अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
५५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ७ सू० २१
किंतु स्मृतिरेवेति । ब्रह्मविद्या वेदविद्या, उपचाराद्वेति । एवं प्राप्त उच्यते ।
अदृश्यत्वादिगुणकः परमात्मैव । ब्रह्मविज्ञानेनैव सर्वविज्ञानात् । तत एव विद्याया
भाष्यप्रकाशः ।
परापरविभागमुक्त्वा तत उपनिषत्समाप्तावक्षरविद्यासमापने, तेषामेवैतां ब्रह्मविद्यां वदेतेति
प्रकृतपरामर्शपूर्वकं ब्रह्मविद्यापदकथनाद् वेदविद्यापक्षो न साधीयानित्यत आह उपचाराद्वेति ।
एवं पूर्वपक्षमुक्त्वा सिद्धान्तं वक्तुं सूत्रं व्याचक्षते उच्यत इत्यादि । ब्रह्मविज्ञानेत्यादि
एकविज्ञानेन सर्वज्ञानस्य ब्रह्मविद्यालिङ्गत्वम्, 'अपि वा तमादेशमप्राक्ष' इत्यादिश्रुत्यन्तरे सिद्धम् ।
प्रकृतेऽपि, कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवतीति प्रश्नस्योत्तरत्वेनादृश्यत्वादिगुणकस्य
ततः सृष्टेश्च कथनेन तद्विज्ञानादेव सर्वविज्ञानबोधनादक्षराधिगमकत्वादेव विद्यायाः परत्व-
बोधनाच्च तल्लिङ्गमत्रापि दृश्यत इति स परमात्मैव, न तु प्रकृतिः । तद्विज्ञानेन पुरुषविज्ञानात्
रश्मिः ।
प्रकृतिसंश्लिष्टपुरुषस्य । व्यष्टीनामियादीति तस्मादग्निः समिधो यस्य सूर्यः इत्याद्युक्त्याभ्यादि-
व्यष्टीनाम् । नयेति सांख्यस्मृतित्वेन प्रकारेण सांख्योक्तपदार्थानां स्मृतिस्तत्पूर्वकं वेदान्तकरणात्
स्मृतिरिव स्मृतिः । उपचाराद्वेतीति । उच्यत इत्यादीति ब्रह्मविद्यायामाधेयनिरूपकश्रुतिमी-
मांस्योच्यते इत्यर्थः । यस्मिन् द्यौः पृथिवीत्याद्याधारनिरूपकश्रुतिमीमांसाया अग्रिमे पादे कर्त-
व्यत्वात् एतावत्या मीमांसया द्वितीयं मुण्डकं समाप्तं तृतीये मुण्डके यदा पश्य इति श्रुतिमीमांसा
साधनाध्याय तृतीयपादपञ्चमाधिकरणद्वितीयसूत्रेऽस्ति । नायमात्मा प्रवचनेन लभ्य इति श्रुति-
मीमांसा साधनाध्याये लिङ्गभूयस्त्वाधिकरणेपि विद्यैवेति सूत्रेऽस्ति । ब्रह्मपदशक्यस्य प्रतिपाद-
कतासंबन्धेन वेदे उपचारो लक्षणा तस्माद्वेति भाष्यार्थः । भाष्ये ब्रह्मविज्ञानेनैवेत्येवकारेणे-
तरस्याः प्रकृतेर्व्यवच्छेदाद्विशेष्यसंगतैवकारोक्तेर्मवति जिज्ञासा । अदृश्यत्वादिगुणकः परमात्मे-
त्यनुमितिः यथा पर्वतो वह्निमानित्यनुमितिः सा ब्रह्मविद्या तस्या एव लिङ्गं एकविज्ञानेन सर्ववि-
ज्ञानम् न तु प्रकृतिविद्याया इत्यत्र किं प्रमाणमिति तत्पूर्वै श्रुत्यन्तरसिद्धब्रह्मविद्यालिङ्गिनी
एकविज्ञानेन सर्वविज्ञानं लिङ्गमित्याहुः एकविज्ञानेति । अपि वेति विद्वन्मण्डनानुवादः तत्स्मर-
णार्थः किं प्रयोजनमिति चेच्चिन्त्यम् । उत तमादेशमित्यत्र 'अपि वा तमादेशम्' इति पुस्तकान्तर-
पाठो वा । श्रुतिः श्वेतकेतूपाख्यानस्य श्रुतिस्तु उत तमादेशमप्राक्षो येनाश्रुतं श्रुतं भवत्यमतं
मतमविज्ञातं विज्ञातमित्यत्रैकविज्ञानेन सर्वविज्ञानं प्रतिज्ञातमित्यादिविद्वन्मण्डने स्फुटम् । हे श्वेत-
केतो अप्राक्षः गुरुं प्रति पृष्टवानसीति श्रुतिस्थाप्राक्षः इत्यस्यार्थः । नचात्रापि प्रकृतिविद्यास्त्विति
शक्यम् । तद्विज्ञानेन पुरुषविज्ञानादेकविज्ञानेन सर्वविज्ञानप्रतिज्ञासंन्यासरूपनिग्रहस्थानापत्तेः ।
अतः प्रकृतेपि श्रुत्यन्तरैकवाक्यतयैतद्ब्रह्मविद्याया एव लिङ्गमिति समर्थयांबभूवुः प्रकृतेपीति ।
भगव इति भगवान् । तत एवेति भाष्यं विवरामासुः अक्षराधिगमकत्वादिति । अथ परा
यया तदक्षरमधिगम्यते इति श्रुतावक्षराधिगमकत्वस्य परविद्यालक्षणत्वात् । तल्लिङ्गमिति
विद्यालिङ्गम् । अत्रादृश्यत्वादिगुणकः परमात्मा वेत्यत्र सोऽदृश्यत्वादिगुणकः । पुरुषविज्ञा-
नादिति 'असङ्गोऽयं पुरुषः' इति कापिलसांख्यप्रवचनसूत्रेण 'न नित्यशुद्धबुद्धमुक्तस्वभावस्य तद्यो-
गस्तद्योगादृते' इत्यनेन च । योगसूत्रेष्वपि 'क्लेशकर्मविपाकाशयैरपरामृष्टपुरुषविशेष ईश्वरः' 'तत्र
निरतिशयं सार्वज्ञ्यबीजम्' 'पूर्वेषामपि गुरुः कालेनानवच्छेदात्' 'तस्य वाचकः प्रणवः' 'तज्जपस्तदर्थ-
556
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५७
अपि परत्वम् । अक्षरस्यापि ब्रह्मत्वं पुरुषस्यापि । तयोः परापरभावः ।
अभेदश्च । एतादृश एव हि ब्रह्मवादः । तत्र प्रथममक्षरस्य ब्रह्मत्वमाह ।
भाष्यप्रकाशः ।
तद्विद्यया मोक्षाभावेन परत्वानङ्गीकाराच्च तथेत्यर्थः । अत्रापि धर्मोक्तेरेव हेतुत्वम् । नन्वत्राक्षर-
पुरुषावुक्तावत उभयोर्विज्ञानेन तथात्वमुच्यते, न त्वेकविज्ञानेनेति नायं हेतुरित्यत आहुः
अक्षरस्येत्यादि । एतादृश एव हीति अन्यथा पुरुषस्वरूपकथनस्य पादत्रयेणैव सिद्धेरक्षरात्
रश्मिः ।
भावनम्' द्वितीयपादे 'अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः' 'अनित्याशुचिदुःखानात्मसु नित्यशुचि-
सुखात्मख्यातिरविद्या' 'दृग्दर्शनशक्त्योरेकात्मतेवास्मिता' 'सुखानुशयी रागः' 'दुःखानुशयी द्वेषः'
'स्वरसवाही विदुषोपि तथारूढोभिनिवेशः' एवं चाविद्यायाः ख्यातिल्वेन तद्विज्ञाने आत्मख्यातिवि-
ज्ञानात् तन्निवृत्तौ विशेषदर्शनसाध्यायां सत्यां पुरुषज्ञानेपि प्रकृतिविषयाऽज्ञानादित्यर्थः ।
परत्वेति प्रकृतिविद्यायां परत्वेत्यादिः । तथेति ब्रह्मविद्यायाः परत्वम् । विषयवाक्यप्रसङ्गा-
त्स्मृते विद्यापरत्वेष्येष एव हेतुरित्याहुः अत्रापीति । अत्र ब्रह्मविद्यायाम् । धर्मोपदेशस्तावददृश्यादि-
गुणकः परमात्मेत्यनुमितौ ब्रह्मविद्यात्वात् तद्विषयगतः सामानाधिकरण्यसंबन्धेनारोपितः यया तद-
क्षरमधिगम्यत इति श्रुत्युक्तोऽक्षरविद्यात्वरूपो धर्मस्तदुक्तेरित्यर्थो वा । तथात्वमिति सर्वज्ञानमित्यत्र
सर्वनिष्ठज्ञानरूपः प्रकार उच्यते । अयमिति सर्वविज्ञाने एकविज्ञानरूपो हेतुः । अक्षरस्येत्यादीति
भक्तिमार्गत्वाद्वीताद्वादशाध्याये योगाख्ये ।
'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः' ॥
इत्यर्जुनप्रश्ने । श्रीभगवानुवाच— :
'मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेता ते मे युक्ततमा मताः ॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते' ।
इत्याद्युक्त्वा 'ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः' इति वाक्येभ्यः । तयोः परापरभावः
ब्रह्मविदाप्नोति परमिति श्रुतिः अक्षरादपि चोत्तम इति गीतातः अभेदश्च ते प्राप्नुवन्ति मामेव इति
गीतातः । येनाक्षरं पुरुषं वेद सत्यमिति श्रुतिः येन तत्त्वेन प्रोवाच तां तत्त्वतो ब्रह्मविद्यामिति
