अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 663, कुल 2600 में से
संदर्भ में पढ़ेंHere is the line-by-line Devanagari transcription for the provided page:
५७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ८ सू० २४
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ ( १-२-८ )
अधिकरणत्रयेण भोगमुपपाद्य पूर्वाधिकरणे अदृश्यत्वादिगुणानुक्त्वा
भाष्यप्रकाशः।
कारणमुपन्यस्तं भाष्यकृतेत्याह । तन्मन्दम् । भाष्यकृता एतस्यान्यमतत्वेनेवोपन्यासात् ।
तदुपन्यासप्रारम्भे, अन्ये पुनर्मन्यन्त इति पुनः शब्देनास्य पक्षस्याभासत्वस्य स्वयमेवापादनात् ।
भाष्यकारस्यैवमभिप्राये तेन मूर्धादिश्रुतिरेव प्रमाणतयोपन्यस्येत । अतः सूत्रं भाष्यं च
स्वाग्रहमात्रेण विरुन्धन्नतिपाण्डित्यं द्योतयतीति बोध्यम् । एतेनैव मैध्वमपि दत्तोत्तरम् ।
शैवस्तु पूर्वानुसार्येव ।
माध्वास्तु, 'अपरं त्वक्षरं या सा प्रकृतिर्जडरूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णुसंश्रया ।
तामक्षरं परं प्राहुः परतः परमक्षरम् ।
हरिमेवाखिलगुणमक्षरत्रयमीरितम् ।'
इति स्काान्दादक्षरपदं त्रिष्वपि रूढमङ्गीकृत्य, अक्षरात् परतः पर इत्यत्र प्रकृतिरतः परं
यल्लक्ष्मीरूपमक्षरं तस्मादपि परोऽदृश्यत्वादिगुणकोऽक्षरशब्दवाच्यः । पुरुषस्तदुभयभिन्न उक्तविशे-
षणत्वादेव । यः सर्वज्ञ इत्यादिविशेषणात् प्रकृतिरतोऽपि भिन्नः । तस्मादेतद् ब्रह्म नामरूपमन्नं च
जायत इति नामरूपाद् ब्रह्मणः शब्दब्रह्मरूपाच्चतुर्मुखान्नेदेदं व्यपदेशाच्च विरञ्च्यः । जुष्टं यदा
पश्यत्यन्यमीशमस्य महिमानमिति वीतशोक इतीशान्यान्यत्वव्यपदेशाच्च रुद्रः । यदा पश्यः
पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिमिति रूपोपन्यासाच्च न ब्रह्मरुद्रावित्याहुः ॥ २३ ॥
इति सप्तममदृश्यत्वाधिकरणम् ॥ ७ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ एवमदृश्यत्वाद्यधिकरणेनान्तर्यामिणोऽ-
दृष्टत्वेऽदृष्टयत्वरूपो हेतुः प्रसङ्गाद्दर्शितः । अतः परं प्रस्तूयमानाधिकरणस्य पूर्वोक्तसर्वोपपादकत्व-
बोधनाय तत्प्रयोजनमाहुः अधिकरणत्रयेणेत्यादि । 'अत्ता चराचरग्रहणाद्' 'गुहां प्रविष्टावा-
रश्मिः।
विरुन्धन्निति अध्याहृतेन वाचस्पतिना सामानाधिकरण्याच्छतृप्रत्ययः । अतिक्रान्तं पाण्डित्यमति-
पाण्डित्यं 'प्रादयो गताद्यर्थे प्रथमया' इति सूत्रेण समासः । यद्वाऽतिक्रान्तं पाण्डित्यं यस्यात्तादृशं स्वं
वाचस्पतिम् । पूर्वेति रामानुजमतानुसार्येव । तदुत्तरेणैव दत्तोत्तरः । मगवान्कैवः । वीतशोक इति
विगतः शोको यस्मादिति वीतशोको जीवः । न ब्रह्मेति ब्रह्मरुद्रयो रक्तकृष्णरूपत्वात् । इत्याहुरिति
आहुरित्यनेन स्वरसस्तु पुराणमतमेतत् । स्काान्दं तामसमिति सूत्रस्य पौराणार्थतामसार्यप्रतिपाद-
कतापत्तिः । रूपोपन्याससूत्रे चेशस्य पुरुषं ब्रह्मणो द्रुहिणस्य योनिमिति षष्ठीसमासे ईशं पुरुषमिति
पाठस्य विरोधः ॥ २३ ॥
इति सप्तममधिकरणम् ॥ ७ ॥
वैश्वानरः साधारणशब्दविशेषात् ॥ २४ ॥ पूर्वोक्तेति इदं समाप्तौ स्फुटम् ।
पूर्वोक्तस्य जगज्जन्मादिकर्तृत्वस्य निष्कलं निष्क्रियं शान्तमित्युक्तेऽसंभवात् समवायित्वंस स्वां-
शांतप्रत्यसंभवात् विरुद्धानां सकलत्वादीनां स्वस्मिन् सत्तां साकाराणामंशानां च विरुद्धधर्मा-
श्रयत्वसाकारब्रह्मत्वाभ्यामेवोपपादनात्पूर्वोक्तं सर्वमभिन्ननिमित्तोपादानत्वं तस्य साकारब्रह्मत्वं-
572