सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

= ग, below it is स्+त+य with visarga). Exactly उपदेशोगस्त्यः!
And line 33: भावना सनकादिकर्तृका तस्याम् । आदिपदेन संयोगे वियोगवृत्तिरूपे प्रेम्णि ।
Wait, let's look at भावना सनकादिकर्तृका:
In image, भावना is followed by सनकादिकर्तृका:
Wait, is it सदादिकर्तृका or सनकादिकर्तृका?
The second letter has a loop like न: न with क and ा -> सनकादिकर्तृका!
Yes, absolutely brilliant!

  • Line 33 (cont): न तथेति न सर्वथा ब्रह्मभाव
  • Line 34: इत्यर्थः । तत्र हेतुर्बहिःस्फूर्तेरित्यादि । तथा चोत्कटविरहे ब्रह्मभावस्तत्र बहिःस्फूर्तेरभावादिति
  • Line 35: भावः । बृहदन्तर्गतदृष्टान्तात् । ननु तद्वतिरिक्तानां सर्वथा ब्रह्मभावस्मरणात् सद्योमुक्तिप्रसङ्ग इति चेन्न ।
    Wait, बृहदन्तर्गतदृष्टान्तात्?
    Let's look at the first word of line 35

वो... Wait, between देandसं: There is श! Wait, why did I see देसनbefore? Because theश has a left rounded part and a right vertical line, which can look like two letters (सandन) if the resolution is blurry! In this font: श= a left curve with top loop, connected by a crossbar to the vertical stem! That looks EXACTLY likeस! Wait, शin Devanagari (specifically the Western/Bombay/Nirnayasagar font): Bombay styleशis often written likeशwith a loop, ORशcan look like a loop with a tail. But Nirnayasagar styleश: Look at शमीकस्यin line 13: theशhas a loop on the left, then connects to the right vertical bar? No,शinशमीकस्यhas no right vertical bar! It's the North Indianश(like a 2 with a vertical bar: २ + ।). Wait, look atशमीकस्य: शisश. Now look at उपदेश: प दे श-> wait, look atशinउपदेश: it is श! Wait, what is the character after श

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४०३
ब्रह्मवादे गुणानङ्गीकाराच्च । तस्मादुक्तमुक्तं शास्त्रदृष्ट्या तूपदेश इति ॥ २९ ॥
भाष्यप्रकाशः।
ब्रह्मवादे ब्रह्मणः सगुणनिर्गुणभावाभावेनाधिकारिभेदाभावात् तथागत्यादिनियमकथनमप्रामा-
णिकमेव । सांख्यप्रतिपन्नानां गुणानां व्यासेनानङ्गीकारादपि तथेत्यसंगतत्वान्नाद्रियते
इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । तस्मादिति अभ्यासबाहुल्येन ब्रह्मावेशात् ॥ २९ ॥
रश्मिः ।
'अभेदोऽनुपाधित्वाज्जगत्प्रत्ययासितः ।
सर्वाधारत्वतस्तावच्छक्तित्त्वान्नास बाधनम्' ॥ इति ।
न चाथ मायाशबलितं ब्रह्मासीदिति श्रुतिविरोध इति शङ्क्यं मायाशब्दस्येन्द्रियपरत्वस्य निबन्धे
व्यवस्थापनात् । अनङ्गीकारादिति ब्रह्मजिज्ञासां प्रतिज्ञाय केवलादेव जन्माद्यस्य यतः इति वदता
रचनानुपपत्ते