उत्तरपादे तत्त्वमनतिक्रम्य ब्रह्मविद्यां प्रोवाचेत्यर्थाद्ब्रह्मविद्यायास्तत्त्वरूपत्वमिति न यत्तदोर्नित्य-
संबन्धविरोधः । पादत्रयेणेति द्वितीयमुण्डके दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः अप्राणो
ह्यमनाः शुभ्रः इति पादत्रयेण । क्षरात्परतोऽक्षरात्परः इति श्रुत्यर्थः । अत्रामूर्ताऽप्राणात्मनः
पदैरन्नमयादिविभूतिभेदः प्रतीयते स बाह्याभ्यन्तर इति पदात् विज्ञानमयभेदः तादृशो दिव्योऽजः
पुरुषः शुभ्रः आनन्दरूपममृतं यद्विभातीति श्रुतेर्गत्याया दिव्य आनन्दः । अत्र किंचिदुच्यते
ब्रह्मस्वरूपत्वाच्छ्रुतेः हि विशेषे विशेषेणैकदेशितेनामूर्तः मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं ततो नभोवत्
भेदो नात्यन्ताभावः तदङ्गीकारे तु मूर्तत्वावच्छिन्नप्रतियोगिताकाभाव इत्यर्थः । स च अन्योन्ये
ऽप्यन्य इवेषा घाना भगव इत्याद्यामन्त्रिकां भिन्धीति भिन्ना भगव इति किन्तत्र प्रसन्नमिति न
557
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
५५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० ७ सू० २१
भाष्यप्रकाशः।
परतः पर इति तुरीयं पादं न वदेत्। प्रयोजनाभावात् तथाच ब्रह्मवादस्य परापरभावपूर्वकाभेद-
घटितत्वेनात्राप्येकविज्ञानादेव सर्वविज्ञानस्याभिप्रेतत्वेन हेतुरस्त्येवेत्यर्थः। ननूभयोः कथमभेद
इत्याकाङ्क्षायामाहुः तत्रेत्यादि। तत्रेति अभेदे उभयोर्वक्तव्ये। विश्वोत्पत्तेः कथं ब्रह्मधर्मत्वमत
रश्मिः।
किंचन भगव इति तꣶहोवाच यं वै सौम्यैतमणिमानं न निभालयसे एतस्य वै सौम्यैषो-
णिम्नः एवं महान्न्यग्रोधस्तिष्ठति श्रद्धत्स्व सौम्येति स य एषोणिमैतदात्म्यमिदं सर्वं तत्सत्यं स
आत्मा तत्त्वमसि श्वेतकेतो इति श्रुतौ दर्शनाविषयोणिमा तद्रूपः। वक्ष्यते चारूप एव हि तत्प्र-
धानत्वादिति सूत्रे। ध्वंसप्रागभावौ कारणावस्थाविशेषौ नाभावौ। ननु भेदस्तु तादात्म्यसंबन्धा-
वच्छिन्नप्रतियोगिताकोऽभावः। मूर्तस्य तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकोऽभावः दिव्योमूर्तो
नेति तन्न आनन्दस्य साकारत्वेन परिच्छिन्नपरिमाणात्। अतो मूर्तभिन्नमूर्तसदृश इत्यर्थः। पर्युदासः
सद्ग्राहीति पर्युदासो नञर्थः । तथाच श्वेताश्वतरोपनिषत् ‘सर्वेन्द्रियगुणाभासं सर्वेन्द्रिय-
विवर्जितम्’ इति सर्वेन्द्रियालन्ताभावतद्गुणैराभासत इति सर्वेन्द्रियगुणाभासं नपुंसकत्वं छान्द-
सम्। सर्वेन्द्रियभिन्नत्वे सति तद्गुणैः सादृश्यात् पर्युदासः। एवमेतत्पूर्वश्रुतिषु अदृश्यमग्रा-
ह्यमगोत्रमवर्णमित्यादिपदेषु पर्युदासो ज्ञेयः। प्रहस्ते विशेषोस्ति प्रसज्यप्रतिषेधो नञर्थो
विद्वन्मण्डनेस्ति सर्वेन्द्रियविवर्जितमिति श्रुतेः स पर्युदासोपयोगी पूर्वोक्तरीत्येत्यविरोधः। यद्वा
सर्वेन्द्रियविवर्जितमिति सर्वेन्द्रियगुणाभासमिति एवमिन्द्रियपर्युदासो नास्थूलमित्यादौ स्थूलादे-
रतः प्रकारान्तरम् । कारणगुणाः कार्ये समायान्तीति स्थूलादिभिन्नस्थूलादिसदृश इत्यर्थः। अनु-
कूल्यधिकरणे सर्वस्य भगवदनुकारित्वादस्थूलमित्यादिषु पर्युदाससिद्धिः। पुरुष इति आदि-
जिज्ञासाया पुरा आसेति व्युत्पत्तिः न तु पुरि शेते इति न वा पुरमुषतीति उष दाहे इमा व्युत्पत्तयः
सुबोधिन्यां सन्ति। बाह्याभ्यन्तराभ्यां समानः हि निश्चयेनाजः अप्राणो हि पादपूरणे ‘हिः पादपूरणे’
इत्यादिविश्वात् । अमनाश्च पूर्ववत् । शुभ्र इति शुचि दीप्तौ भ्वादिरात्मनेपदी सेट्। शुभ शोभायाम्।
अदादिः परस्मैपदी सेट् रक्ष् दीप्तियुक्तः। ब्रह्म तर्हि अमिरिति श्रुतेः। गोपरूपोऽप्रामस्तरुणः शुभ्रः
शोभायुक्तः गोपवेष इत्यादिगोपालतापनीयश्रुतेः । अक्षरात् ब्रह्मणः परतः क्षरात्परतः परस्मात्
परः पुरुषोत्तमः। नन्वक्षराच्चन्द्रशेखरादित्ययो॑स्तु क्षरं प्रधानममृताक्षरो हर इति श्वेताश्वतरादिति
चेत्सत्यम् । भक्तादक्षरात्पर इत्यर्थात् ज्ञानेन भजतीत्यर्थवशिरःश्रुतेः। व्यक्तादक्षराद्वा परतो-
ऽव्यक्ताद्भगवत्कृपारूपात् परः व्यक्तमेवाक्षरमिति गोपालतापनीयश्रुतेः। एतद्ध्व्यक्तमक्षरं महतः
कारणम्। यत्त्वक्षरात् प्रकृतेः परतः परः अक्षरो भूतयोनिरिति व्याख्यानं तन्न अक्षरपदसाविधायां
शक्यभावात्। अक्षरं ब्रह्मवर्णयोरिति विश्वात्। प्रयोजनेति। न च कथं न प्रयोजनं पादत्रयेण
पुरुषमक्षरमिलनिरूपणादिति वाच्यम्। अत्र येनाक्षरं पुरुषं वेदेति श्रुतेरेव पुरुषमक्षरमिति निरू-
पणसंभवात्। ब्रह्मवाद इति ब्रह्मणः सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुत्युक्तस्य वादो भवत्वित्याकाङ्क्षाया-
माहुः परापरेति। परः पुरुषो भक्तमनोरथपूरककालकृतपरत्वविशिष्टत्वात् परस्मादपरत्ववैशिष्ट्या-
दपरमक्षरं तत्पूर्वकोऽभेदः ‘एकमेवाद्वितीयं ब्रह्म’ इति श्रुतेः ‘परास्य शक्तिर्विविधैव श्रूयते’ इति
श्रुतेर्भक्तमनोरथपूरककालावच्छेदेन परापरभावः सत्यं ज्ञानमिति श्रुतौ साधकः सत्यमित्यपि
व्याख्यातं व्याख्यातं च सप्तमस्कन्धटीकायामिति तादृशो ब्रह्मणो पादो विवादो हि क्षरनिषेधेन
558
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५५९
अदृश्यत्वादिगुणकः परमात्मैव । कुतः । धर्मोक्तेः । तथाऽक्षरात् संभवतीह
विश्वमिति । इयं चोपनिषत् । न ह्यत्र ब्रह्मण्यतिरिक्ताज्जगतुत्पत्तिरस्ति ।
पुरुषस्य ब्रह्मत्वं निःसंदिग्धमेव । ईषदामन्दतिरोभावेन ब्रह्माऽक्षरमुच्यते ।
भाष्यप्रकाशः।
आहुः इयमित्यादि । नन्वेवं ब्रह्मत्वेनोभयोरभेदे, 'अक्षरात् परतः परः' इति कथं परापरभावव्य-
पदेश इत्यत आहुः ईषदित्यादि । तथाच नैसर्गिकावस्थाभेदमादायायं परापरभावव्यपदेशो
न तु वस्तुभेदादतो न ब्रह्मवादव्याघात इत्यर्थः । नच सृष्टिकथनोत्तरमस्य कथनात् सृष्ट्यारम्भ
एव तथाभावो न तु नैसर्गिक इति शङ्क्यम् । तथासति तदानीं पूर्वभावस्य वीतत्वेन तदव्यय-
रश्मिः।
सर्वं खल्विदं ब्रह्मेति श्रुत्युक्तः सर्वं ब्रह्मेति वादः तद्धटितो भवतीति ब्रह्मवादः परापरभावपूर्वका-
भेदघटितोस्ति । हेतुरिति एकविज्ञानेनेति हेतुः । आहुरिति ब्रह्मत्वेनाभेदमाहुः । इयमि-
त्यादीति । भाष्ये । पुरुषस्येति पुरुषात्र परं किंचिदिति श्वेताश्वतरे 'असङ्गोयं पुरुषः' इति सांख्य-
प्रवचने 'उत्तमः पुरुषस्त्वन्यः' इति गीतायां च पुरुषस्य ब्रह्मत्वं निःसंदिग्धमित्यर्थः । नैसर्गिकेति
स्वाभाविकाय अवस्था भावे क्विप् । अवस्थितिरेकस्यैव घटस्यामस श्यामावस्था पक्वस्य रक्तावस्थेव
