत् । तथा चायं भाष्यार्थः । तत्रेति शांकरमतेऽसाकं सूचितार्थपक्षे ।
इतीति इत्येवं तयोः पक्षयोराशङ्कत इत्यर्थः । ननु शांकरमतपूर्वपक्षस्य पूर्वपक्षकरणे किं फलमिति
चेन्न सिद्धान्तस्य पूर्वपक्षतुल्यत्वात् । तथा च शांकरभाष्यमेतत्सूत्रसमाप्तौ । तदेवं पूर्वापरालोचनायां
नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाश इति । परपरिकल्पितस्येति प्रधानविशेषणान्मायाङ्गीकार-
ध्वननात् । पूर्वग्रन्थ इति आनन्दमयाधिकरणे द्युभ्वाद्यायतनाधिकरणे च । संबन्धीति अनुमानेन
संबध्यत इत्यानुमानिकं ‘शेषे’ इति ठक् । इति सूत्रे प्रथमाध्यायस्थे । अनुमानेनेति । ननु
आनुमानिकेनेति वक्तव्ये अनुमानपदं कुतः इति चेन्न । अनुमानेन प्रकृत्या सिद्धः पुरुषः
संग्राह्यत्वेन काठके गम्यते । प्रकृतिसंबन्धित्वेन संघातपरार्थत्वेन सिद्धः पुरुषः संग्राह्यत्वेन मन्यते
इत्यपि पदार्थात् । तथा च सूत्राणि ‘सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहं-
कारात्तन्मात्राणि उभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः’ ‘स्थूलात्पञ्चतन्मात्रस्य’
‘शब्दाभ्यन्तराभ्यां तैरहंकारस्य’ ‘तेनान्तःकरणस्य’ ‘ततः प्रकृतेः’ ‘संघातपरार्थत्वात्पुरुषस्य’ तयो-
रिति प्रकृतिपुरुषयोः । इन्द्रियेभ्य इत्यादीति तथा च काठकपदाद्यजुर्वेदे चरकाणाम् द्वादशविध
882