अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 660, कुल 2600 में से
संदर्भ में पढ़ेंी इत्यादिरूपं न हि प्रकृतिपुरुषयोरन्यतरस्य संभवति ।
भाष्यप्रकाशः ।
क्रमेण, न वा सह, न वा ततः साक्षात् अतोऽपि तथेत्यर्थः । एवं विशेषणभेदरूपं दूषणं
व्युत्पादितम् । द्वितीयं व्युत्पादयन्ति व्यपदेशोत्यादि । तथा च यदि सांख्यमतविद्याऽत्राभिप्रेता
स्यात् तदा त्रिषु क्वचित् सांख्यविद्यामिति तत्त्वविद्यामिति वा वदेत् । अतो विद्याव्यपदेश-
भेदादपि तथेत्यर्थः । ब्रह्मेति हिरण्यगर्भो वेदाचार्यः ॥ २२ ॥
रूपमपि समष्टिव्यष्टिजनकस्य यदुक्तं तदपि सांख्यमताद् भेदज्ञापकमित्याशयेन सूत्रं
पठित्वा व्याकुर्वन्ति ।
रूपोपन्यासाच्च ॥ २३ ॥ न चेदं रूपं क्लिष्टस्येति शक्यवचनम् । यथा सुदीप्तात्
पावकादिति मन्त्रेण केवलादक्षरात् सृष्टिमुक्त्वा, ततो दिव्यो ह्यमूर्त इति मन्त्रेण केवलस्य
पुरुषस्याक्षरात् परत्व