सैषानन्दस्य मीमांसा भवतीत्युपक्रम्य ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्द इति
'गणितानन्दकं बृहत' ।
'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन' ॥
इति श्रुत्यन्तरे पूर्णानन्दो हरिरिति गणितागणितरूपा नैसर्गिकावस्था भक्तमनोरथपूरणाय
तज्ज्ञापितं भेदमादाय । तदुक्तं ज्ञेयनिरूपणे गीतायां त्रयोदशाध्याये 'अविभक्तं च भूतेषु विभक्तमिव
च स्थितम्' इति । पुरुषोत्तमयोगाध्याये च 'अक्षरादपि चोत्तमः' इत्युक्त्वा ।
'यो मामेवमसंमूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत' ॥
ब्रह्मवादेति सर्वः क्षरः ब्रह्म पुरुषोक्षररूप इति वाद इत्यर्थः । ननु नैवं वक्तुं युक्तम् । अद्वैतश्रुति-
विरोधात् । तथाच निर्गुणसोपाधिवशात् इच्छास्वीकारः ब्रह्मणो रजउपाधिकात् सृष्टिरिति तथायमपी-
ष्षादिसत्त्वाद्येकतरोपाधिकः परापरभावो न तु नैसर्गिक इति शङ्कते स्म न च सृष्टीति । यथा 'सुदी-
सात्पावकात् विस्फुलिङ्गाः सहस्रशः प्रभवन्ते सरूपाः । तथाक्षराद्विविधाः सोम्य भावाः प्रजायन्ते तत्र चैवा-
पियन्ति' इति सृष्टिकथनोत्तरं 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः' इतिकथनात् । तथाभावः
परापरभावः । पूर्वभावस्येति निर्गुणभावस्य विगतत्वेन 'अथ परा यया तदक्षरमधिगम्यते' इत्येवं
विद्याविषयत्वेन धर्मेण गुणेन निरूपणाद्धीतत्वेन सगुणत्वाव्ययत्वाभावाङ्गीकारेण 'यत्तदद्रेश्यमग्रा-
ह्यमगोत्रमवर्णमचक्षुःश्रोत्रं तदपाणिपादं नित्यं विभुं सर्वगतं सुसूक्ष्मम् । तदव्ययं यद्भूतयोनिं परिपश्यन्ति
धीराः' इति । अत्र भूतयोनिपदादपि तस्याव्ययत्वाभावात् । यद्वा तदानीमदृश्यत्वादिधर्मनिरूपणात्
तस्य वीतत्वेन । ननु न विद्याविषयत्वादयोधर्माः सगुणत्वापादकाः स्वाभावाभावरूपत्वेन धर्माणामाधि-
कारणातथात्वमिति चेन्न सत्यं ज्ञानमिति निश्वस सर्वज्ञ इति श्रुतिं न निक्षेसेत् ज्ञानरूपधर्माभावेपि
सार्वज्ञप्रसिद्धेः अतो नैसर्गिकोऽयमुक्तिप्रथाऽभावसाविकरणात्मकता । किंच कश्चिदक्षः क्षरात्परतरः पर
७१ ब्र० सू० १० 559
Here is the line-by-line transcription of the text from the image:
५६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ७ सू० २१
भाष्यप्रकाशः ।
मित्यक्षरविशेषणविरोधापत्तेः । न चाक्षरभावानन्तरं तद्विशेषणमिति वाच्यम् । तथासति पूर्वमक्षरस्य
तथाभावे जन्यत्वापत्तेः । न चेष्टापत्तिः । अश्रौतत्वात् । अतस्तथात्वस्य नैसर्गिकत्वं मन्तव्यम् ।
रश्मिः ।
इति पाठः तत्राद्यः क्षरः सर्वभूतात्मको भवति ततः परतरः पर इत्यक्षर उक्तः परतमः पुरुषोत्तमो
भक्तमनोरथपूरकोस्त्वेव तमब्विधायकव्याकरणप्रामाण्यात् । तथा चाक्षरसृष्टिनिरूपणानन्तरं पुरुष-
निरूपणेपि चतुर्थपादे पुरुषस्याक्षरपरत्वोक्तेः सृष्टिकथनोत्तरमित्यादि न शङ्क्यम् । पूर्वमिति सर्व-
कारणेभ्यः पूर्वम् । अश्रौतेति सत्यं ज्ञानमनन्तमिति श्रुतौ सत्यत्वप्रतिपादनात् सत्यमबाधितमिति
गोपालतापिनिये त्र
भाष्यप्रकाशः।
न चैवं रूपभेदस्य नैसर्गिकत्वेनाद्वितीयश्रुतिविरोधापत्तिरिति वाच्यम् । एवं भेदभावेऽपि
द्वितीयत्वानङ्गीकारात् ब्रह्मत्वेनाभेदात् । ब्रह्मणश्च विरुद्धधर्माश्रयत्वेनैवंभावेऽप्यभेदानपायात् ।
इदं च अहिकुण्डलसूत्रे सेत्स्यति । नच पूर्ववद्वेति सूत्रोक्तन्यायेन सृष्टीच्छोत्पत्तिसमकालमेवेषदान-
न्दतिरोभावात्तदानीमक्षरत्वं परापरभावश्चेति वाच्यम् । तथासतीच्छाया इवाक्षरस्यापि भवनं
श्राव्येत, प्राणन्नेव प्राणो भवतीतिवत् ससृक्षुभक्षरं भवतीति चोच्येत । किंच पूर्ववद्वेत्येक-
देशिमतेप्यरूपवदादिपञ्चसूत्रीसिद्धमेव प्राथमिकं रूपम् । तच्चादृश्यत्वादिगुणकमेवेति न तदानीं
तस्य तादृग्भावापत्तिसिद्धिरित्यक्षरभावस्य नैसर्गिकत्वं विना न श्रुतीनां सामञ्जस्यम् । अत
एव निबन्धेऽपि ।
रश्मिः।
ङ्क्षिष्यञ्जात्सोमात् पर्जन्यो भगवानिन्द्रो द्वितीयोऽग्निः ओषधयः पृथिव्यां प्रसूताः तत्रौषधिभ्यः संभूते
पुरुषाग्नौ तृतीये रेतःसहिते पुमान् रेतो योषितायामित्यादि स्पष्टम् । इति शंकरभाष्ये । नन्वेतावत्याधे-
यधर्मनिरूपिकाविषयवाक्यमत्र द्वयं ब्रह्मविद्या सांख्यविद्या वेति संदेह उक्तः न त्वथ परा यया तदक्षर-
मधिगम्यते यत्तददृश्यमग्राह्यमित्यादि धीरा इत्यन्ते विषयवाक्ये शंकराचार्यवत् किमयं अदृश्यत्वा-
दिगुणको भूतयोनिः प्रधानं स्यादुत शारीर आहोस्वित् परमेश्वर इति संदेह उक्तस्तत्कुत इति चेन्नं
शंकराचार्यमते संशयो न घटते उपक्रमोपसंहाराभ्यां ब्रह्मविद्यात्वनिश्चयेन तद्विषयस्य परमेश्वरत्वं न
प्रधानत्वं नापि शारीरत्वम् । अस्माकं तूपक्रमोपसंहाराभ्यां ब्रह्मविद्यात्वनिश्चयेपि मन्दमध्यमयोः संदेहो
भवेत् ब्रह्मविद्यैषा सांख्यविद्या वेति सांख्यधर्माभिलापात् । अतः संदेहोपपत्त्यर्थमारूपोपन्यासं सूत्र-
मथ परेतारम्य स्वेच्छासृष्टिनिरूपकश्रुतिपर्यन्तं विषयवाक्यं यस्मिन् द्यौरिति श्रुतेराधारधर्मनिरूपि-
कायाः पूर्वं युक्तमाधेयधर्मनिरूपकत्वात् । ननु नायं संदेहो घटते सांख्यधर्मापलापप्रसङ्गापत्तेः ।
इष्ट इति चेन्न सर्वविद्याप्रतिष्ठामिति ब्रह्मविद्याविशेषणात् सांख्यविद्यायाश्च सर्वविद्यान्तर्गतत्वात् ।
मैवं, सांख्यविद्याया सर्वविद्यान्तर्गतत्वाभावात् । 'मार्गास्त्रयो मया प्रोक्ताः' इति भगवद्वाक्यात् ।
तासु कर्मविद्या प्रथममुण्डके उक्ता 'मन्त्रेषु कर्माणि कवयो यान्यपश्यंस्तानि त्रेतायां बहुधा सन्ततानि
तान्याचरथ नियतं सत्यकामा एष वः पन्थाः सुकृतस्य लोके' इतिश्रुतेरत्र कर्मविद्या बहुधा सन्तताः
तपःश्रद्धे ये ह्युपवसन्त्यरण्ये इत्यनया यतिवानप्रस्थविद्याश्चोक्ताः । द्वितीयमुण्डके कर्मविद्यां हित्वा ताः
प्रथयांचक्रिरे यथा सुदीप्तात्पावकादित्यादिभिः । अत्र सांख्यविद्याभ्रमविषयसांख्यं सिद्धान्तेनोत्तर-
कालीनबाधदर्शनात् । अत इति । तथा षष्ठ्या लुक् ईषद्वानन्दतिरोभावप्रकटानन्दत्वं प्रकारस्तस्य तु
अवधारणेनास्यादृश्यत्वादिगुणकस्य भूतयोनेर्नैसर्गिकत्वं मन्तव्यम् । तथा तु असेति पदच्छेदः ।
अस्य भूतयोनेस्तथाप्रकारस्य तु निश्चयेन नैसर्गिकत्वं मन्तव्यमिति योजना । एवं भेदेति ।
पूर्वोक्तप्रकारकाभेदेपि नन्वक्षरत्वेन पुरुषत्वेन च भेदात् कथमभेद इत्यत आहुः ब्रह्मत्वेनेति ।
नन्वेतादृशमद्वैतं न युक्तम् । घटपटादीनामपि द्रव्यत्वेनाभेदात् तत्राहुः ब्रह्मण इति । एवं चेति
तृतीयाध्याये सेत्स्यति द्वितीयपादे । व्यासपादोक्तमतान्तरेप्याहुः नच पूर्ववेति । सृष्टीच्छोत्पत्तीति
पूर्ववद्वेति सूत्रे धर्मसृष्टीच्छास्थाने । श्राव्येत इति स ईक्षां चक्रे इतिवत्सोक्षरं चक्रे इति श्राव्येत ।
तस्येति सिद्धयोः । न श्रुतीनामिति वरेण्यं परं विज्ञानादित्युक्तात्तदेतदक्षरमिति श्रुतिः येनाक्षरं
पुरुषं वेदेति श्रुतिः । सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मलक्षणलक्षितस्य यो वेद निहितं गुहायामिति ज्ञानं
५६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० ७ सू० २१
भाष्यप्रकाशः।
इच्छामात्रात्तिरोभावस्तस्याप्युपचर्यते ।
ब्रह्मकूटस्थान्तरादिशब्दैर्वाच्यो निरन्तरः ॥
सर्वावरणयुक्तानि तस्मिन्नण्डानि कोटिशः ।
मूलाविच्छेदरूपेण तदाधारतया स्थितः ॥
प्रभृत्वेन हरेः स्फूर्ती लोकत्वेन तदुद्भवः ।
अन्तर्याम्यवतारादिरूपे पादत्वमस्य हि ।
हंसाकृतित्वकथने पुच्छत्वं परमात्मनः ॥
तदुपासनया ज्ञानात्परमात्मत्वमस्य हि ।
ज्ञानमार्गे त्वेतदेव सेव्यं कृष्णस्ततोधिकः ॥
रश्मिः।
विधाय सोऽश्नुते इत्यनया विपश्चिद्रूपकिंचिद्धर्मेण विशेषेण प्रकटानन्दत्वं द्योतितमिति ब्रह्मविदाप्नोति
परमिति श्रुतिरेतासां श्रुतीनां न सामञ्जस्यम् । एवमत्रार्थः । पूर्वकारिकायाम् ।
'आनन्दांशतिरोभावः सत्यमात्रेण तत्र हि ।
मुख्यजीवस्ततः प्रोक्तः सृष्टीच्छावशगो हरिः' ॥
इत्येतस्याम् । अग्रे अहमेव भविष्यामीतीच्छामात्रेणान्तःसमुत्थितसत्त्वेनानन्दांशस्तिरोहित
इव भवत्यतो मुख्यजीवशब्दवाच्यो भवतीत्युक्तम् । तथा सति जीवत्वमेव स्यादानन्दांशस्य तिरोहि-
तत्वाद्यथा महदादीनामित्याशङ्क्याहुः इच्छामात्रात्तिरोभाव इति । इच्छायां प्रविष्टायां कार्य-
व्यापृत्या तिरोभाव इवोच्यते वस्तुतस्त्वानन्दमय एव । वाचकैरपि तस्य न जीवत्वमित्याहुः ब्रह्मेति ।
आदिशब्देनासत्सत्तमशब्दादयो गृह्यन्ते तथा सति पुरुषोत्तमाद्भिन्नो भविष्यतीत्याशङ्क्याहुः निर-
न्तर इति । अन्तररहित इत्यर्थः । तस्यैव कारणत्वमाहुः सर्वावरणेत्यादि । तदाहुरक्षरं ब्रह्म सर्व-
कारणकारणमिति वाक्यात् । अक्षरस्य पुरुषोत्तमे भेदेन प्रवेशे प्रकारमाहुः मूलाविच्छेदेति ।
मूलेन श्रीपुरुषोत्तमेन सहाविच्छिन्नतया तिष्ठति न तु कार्यत्वेनेत्याहुस्तदाधारतयेति एषा स्थितिः
सर्वदा । कदाचित्पुरुषोत्तमभेदाविर्भवति तदाक्षरमपि बहुधा भवतीत्याहुः प्रभृत्वेनेति । प्रभु-
र्वैकुण्ठवासी लोको वैकुण्ठः जीवजडाकारेण प्रादुर्भवतीत्यर्थः । अत एव वैकुण्ठवासिनो मुक्ताः ।
एतच्च द्वितीयस्कन्धनवमाध्याये स्फुटम् । अक्षरमम्बरान्तधृतेरित्यधिकरणेऽक्षरस्य ब्रह्मवाचकत्व-
निर्धारात् न द्वैतम् । अन्तरुपासनायामन्तर्यामिरूपेण प्रकटो भवति तदा सद्योमुक्तौ ज्ञानिनस्तच्चरणा-
रविन्दं विशन्ति इत्यक्षरस्य पादत्वम् । तथावतारेपि 'शैश्वे च सात्वतपतेश्चरणं प्रविष्टे' इति वाक्यात् ।
आदिशब्देनाधिरूपेऽपि आनन्दमयनिरूपणे हंसाकृतित्वकथनं तत्र ब्रह्म पुच्छं प्रतिष्ठेति मध्याक्षर-
मानन्दमयस्य पुच्छमिति निःसंदेहाय परमात्मपदम् । एवमनेकभावापन्नमपि ज्ञानमार्गेऽक्षरत्वेनैव
सेव्यमित्याहुः तदुपासनयेति । प्रथमतस्तस्यैव निदिध्यासनेन बन्धान्मुच्यते तेनास्याधिकारिणः
परमात्मत्वमेव न त्वक्षरमात्रतेति भगवद्वचनादवगम्यते ते प्राप्नुवन्ति मामेवेति द्विसप्तदशार्थः । भक्ति-
मार्गे त्वारम्भत एव परमानन्दः ज्ञानमार्गे त्वन्तत इति विशेषः । तथापि ज्ञानमार्गेऽक्षरमेव सेव्यम् ।
एवमभेदेपि वैलक्षण्यं निरूप्य यदर्थमेतन्निरूपितं तदाह कृष्णस्ततोधिक इति । अक्षरादपि
परस्य वृत्तित्वात्सर्वमिति भवतीति निष्प्रतीकस्य विहितः । ज्ञानेतरिति ज्ञानादितरदिति पाठः ।
562
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५६३
प्रकटानन्दः पुरुष इति । ब्रह्मविदाप्नोति परमित्यत्रैव तथा निर्णयात् ।
तस्माददृश्यत्वादिगुणकः परमात्मैव ॥ २१ ॥
भाष्यप्रकाशः ।
इत्युक्तमतोऽनुक्तमेवाऽऽदरणीयमिति दिक् । एवं भेदप्रत्ययस्य क्लिष्टसङ्गत्वस्य तिरोहित-
रूपत्वस्य च सांख्यधर्मत्वं निराकृतम् । अतः परं पूर्वमबलाद्भेदाऽनुक्तत्वाच्च तदङ्गीकारे
प्रतिज्ञान्तरस्य निग्रहस्थानस्यापत्तिरित्येवमभिशङ्कन्ति ब्रह्मविदित्यादि । परमिति शब्दान्त-
रेणान्ने गणितागणितानन्दत्वकथनेन च तथा निर्णयादित्यर्थः । तच्चानन्दमयसूत्रस्य द्वितीयवर्णके
उपपादितम् । अतो न दोषापत्तिरित्यर्थः । सिद्धमाहुः तस्मादित्यादि ॥ २१ ॥
रश्मिः ।
नन्वीषदित्यादिभाष्यप्रामाण्यात्सिद्धमप्यक्षरधियामिति सूत्रेऽक्षरपुरुषोत्तमयोः लोकतदधिष्ठातृत्
रश्मिः ।
भवत्येव । पटे ज्ञाते तन्तव इव 'तन्तुष्वङ्ग यथा पटः' इति श्रुतेः। न च विरुद्धो दृष्टान्तः कार्यज्ञानेन
कारणज्ञानात् । कारणज्ञानेनैकविज्ञानरूपेण कार्यज्ञानस्य विवक्षितत्वादिति वाच्यम्। कार्यकारणवस्त्वै-
क्यमर्शनोत्तरकालिककार्यज्ञाने कारणज्ञानत्वेप्यक्षतेः । न च कार्यं ब्रह्मेति ज्ञानवत् पटस्तन्तव इति
प्रत्ययापत्तिरिति वाच्यम्। इष्टापत्तेः। आतानवितानत्वातिरिक्तस्य तन्तुभ्यः पटे विशेषाभावात् । अत
एव श्रुतय एकविज्ञानेन सर्वविज्ञाने प्रकारप्रबोधिकाः । पुरुष एवेदं विश्वं कर्म तपो ब्रह्म परामृतम् ।
एतद्यो वेद निहितं गुहायां सोऽविद्याग्रन्थिं विकिरतीह सोम्य । आविः संनिहितं गुहाचरं नाम
महत्पदम् । अत्रैतत्सर्वमर्पितमेजत्प्राणन्निमिषच्च यत् । एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं
प्रजानां यदर्चिमद्यदणुभ्योणु च यस्मि
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥
ननु पूर्वपक्षन्यायेन ब्रह्मविद्यारूपायामपि स्मृतिर्ब्रह्मविद्यैवास्तु । द्वे
भाष्यप्रकाशः।
विशेषणभेदव्यपदेशाभ्यां च नेतरौ ॥ २२ ॥ सूत्रमवतारयन्ति नन्वित्यादि ।
स्मृतिर्ब्रह्मविद्यैवेति । स्मृतिरेव ब्रह्मविद्येति योजना । अयमर्थः । पञ्चशिखवृत्तावव्यक्तपर्यायेषु
रश्मिः ।
'एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' ॥
इति श्रुतौ बुद्धेः करणत्वोल्लेखात् । हेतौ तृतीयापक्षेपि हेतोः सव्यापारत्वे करणत्वमस्त्येव
करणत्वस्य सव्यापारनियतत्वात् । आत्मा मनसा संयुज्यते मन इन्द्रियेऽधितिष्ठति इन्द्रियम-
र्थेन संयुज्यते ततः शब्दादिग्रहेण श्रावणं प्रत्यक्षं शृण्वन् श्रोत्रं भवतीति तथा च श्रुत्यन्तरं
कठवल्ल्याम् । 'आत्मेन्द्रियमनोयुक्त
ब्रह्मणी वेदितव्ये मूर्त्तं चामूर्त्तं चेत्यत्र विकारस्यैव ब्रह्मपदवाच्यत्वम् । अतः
प्रकृतिपुरुषावेव वाक्यार्थ इति परिहरति । इतरौ न भवतो वाक्यार्थरूपौ । कुतः ।
विशेषणभेदव्यपदेशाभ्याम् । विशेषणभेदो व्यपदेशश्च ताभ्याम् । अदृश्य-
त्वादयो गुणा न प्रकृतेर्भवन्ति । सर्वस्यापि तद्विकारत्वात् । न हि घटदर्शनेन
मृद् दृश्यत इति वदितुं युक्तम् । ब्रह्मवादे पुनः सर्वभवनसमर्थत्वाद् ब्रह्मणि
भाष्यप्रकाशः ।
नपुंसकलिङ्गस्याऽक्षरपदस्य पाठाद् योनिपदस्योपादानवाचकत्वाद् भूतयोनित्वमव्यक्तलिङ्गम् ।
अक्षरात् परत्वं च पुरुषलिङ्गम् । अतस्तत्सर्वं यत्कृत्य ब्रह्मविद्यात्वं न स्थापयितुं शक्यम् ।
कस्मिन् विज्ञात इति प्रश्नवाक्ये कस्मिन् मते विज्ञाते इत्यर्थस्य शक्यवचनत्वादेतस्य सर्ववि-
ज्ञानस्य ब्रह्मविद्यालिङ्गत्वाभावात् । नापि ब्रह्मविद्येति समाख्यया । द्वे ब्रह्मणी इति श्रुत्या
ब्रह्मपदस्य विकारेऽपि शक्तौ ग्राहितायां तस्या अप्यन्यथासिद्धत्वात् । लिङ्गापेक्षया पञ्चमत्वे-
नातिदौर्बल्याच्च । अतो लिङ्गबलात् प्रकृतिपुरुषावेव वाक्यार्थ इति परिहरतीत्यर्थः । सूत्रं
व्याकुर्वन्ति इतरावित्यादि । व्यपदेश इति व्यपदेशभेदः । आद्यं व्युत्पादयन्ति
अदृश्येत्यादि । ननु ब्रह्मवादेऽप्ययं दोषस्तुल्य इति सोऽपि न वदितुं युक्त इत्यत आहुः
ब्रह्मवाद इत्यादि । ननु प्रकृतावपि तथा सामर्थ्यमङ्गीक्रियते । अतः परिहारतौल्यान्नैतदपि
रश्मिः ।
शङ्क्यम् । तेषां स्मृतीनां ब्रह्मविद्यास्मरणपूर्वकत्वाद्ब्रह्मविद्यात्वात् न चैवं वदसु शास्त्रेषु वेदान्त-
सांख्ययोरेकत्वापत्तिरिति वाच्यम् । स्मार्तमतविद्यायाः श्रौतत्वे तात्पर्येण तयोरेकत्वानापादकत्वात् ।
लिङ्गेन निर्णिणीषन्त आहुः अयमर्थ इति । पाठादिति वेदान्ते कूटस्थोक्षर इति उक्त इति पुंलिङ्गा-
क्षरशब्द इति भावः । भूतेति 'यद्भूतयोनिं परिपश्यन्ति धीराः' इत्यत्र भूतयोनिपदम् । अव्य-
क्तेति 'प्रधानाज्जगज्जायते' इति कापिलसांख्यप्रवचनसूत्रात् । अक्षरादिति । अव्यक्तात्परत्वम् ।
'असङ्गोऽयं पुरुषः' इति सूत्रात् । ब्रह्मविद्यात्वमिति स्मार्तमतनिरपेक्षब्रह्मविद्यात्वम् । तेन श्रुति-
र्यद्यपि ब्रह्मविद्येति तथापि श्रुतिर्लिङ्गरूपेति नेयं लिङ्गबाधिका । द्वे ब्रह्मणी इति भाष्यं विवरा-
मासुः नापीति । द्वे ब्रह्मणी इति श्रुत्या ब्रह्मविद्येति स्मार्तमतविद्यायां समाख्या यौगिकः शब्दः
ब्रह्मण इति विद्येति च विद्यापदं प्रकृतिपदसमभिव्याहारात् स्मार्तमतविद्यावाचकं तया हेतौ
तृतीया हेतुभूतया विकारे मूर्तामूर्तरूपे तस्याः समाख्यायाः अन्यथासिद्धत्वेन प्रकारेण बृहदार-
ण्यके मूर्तामूर्तब्राह्मणे मूर्तं परिच्छिन्नपरिमाणकम् । अमूर्तं वायुश्चान्तरिक्षं च । ननु लिङ्गत्वं समा-
ख्यात्वं च व्यधिकरणं कुतः समानाधिकरणकमत आहुः लिङ्गेति । पञ्चेति । श्रुतिलिङ्गवाक्यप्रकरण-
स्थानसमाख्यानां प्रमाणानां पञ्चत्वेन । लिङ्गापेक्षया वाक्यप्रमाणयोर्दौर्बल्यम् । स्थानसमाख्ययोराति-
दौर्बल्यं संनिहितत्वासंनिहितत्वाभ्यां तदुक्तमेतेषां समवाये पारदौर्बल्यमिति । सोपीति ब्रह्मवा-
दोपि ब्रह्मणोऽभिन्ननिमित्तोपादानत्वेन सर्वस्यापि तद्विकारत्वमिव सर्वस्य ब्रह्मपरिणामत्वाद्धट-
दर्शनेन मृद्दर्शनवत्सर्वपरिणामदर्शनेन ब्रह्मदर्शनापत्त्या न वदितुं युक्तः परिणामिनित्यत्वेनेति
'प्रधानाज्जगज्जायते' 'प्रकृतिपुरुषयोरन्यत्सर्वमनित्यम्' इति कापिलसांख्यप्रवचनसूत्राभ्याम् । 'प्रकृते-
Here is the line-by-line transcription of the Sanskrit text from the image into clean Markdown in Unicode Devanagari:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५६७
विरोधाभावः । न हि नित्यं सर्वैकरूपमविक्रियमाणं च भवितुमर्हति । सर्वैर्ब्रह्म-
धर्मैतुल्यत्वे तदेव ब्रह्मेति जितं ब्रह्मवादिभिः ।
यः सर्वज्ञः सर्वविदित्यादयस्तु सुतरामेव न प्रकृतिधर्माः । व्यवधानाच्च न
पुरुषसंबन्धः । अक्षरनिरूपण एव पुरुषविशेषणाच्च । येनाक्षरं पुरुषं वेद सत्यमिति ।
तस्मादक्षरविशेषणानि, न प्रकृतिविशेषणानि नापि पुरुषविशेषणानि सांख्य-
भाष्यप्रकाशः।
ब्रह्मवादिलिङ्गमित्यत आहुः न हीत्यादि । भवितुमर्हतीति । प्रधानस्य परिणामिनित्यतयै-
वाङ्गीकारात् तदेतादृशं भवितुं नार्हति । तथा चोक्तरीत्यैकदेशदर्शने तददृश्यत्वस्याशक्यवचनत्वा-
देतेनैव प्रकृतिवादव्युदास इत्यर्थः । नन्वेतादृशत्वमेव तस्याः कल्प्यमित्यत आहुः सर्वैरित्यादि ।
जितमिति । सांख्यवादिभः प्रतिज्ञासंन्यासप्रतिज्ञान्तरयोरापाताज्जितमित्यर्थः । अन्यमपि
विशेषणभेदमाहुः य इत्यादि । नन्वेतानि पुरुषविशेषणानीति न दोष इत्यतं आहुः व्यव-
धानादित्यादि । अदृश्यत्वसर्वज्ञत्वादयः प्रथममुण्डके, पुरुषनिरूपणं च द्वितीयमुण्डक इति
व्यवधानात् तथेत्यर्थः । पुनर्विशेषणान्तरमाहुः अक्षरेत्यादि । तथा चाक्षरनिरूपणे आद्यन्तयोः
पुरुषविशेषणदर्शनात् पुरुषात्मकमक्षरमत्राभिप्रेतं, न प्रकृत्यात्मकमप्रस्तथेत्यर्थः । येनेति वाक्यं
रश्मिः।
राषोपादानतामन्येषां कार्यत्वश्रुतेः' इति सूत्राच्च तत्प्रधानम् । जितमितीति । न च ब्रह्मलक्ष-
णस्य प्रकृतावतिव्याप्तिरिति वाच्यम् । वेदान्तशास्त्रस्य शब्दत्वात् लोकेनाधिगतार्थगन्तृत्वाच्च
व्यासस्य शब्दबलविचारकत्वात् । न चैवं बृहदारण्यके चक्षुर्हि वै सत्यं तस्माद्यदिदानी द्वौ विव-
दमानावियातामहमद्राक्षमहमश्रौषमिति य एव ब्रूयादहमद्राक्षमिति तस्मा एव श्रद्दध्यामेति गायत्री-
ब्राह्मणश्रुतौ चक्षुषः सत्यत्वोक्तेः न शब्दबलविचारः प्रामाणिक इति वाच्यम् । शाकल्यब्राह्मणे
अगृह्यो नहि गृह्यते इति सकलेन्द्रियाग्राह्यत्वमुक्त्वा तं त्वौपनिषदं पुरुषं पृच्छामीति श्रुतेः
शब्देतिग्रहे प्रामाण्यात् चक्षुषोपि प्रामाण्यम् । श्रुत्योर्विरोधे विकल्पो मनुस्मृतिषु प्रसिद्धः । विव-
दमानौ विरुद्धं भाषमाणौ एको ब्रूते अहं गजादिवस्त्वदर्श दृष्टवान् । अथ परो ब्रूते तद्वस्तु तथा न
भवतीत्यहमश्रौषमित्येवं एयातामागच्छेताम् । तं त्वौपनिषदं पुरुषमित्यस्याः श्रुतेरर्थस्तु जन्मा-
द्यस्य यतः इत्यधिकरणे कृत एव । प्रतिज्ञेति प्रकृतिपुरुषौ न स्वस्तर्हि पुरुषाक्षरौ स्तामिति प्रतिज्ञा-
संन्यासः खोक्तसाध्यादेरपरेण दूषणे कृते तत्साध्यादेरपलापरूपस्य प्रतिज्ञासंन्यासस्य स्वरूपस्य
सत्त्वात् । प्रकृतिपुरुषौ यद्यपि सांख्यसिद्धौ तथापि सांख्यस्य श्रौतत्वाय वेदान्त्युक्तदोषोद्धिकीर्षया
पूर्वानुक्तानि यान्यदृश्यत्वादिविशेषणानि तद्विशिष्टतया प्रतिज्ञातार्थस्य प्रकृतिपुरुषरूपस्य कथ-
नात्प्रतिज्ञान्तरं परोक्तदोषोद्धिकीर्षया पूर्वानुक्तविशेषणविशिष्टतया प्रतिज्ञातार्थकथनरूपस्य प्रति-
ज्ञान्तरस्य स्वरूपस्य सत्त्वात् । पुरुषेति सांख्यमतीयपुरुषविशेषणानीति न विशेषणभेदरूपो
दोषः । संनिध्यभावेन वाक्यस्याप्रामाण्यापत्तेर्दूरान्वयदोषान्न व्यवधानाच्चेति हेतोः पुष्टत्वात्तत्रा-
खरसमनुद्भाव्य भाष्यमवतारयामासुः पुनरिति । अक्षरस्य विशेषणान्तरम् । तेन भाष्ये पुरुषो विशे-
षणं पुरुषविशेषणं तस्मात् इति कर्मधारयः । तथा चेति अक्षरनिरूपणे प्रथममुण्डके आदौ
ब्रह्मविद्यां सर्वविद्यामित्यत्र ब्रह्मपदं पुरुषोत्तमवाक्येरोमप्रवाचकं येनाक्षरं पुरुषं वेदेत्युपसंहारात् । अन्ते
तु येनाक्षरं पुरुषं वेदेति स्पष्टमेव । एवमाद्यन्तयोः पुरुषो विशेषणं तस्य दर्शनात् । अत्र इति
७१ म० सू० १० 567
५६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ७ सू० २२
पुरुषस्य । न हि दिव्यत्वादयो गुणाः पुरुषस्य भवन्ति । न हि तन्मते पुरुषभेदो
ह्यङ्गीक्रियते जीवब्रह्मवत् । नच तस्य बाह्याभ्यन्तरत्वम् । सर्वत्वाभावात् । न हि
तस्माज्जायते प्राणादिः । तस्मात् पुरुषविशेषणान्यपि न सांख्यपुरुषविशेषणानि ।
अतो विशेषणभेदः ।
व्यपदेशभेदश्च । ब्रह्मविद्यैवैषेति । स ब्रह्मविद्यां सर्वविद्यामित्युपक्रमे,
भाष्यप्रकाशः ।
तु प्रथममुण्डकसमाप्तिस्थम् । ननु पञ्चशिखवचसौ पुंलिङ्गस्याक्षरपदस्य पुरुषपर्यायेषु पाठात्पुंसकत्व-
मनादृत्य पूर्वत्रापि पुरुष एव ग्राह्यः । तथा सति पुरुषविशेषणानि कुतो न सांख्यपुरुषविशेषणा-
नीत्यत आहुः न हि दिव्येत्यादि । साक्षित्वकैवल्यमाध्यस्थ्यद्रष्टृत्वाकर्तृत्वातिरिक्तधर्मान-
ङ्गीकारात् तथेत्यर्थः । ननु बहुषु कश्चित् तादृशोऽप्यस्तु, को दोष इत्यत आहुः न हि तन्मत
इत्यादि । तथा च नानापुरुषाङ्गीकारेऽपि सर्वेषां तुल्यत्वमेव तन्मते, न तु नियम्यनियामकभावा-
दिनोत्कर्षापकर्षावतस्तथाङ्गीकारस्तन्मतभङ्ग इत्यर्थः । ननु दिव्यत्वं दिवि भवत्वमलौकिकत्वं
वा । तदुभयमपि व्यापकत्वप्राकृतगुणवैलक्षण्याभ्यामुपपद्यते । एकत्वं च जात्यपेक्षया । शेषास्त्व-
मूर्तत्वादयः सिद्धान्ते न तुल्या इति कथं ते तत्र नेत्यत आहुः नचेत्यादि । किंचैकत्वस्य
जातिप्रयुक्तत्वे सर्वेषां तौल्याद्, दिव्यो ह्यमूर्त इति मन्त्रानन्तरमग्रोक्ता सृष्टिरपि सर्वेभ्यः
स्यादिति सापि सांख्ये तथानङ्गीकाराद् विभिद्यते । तथा महदादिक्रमेण तत्र सृष्टिर्न तु प्राणादि-
रश्मिः ।
तस्मादक्षरस्य पुरुषात्मकत्वात् अक्षरविशेषणानि न गुणत्रयसाम्यावस्थारूपायाः प्रकृतेः विशेष-
णत्वेन प्रकारेण विशेषणानीत्यर्थः । पूर्वत्रेति अक्षरमधिगम्यत इत्यत्राक्षरपदेन पुंलिङ्गेनापीत्यर्थः ।
तथा सति पुरुषत्वेनाक्षरे गृहीते सति । प्रथममुण्डके पुरुषविशेषणानीत्यादिः । साक्षि-
त्वेति तथाच सूत्राणि कापिलसांख्यप्रवचनसूत्रेषु तु 'असङ्गोऽयं पुरुषः' इति 'न नित्यशुद्धबुद्ध-
मुक्तस्वभावस्य तद्योगस्तद्योगादृते' 'निर्गुणादिश्रुतिविरोधश्चेतीति' इति । तथेति नहि दिव्यत्वादयो
धर्माः पुरुषस्य भवन्तीति भाष्योक्तः प्रकारः । तथेति एकत्वेन पुरुषाङ्गीकारः सांख्यमतभङ्गकः ।
एकत्वमिति पुरुष इत्यत्रैकत्वम् । ते तत्रेति पुरुषधर्माः सांख्यपुरुषेषु । आहुरिति तेषु सत्स्वपि
बाह्यमध्याभ्यन्तररूपपुरुषधर्मस्य विरहमाहुः । भाष्ये । तस्य सांख्यपुरुषस्य स बाह्याभ्यन्तरो ह्यजः
इत्यसां 'पुरुष एवेदं विश्वम्' इति श्रुत्युक्तं मध्यस्थत्वं ग्राह्यमपि सर्वत्वेति हेत्वनुरोधात् । मध्य-
स्थत्वमन्तरा सर्वत्वानुपपत्तेः । प्रकृतेः सर्वत्वं न पुरुषस्य 'प्रकृतेराद्योपादानतामन्येषां कार्यत्वश्रुतेः'
इति सांख्यसूत्रात् । सृष्टिरिति । 'एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च' इति श्रुत्युक्तप्राणादि-
सृष्टिः । तथानङ्गीति 'अनुपभोगेऽपि पुमर्थं सृष्टिः प्रधानस्योष्ट्रकुंकुमवहनवत्' इति सांख्यसूत्रे पुंसामर्थ-
मित्यपि वक्तुं शक्यत्वेपि सर्वेभ्यः पुरुषेभ्यः सृष्टिर्न 'प्रधानाज्जगज्जायत' इति सूत्रात् । अतस्तथा-
सर्वपुरुषत्वप्रकारेणानङ्गीकारात् सांख्यमताद्विभिद्यते पुरुषादक्षराच्च सृष्टिर्ब्रह्मवादे भिद्यते विशे-
षेण तु क्षत्र प्राणादिसृष्टिरिति विभिद्यते कारणभेदे भेदः, कार्यकारणयोर्भेदे विभेदः । नहीति भाष्यं
विवरामासुः तथा महदिति । तत्रेति सांख्ये । सृष्टिरिति 'प्रकृतेर्महान् महतोऽहंकारात् पञ्च-
तन्मात्राण्युभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः' इति सूत्रोक्ता सा । नचेति प्राणा-
568
ी इत्यादिरूपं न हि प्रकृतिपुरुषयोरन्यतरस्य संभवति ।
भाष्यप्रकाशः ।
क्रमेण, न वा सह, न वा ततः साक्षात् अतोऽपि तथेत्यर्थः । एवं विशेषणभेदरूपं दूषणं
व्युत्पादितम् । द्वितीयं व्युत्पादयन्ति व्यपदेशोत्यादि । तथा च यदि सांख्यमतविद्याऽत्राभिप्रेता
स्यात् तदा त्रिषु क्वचित् सांख्यविद्यामिति तत्त्वविद्यामिति वा वदेत् । अतो विद्याव्यपदेश-
भेदादपि तथेत्यर्थः । ब्रह्मेति हिरण्यगर्भो वेदाचार्यः ॥ २२ ॥
रूपमपि समष्टिव्यष्टिजनकस्य यदुक्तं तदपि सांख्यमताद् भेदज्ञापकमित्याशयेन सूत्रं
पठित्वा व्याकुर्वन्ति ।
रूपोपन्यासाच्च ॥ २३ ॥ न चेदं रूपं क्लिष्टस्येति शक्यवचनम् । यथा सुदीप्तात्
पावकादिति मन्त्रेण केवलादक्षरात् सृष्टिमुक्त्वा, ततो दिव्यो ह्यमूर्त इति मन्त्रेण केवलस्य
पुरुषस्याक्षरात् परत्व
ब्रह्मभावे पुनर्विश्वकायस्यैतद्रूपम् । सूत्रविभागात् पुनर्मुख्योपपत्तिरेवेति सूचितम् ।
चकारेण श्रुत्यन्तरविरोध एकवाक्यता च सर्वेषां वेदान्तानामिति । तस्मादक्षर-
शब्देन पुरुषशब्देन च ब्रह्मैव प्रोक्तमिति ब्रह्मविद्यैवेषेति सिद्धम् ॥ २३ ॥
इति प्रथमाध्याये द्वितीयपादे सप्तममदृश्यत्वाधिकरणम् ॥ ७ ॥
भाष्यप्रकाशः।
प्राणादिसमष्टिसृष्टिमुक्त्वा तस्यैव रूपमग्निर्मूर्धेति मन्त्रे वदन्ती श्रुतिर्मन्त्रान्ते, एष सर्वभूतान्तरात्मेति
केवलं परामृशति । ततोऽग्रे, तस्मादग्निः समिध इत्यादिभिर्व्यष्टिसृष्टिं वदतीति । इदं च न
केवलस्य तन्मतीयास्य । तथा तैरनङ्गीकारात् । नापि केवलायाः । अन्तरात्मत्वोक्तिविरोधात् ।
अतः प्रकृतिपुरुषयोरन्यतरस्य न संभवतीति ब्रह्मवादे तु विश्वरूपत्वेन विश्वकायत्वस्यैवोक्तत्वा-
दुपपन्नतरम् । अतो नात्र सांख्यगन्धोऽपीत्यर्थः । विशेषणभेदव्यपदेशरूपोपन्यासेभ्य इत्यनुक्त्वा
यदत्र भिन्नं सूत्रमुक्तं तत्तात्पर्यमाहुः सूत्रेत्यादि । चकारेणेत्यादि । तथा चैतद्द्वयमपि
तन्मतबाधकतया चकारेण संगृहीतमित्यर्थः । तेन सांख्यमतसिद्धे कार्येश्वरेऽतिव्याप्तिर्निवारिता ।
रामानुजाचार्यास्तु, यया तदक्षरमधिगम्यत इत्युपक्रान्तस्य भूतयोनेरक्षरस्यैव, यः
सर्वज्ञः सर्वविदित्याग्रिमवाक्ये परामर्शादक्षरपदेन परमात्मैवोच्यते । 'अक्षरात् परतः परः' इत्यत्र तु
पञ्चम्यन्तेनाऽक्षरपदेन भूतसूक्ष्ममचेतनमुच्यते । तथा चाक्षरादव्याकृतात् परः पुरुषस्तस्मादपि परः
परमात्मैव अत्र गमकं तु भूतयोनित्वं परात्परत्वं रूपं च लिङ्गत्वात् । भूतसूक्ष्मस्याक्षरत्वं तु,
अभूत इति वा, न क्षरतीति वा स्वविकारव्याप्या महदादिवन्नामान्तराभिलापयोग्यक्षरणाभावाद्वा
रश्मिः।
स्यासङ्गस्य पुरुषस्य । मुण्डके केवलस्य पुरुषस्य केवलायाः प्रकृते रूपस्य निरूपयितुमशक्यत्वमाहुः
यथेति । मन्त्रान्त इति अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः
प्राणो हृदयं विश्वमस्येति पादद्वयकथनानन्तरं ह्येष सर्वभूतान्तरात्मेति तुरीयपादरूपे मन्त्रस्यान्ते ।
व्यष्टिमिति द्विकर्मकोऽयं वदतिः । अनङ्गीति 'असङ्गोयं पुरुषः' इति सांख्यसूत्रात् । न संभव-
तीति । न च 'सत्त्वरजस्तमःसाम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहंकारः अहंकारात् पञ्चतन्मा-
त्राणि उभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशति गुणाः' इति सूत्रेण, 'संघातपरार्थत्वात्
पुरुषस्य' इति सूत्रेण 'भावे तद्योगे तत्सिद्धिः' इति सूत्रेण च प्रकृतियोगे पुरुषस्य केवलस्य संभवतीति
शङ्क्यम् । क्रमेण सृष्टौ महतो रूपसिद्धेः । प्रकृतिसंबन्धद्वारा महतो रूपसंबन्धस्य परंपरासंबन्धत्वेनान-
ङ्गीकारात् । साक्षात्संबन्धेन रूपसंबन्धस्य विवक्षणात् । एतदिति श्रुत्यन्तरं तावत् 'येनाक्षरं पुरुषं वेद'
'तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः' इति । न हि तन्मते पुरुषः प्रकृतिर्न वा तन्मतेऽक्षरपदवाच्या
प्रकृतिर्मनः किंतु महत्तत्त्वम् । 'आद्यं महदाख्यं तन्मनः' इति सांख्यसूत्रात् स्वमते सर्वेषां वेदान्तानां
पुरुषप्रकृतिव्युदासेन शास्त्रान्तरपरतया ब्रह्मणि एकवाक्यता । ब्रह्मणि वक्तव्ये वाक्यानां एकं
वाक्यं तस्य भाव एकवाक्यता महावाक्यमेकं भवतीति । कार्येश्वर इति विश्वकायत्वं पुरुष-
लक्षणं दिव्यो ह्यमूर्त इति श्रुतेः । तत्कार्येश्वरेऽतिव्याप्तं सातिव्याप्तिस्तेन तन्मतबाधकेन श्रुत्यन्तर-
विरोधेन मुण्डके कार्येश्वरप्रतिपादनाभावान्निवारिता । इदं रूपमेकज्ञानेन सर्वविज्ञानार्थं युक्तस्य मध्ये
उक्तम् । अन्यथा पुरुषविद्या न स्यादेकविज्ञानेनेति । महदिति । महतो नामान्तराभिलापयोग्य-
क्षरणं मन इति नामान्तरेण तच्छास्त्रान्तरीयम् । अतो न नामान्तराभिलापयोग्यक्षरणाद्भेद्यः ।
योगेन कथंचिदुपपद्यत इत्याहुः । तत्रेदमेवावेक्ष्यम् । गीतायां द्वादशे ।
'एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः' ॥
इति प्रश्नेन तदुत्तरेण चाक्षरपुरुषोत्तमयोरेक्यमवस्थाभेदेन भिन्नत्वं च बोधितम् । ततः
पञ्चदशे, 'द्वाविमौ पुरुषौ लोके' इति संदर्भे अक्षरपुरुषादुत्तमत्वं स्वस्योक्तम् । श्वेताश्वतरश्रुतावपि,
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एक इत्यक्षरस्यात्मत्वं देवस्य क्षराक्ष्रेशितृत्वं
चोक्तम् । अत्राप्यक्षरस्य पुरुषत्वं पूर्वमुक्त्वा अक्षरात् परत्वं पुरुषस्य यदुच्यते तेन गीताद्युक्त-
रीतिकमेवाक्षरपुरुषयोः स्वरूपं ज्ञाप्यते । न तु तदक्षरमतिहाय भूतसूक्ष्मरूपम् । प्रकृतहानाप्र-
कृतकल्पनयोः प्रसङ्गात् । नच परत इति पञ्चम्यन्तवैयर्थ्यम् । एतस्याक्षरविशेषणत्वेनोपपत्तेः ।
सांख्ये प्रधानस्याप्यक्षरपदवाच्यत्वेन तद्व्यावृत्तावश्यकत्वादिति ।
भास्कराचार्यास्तु, परत इति पदमक्षरविशेषणत्वेनाङ्गीकुर्वन्ति । अक्षरपदं चात्र
प्रधानबोधकमङ्गीकुर्वन्ति । रूपं च कारणात्मनः कार्यात्मनावस्थितस्येति चाहुः ।
शङ्कराचार्यास्त्वग्निर्मूर्धेत्यादिनोक्तं रूपं परमेश्वरस्येति व्याख्याय, नेदं रूपं परमेश्वरस्य ।
जायमानमध्ये एतदुपन्यासात् । 'एतस्माज्जायते प्राणः' इति पूर्वं प्राणादीनां, 'तस्मादग्निः समिधो
यस्य सूर्यः' इत्यनन्तरं च दर्शनात् । न च सर्वात्मत्वबोधनाय मध्ये पाठ इति युक्तम् । पुरुष एवेदं
विश्वं कर्मेत्यस्य सृष्टिकथनोत्तरं वक्ष्यमाणत्वात् । अतो 'हिरण्यगर्भः समवर्तताग्रे' इति, 'स वै
शरीरी प्रथमः' इति श्रुतिस्मृतिभ्यां तस्यैव जायमानत्वशरीरित्वयोर्निर्णायनात् तस्यैवेदं रूपम् ।
न च सूत्रवैयर्थ्यम् । परमेश्वरप्रतिपत्तिहेतुतया तस्योक्तत्वादित्यन्ये मन्यन्त इत्याहुः ।
वाचस्पतिस्तु प्रकरणापेक्षया सन्निधेर्निर्वलत्वात् प्रकरणाण एवेदं रूपमिति यद्यपि
सिद्ध्यति, तथापि प्रकरणिनः शरीरैन्द्रियादिरहितस्य विग्रहवत्त्वाविरोधात् सिद्धे प्रकरणिनोऽसंबन्धे
मूर्धादिश्रुतीनामत्यन्तविप्रकृष्टकरणापेक्षयाऽतिबलिष्ठत्वाज्जायमानमध्यपातित्वं जायमानग्रहणे
रश्मिः ।
तत्रेदमिति क्षरात् परतोऽक्षरात्परः पुरुष इत्यर्थमनादृत्य अक्षरादव्याकृतात्परतः पुरुषात् परः परमा-
त्मेति व्याख्याने इदं दूषणम् । उत्तरेणेति श्रीभगवानुवाच-मय्यावेश्य मनो ये मां नित्ययुक्ता उपा-
सते' इत्यादिना उत्तरेण ते प्राप्नुवन्ति मामेव इत्यक्षरोपासका मां प्राप्नुवन्तीत्यक्षराभेदः स्वस्मिन्नुक्तः
प्रश्ने च ये चाप्यक्षरमव्यक्तमिति मतेच्छयापि अव्यक्तत्वावस्थाधामत्वात् भक्तेच्छया भक्तमनोरथपूरण-
रूपेण धामत्वा रसरूपावस्था पुरुषोत्तमत्वात् इत्यवस्थाभेदेन भिन्नत्वम् । पुरुषौ इति क्षराक्षरौ ।
अत्रापीति मुण्डकेपि । पूर्वमिति प्रथममुण्डकसमाप्तौ येनाक्षरं पुरुषं वेदेति श्रुतौ प्रथममुण्डके
द्वितीयमुण्डकात्पूर्वं यथा भवति तथोक्त्वा । व्यावर्तकं हि विशेषणं तद्व्यावर्त्यमाहुः सांख्य इति ।
इति रामानुजमततत्समाधानसमाप्तौ । अङ्गीति । परत इति प्रधानविशेषणं कार्यात्परतः । रूपोपन्या-
ससूत्रार्थमाहुः रूपं चेति । मध्ये उपन्यासमनुवादयामासुरेतस्मादिति । दर्शनादिति अग्निर्मूर्धा
चक्षुषी इत्यस्य रूपप्रतिपादकस्य दर्शनात् । हिरण्यगर्भवाचकमत्र सर्वभूतान्तरात्मपदमित्याशये-
नानुवादमाहुः अत इति । समवर्तत अजायत । प्रतिज्ञाविरोधमाहुः न चेति । प्रतिज्ञातसद्भावि-
ज्ञानासंभवात् सूत्रवैयर्थ्यम् । परम्वेति परमेश्वरस्य ब्रह्मणः प्रतिपत्तिः कार्यकारण ज्ञानं तद्धेतुतया ।
Here is the line-by-line Devanagari transcription for the provided page:
५७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २४
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ ( १-२-८ )
अधिकरणत्रयेण भोगमुपपाद्य पूर्वाधिकरणे अदृश्यत्वादिगुणानुक्त्वा
भाष्यप्रकाशः।
कारणमुपन्यस्तं भाष्यकृतेत्याह । तन्मन्दम् । भाष्यकृता एतस्यान्यमतत्वेनेवोपन्यासात् ।
तदुपन्यासप्रारम्भे, अन्ये पुनर्मन्यन्त इति पुनः शब्देनास्य पक्षस्याभासत्वस्य स्वयमेवापादनात् ।
भाष्यकारस्यैवमभिप्राये तेन मूर्धादिश्रुतिरेव प्रमाणतयोपन्यस्येत । अतः सूत्रं भाष्यं च
स्वाग्रहमात्रेण विरुन्धन्नतिपाण्डित्यं द्योतयतीति बोध्यम् । एतेनैव मैध्वमपि दत्तोत्तरम् ।
शैवस्तु पूर्वानुसार्येव ।
माध्वास्तु, 'अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ।
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमेवाखिलगुणमक्षरत्रयमीरितम् ।'
इति स्काान्दादक्षरपदं त्रिष्वपि रूढमङ्गीकृत्य, अक्षरात् परतः पर इत्यत्र प्रकृतिरतः परं
यल्लक्ष्मीरूपमक्षरं तस्मादपि परोऽदृश्यत्वादिगुणकोऽक्षरशब्दवाच्यः । पुरुषस्तदुभयभिन्न उक्तविशे-
षणत्वादेव । यः सर्वज्ञ इत्यादिविशेषणात् प्रकृतिरतोऽपि भिन्नः । तस्मादेतद् ब्रह्म नामरूपमन्नं च
जायत इति नामरूपाद् ब्रह्मणः शब्दब्रह्मरूपाच्चतुर्मुखान्नेदेदं व्यपदेशाच्च विरञ्च्यः । जुष्टं यदा
पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इतीशान्यान्यत्वव्यपदेशाच्च रुद्रः । यदा पश्यः
पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिमिति रूपोपन्यासाच्च न ब्रह्मरुद्रावित्याहुः ॥ २३ ॥
इति सप्तममदृश्यत्वाधिकरणम् ॥ ७ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ एवमदृश्यत्वाद्यधिकरणेनान्तर्यामिणोऽ-
दृष्टत्वेऽदृष्टयत्वरूपो हेतुः प्रसङ्गाद्दर्शितः । अतः परं प्रस्तूयमानाधिकरणस्य पूर्वोक्तसर्वोपपादकत्व-
बोधनाय तत्प्रयोजनमाहुः अधिकरणत्रयेणेत्यादि । 'अत्ता चराचरग्रहणाद्' 'गुहां प्रविष्टावा-
रश्मिः।
विरुन्धन्निति अध्याहृतेन वाचस्पतिना सामानाधिकरण्याच्छतृप्रत्ययः । अतिक्रान्तं पाण्डित्यमति-
पाण्डित्यं 'प्रादयो गताद्यर्थे प्रथमया' इति सूत्रेण समासः । यद्वाऽतिक्रान्तं पाण्डित्यं यस्यात्तादृशं स्वं
वाचस्पतिम् । पूर्वेति रामानुजमतानुसार्येव । तदुत्तरेणैव दत्तोत्तरः । मगवान्कैवः । वीतशोक इति
विगतः शोको यस्मादिति वीतशोको जीवः । न ब्रह्मेति ब्रह्मरुद्रयो रक्तकृष्णरूपत्वात् । इत्याहुरिति
आहुरित्यनेन स्वरसस्तु पुराणमतमेतत् । स्काान्दं तामसमिति सूत्रस्य पौराणार्थतामसार्यप्रतिपाद-
कतापत्तिः । रूपोपन्याससूत्रे चेशस्य पुरुषं ब्रह्मणो द्रुहिणस्य योनिमिति षष्ठीसमासे ईशं पुरुषमिति
पाठस्य विरोधः ॥ २३ ॥
इति सप्तममधिकरणम् ॥ ७ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ पूर्वोक्तेति इदं समाप्तौ स्फुटम् ।
पूर्वोक्तस्य जगज्जन्मादिकर्तृत्वस्य निष्कलं निष्क्रियं शान्तमित्युक्तेऽसंभवात् समवायित्वंस स्वां-
शांतप्रत्यसंभवात् विरुद्धानां सकलत्वादीनां स्वस्मिन् सत्तां साकाराणामंशानां च विरुद्धधर्मा-
श्रयत्वसाकारब्रह्मत्वाभ्यामेवोपपादनात्पूर्वोक्तं सर्वमभिन्ननिमित्तोपादानत्वं तस्य साकारब्रह्मत्वं-
572
प्रसङ्गाद्रूपमुपन्यस्तम् । अधुना साकारब्रह्मतामुपपादयितुमिदमधिकरण-
मारभते । को न आत्मा किं ब्रह्मेति, आत्मानमेवेमं वैश्वानरं संप्रत्यध्येषि तमेव
नो ब्रूहीति चोपक्रम्य द्युसूर्यवाय्वाकाशवारिपृथिवीनां सुतेजस्त्वादिगुणयोग-
मेकैकोपासननिन्दया च मूर्धादिभावमुपदिश्याम्नायते ।
भाष्यप्रकाशः ।
त्मानौ हि तद्दर्शनात्' 'अन्तर उपपत्तेः'इत्यधिकरणत्रयेण वैशेष्यबोधनात् त्रिविधं भोगमुपपाद्या-
न्तर्याम्यधिकरणे तद्वैशेष्यमन्तर्यामिणि निगमयित्वा, अदृश्यत्वाधिकरणे तस्यादृष्टत्वोपपाद-
कान् अदृश्यत्वादिगुणानुक्त्वा रूपाभावादेवाद्दश्यत्वादीति शङ्कानिरासायान्तरात्मनस्तत्प्रसङ्गाद्रूपमु-
पन्यस्तम् । परमात्माक्षरयोरभेदः परापरभावश्चोक्तः । तत् तदा संगच्छते, यदि ब्रह्मणः साकारता
वास्तवी स्या
५७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २४
भाष्यप्रकाशः
अभिन्नो भिन्नो वेति संशयो न तेषां विचारबीजं, किंत्वस्मदुपास्य आत्मा कः, किं ब्रह्म, तदेक-
देशो वेति संशयो विचारबीजमित्यनुपदमेव व्युत्पादयिष्यामः ।
यदत्र कैश्चिद् व्याख्यातम् । आत्मब्रह्मशब्दयोरितरेतरविशेषणविशेष्यत्वाद् ब्रह्मेत्यध्या-
त्मपरिच्छिन्नमात्मानं निवर्तयत्यात्मेति चात्मव्यतिरिक्तस्यादित्यादिब्रह्मण उपास्यत्वं निवर्तयति ।
अतो, ब्रह्म चात्मैव, आत्मा ब्रह्मैवेत्यभेदेन सर्वात्मा वैश्वानरो ब्रह्म स चात्मेति फलिष्यतीति ।
तन्न । किमः आवृत्त्या वाक्यभेदस्य स्फुटत्वेन विशेषणविशेष्यभावप्रतीत्यनुदयादैतदुपपादनभूता-
ग्रिमग्रन्थानुरोधेन तथाङ्गीकारेऽपि तत्रात्मन उपास्यत्वेनैव सिद्धतया तत्र प्रत्यगात्माभेदापाद-
नस्यासंगत्वादिति । अतः पूर्वोक्तसंशय एव विचारबीजम् । मीमांसाफलं त्वग्रे वक्तव्यम् ।
ततः स्वविचारण्या तन्निश्चयमलभमाना उद्दालकनामानमन्यं वैश्वानरोपासकं संशयवारकत्वेन
संभावितवन्तः । सर्वेऽपि तन्निकटे यदा गतास्तदा तेन विचारितम् । एते प्रश्नार्थमागता
रश्मिः।
संशयस्योपक्रमे मीमांसाया उक्तायास्तद्धटकत्वेनावक्तव्यत्वात् मीमांसायाः 'विषयो विशयश्चैव पूर्व-
[L1
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५७५
यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते स सर्वेषु
लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति । तस्य ह वा एतस्यात्मनो वैश्वानरस्य
मूर्धैव सुतेजाश्चक्षुर्विश्वरूपः प्राणः पृथग्वर्त्मात्मा संदेहो बहुलो बस्तिरेव रयिः
पृथिव्येव पादावुर एव वेदिलोंमानि बर्हिर्हृदयं गार्हपत्यो मनोऽन्वाहार्यपचनमा-
स्यमाहवनीय इत्यादि ।
भाष्यप्रकाशः ।
महाश्रोत्रिया अहमिव वैश्वानरोपासका नाहमेभ्योऽधिकोऽतोऽन्यमभ्यनुशासानीति । तत एवं
निश्चित्य तद्वेचारं कैकेयमुपदिष्टवान् । ततस्ते षडपि कैकेयराजनिकटे गताः । तदा स राजा
तेषां पृथक् पृथक् पूजां पुरोहितादिद्वारा कारयित्वा धनं दातुमारब्धवान् । यदा न जगृहुस्तदा, 'न