४०४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १० सू० ३०
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्त्वादिह
तद्योगात् ॥ ३० ॥
अन्यद् बाधकद्वयमाशङ्कते । ननु यद्यपि ब्रह्मधर्मा भूयांसः प्रकरणे श्रूयन्ते ।
तद्वज्जीवधर्मा मुख्यप्राणधर्माश्च बाधकाः सन्ति । न वाचं विजिज्ञासीत वक्तारं
विद्यादित्यादि । अत्र हि वागादिकरणाध्यक्षस्य जीवस्य विज्ञेयत्वमभिधीयते ।
अथ खलु प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थेति शरीरधारणं मुख्यप्राणधर्मः । मा
मोहमापद्यथा, अहमेवैतत् पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति
श्रवणात् ।
यो वै प्राणः सा प्रज्ञा या प्रज्ञा स प्राण इति जीवमुख्यप्राणवाच्यत्वे
प्रज्ञाप्राणयोः सहवृत्तित्वादुपचारो युज्यते। उत्क्रान्तिश्च । नतु सर्वथा विलक्षणस्य
ब्रह्मणः । तस्माज्जीवमुख्यप्राणलिङ्गयोर्विद्यमानत्वान्न ब्रह्मप्रकरणमिति चेन्न ।
भाष्यप्रकाशः।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात्
॥ ३० ॥ व्याचक्षते अन्यदित्यादि । एतद्बाणमिति एतच्छरीरम् । तथाच वागादिक-
रणाध्यक्षत्वस्य जीवलिङ्गस्य शरीरधारणस्य मुख्यप्राणलिङ्गस्य च ब्रह्मवाक्यत्वबाधकस्य विद्य-
मानत्वाच्चेदं ब्रह्मवाक्यमित्यर्थः । ननु यद्येते लिङ्गे ब्रह्मवाक्यत्वबाधके तथा अमृतत्वादिकं
ब्रह्मलिङ्गमप्येतद्बाधकमिति नात्र कस्यापि निर्णय इत्यतः स्वपक्षे गुणमाह यो वा इत्यादि ।
इति जीवमुख्यप्राणवाच्यत्व इति अस्मिन् प्रकरणेऽङ्गीकार्यत्वे । उत्क्रान्तिरिति । सहैवैतैः
सर्वैरुत्क्रामतीत्यनेनोक्तोत्क्रान्तिः । सर्वथा विलक्षणस्येति । उत्क्रान्तिविरोधिन्द्या व्यापक-
तया जीवात्, तथा चेतनतया च मुख्यप्राणाद् विरुद्धधर्मणः । तस्मादिति । उक्तलक्षणस्य
महाबाधकस्य सत्त्वात् । तथाचैतेन बाधकेन ब्रह्मलिङ्गानामुपासनार्थत्वस्य शक्यवचनत्वाच्चेदं
रश्मिः।
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपासात्रैविध्यादाश्रितत्त्वादिह तद्योगात् ॥ ३० ॥
भाष्ये । 'मा मोहमापद्यथाः' इत्यादि वागादीन् प्रति प्राणवाक्यम् । पञ्चधेति प्राणापानादि-
भेदेन । प्रकृते । अङ्गीत्यादि अत्र ल्प्रत्ययरहितः पाठः प्रतिभाति । इदं प्रकरणाधिकरणकाङ्गी-
कार्यत्व इत्यर्थो वा । भाष्ये । उपचारो अमृतत्त्वादिब्रह्मलिङ्गानाम् । प्रकृते । एतैरित्यादि
समीपतरवर्तिभिः प्राणैः । उत्क्रान्तिरित्युस युज्येत इति पूर्वेण समं संबन्धः । तथेति उत्क्रान्ति-
विरोधिन्या व्यापकत्येत्यर्थः । महेति पूर्वपक्षांशे विपरीतलक्षणया स्वरेण वापाततो बाधकं तन्न तु
परमार्थत इत्यर्थो बोध्यः । वीत्यादि 'मामेव विजानीहि' इति श्रुतावित्यर्थः । अर्थत्रयं ब्रह्मजीवमुख्य-
प्राणरूपं घटादीनां प्रसक्त्यभावात् । प्रसक्तानां त्रयाणां च व्यवच्छेदायोगात् व्यवच्छेदाभावेन
तथेत्यर्थः । ननु शिवस्य व्यवच्छेद्यत्वं ब्रह्मणो ब्राह्मणत्वात् विष्णोर्ब्रह्मगुणगणगणैर्गुणितां गणितानन्द-
गुणकसत्तातिरिक्तादिति चेन्न । भेदकस्य तमसो मायिकत्वेनेतेर्धं प्रतीतेः । पूर्वत्राप्येवम् । 'एकत्व वाक्यम्'
'अर्थकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात्' इति प्रोक्तलक्षणकं वाक्यं तस्य भेदः । आश्रितत्वा-
दिति भाष्याग्रे अत एव 'त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि त्वं
१. बञ्च संस्त्याने ।
404

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४०५
उपसात्रैविध्यात् । अयमर्थः । किमत्र बोध्यते । जीवमुख्यप्राणलिङ्गाद् ब्रह्म-
धर्माणां जीवपरत्वं, त्रयाणामपि स्वतन्त्रत्वं वा, लिङ्गद्वयस्यापि ब्रह्मधर्मत्वमुच्यता-
मिति वा । आद्यः पूर्वमेव परिहृतः । न हि ब्रह्मधर्मा अन्यपरत्वेन परिणेतुं
शक्या इति । द्वितीये दूषणमाह । उपासात्रैविध्यात् । तथा सत्युपासनं त्रिविधं
स्यात् । तद्वाक्यभेदप्रसङ्गान्न युक्तम् । तृतीये तूपपत्तिरुच्यते । जीवधर्मा ब्रह्मणि
न विरुद्ध्यन्ते । आश्रितत्वात् । जीवस्यापि ब्रह्माधारत्वात् तद्धर्मा अपि
भगवदाश्रिता एव । इहेत्युभयत्र संबन्धो ब्रह्मवादे । मुख्यप्राणे तु तयोगात् ।
भाष्यप्रकाशः।
ब्रह्मप्रकरणमिति पूर्वपक्षस्य इत्यर्थः । समाधानांशं व्याकुर्वन्ति अयमर्थ इत्यादि ।
उच्यतामिति । उपपाद्यताम् । पूर्वमेव परिहृत इति । न वक्तुरिति सूत्रे ब्रह्मधर्मबाहु-
ल्यप्रतिपादनेन बहूनामनुग्रहस्य न्याय्यत्वालम्बनात् परिहृतः । परिहाराकारमाहुः न
हीत्यादि । अत्राशक्यत्वं बहुषु लक्षणाया आपत्त्या ज्ञेयम् । द्वितीय इति लक्षणादोषा-
दित्यात् त्रयाणां स्वातन्त्र्येण प्रतिपाद्यत्वाङ्गीकार इत्यर्थः । वाक्यभेदप्रसङ्गादिति । विजा-
नीहीत्यस्यावर्तनेन, मामिति पदसार्थक्यकल्पनेनैवकारार्थविरोधेन च वाक्यभेदप्रसङ्गात् ।
तृतीय इति ब्रह्मधर्मत्वोपपादनचोदनापक्षे । ब्रह्माधारत्वादिति । 'अस्यावयवभूतैस्तु
व्याप्तं सर्वमिदं जगत्' इति श्रुत्या जीवस्यावयवत्वबोधनेन तस्य ब्रह्माधारत्वात् । नच वैपरीत्यं
शङ्क्यम् । संयोगादुत्पत्तिरिति पक्षे तथात्वे, विभागादुत्पत्तिरिति पक्षे तदभावादिति । इहे-
त्युभयत्र संबन्ध इति । इहाऽऽश्रितत्त्वादिह तयोगादित्येवं संबन्धः । ब्रह्मवादपदं माया-
रश्मिः।
जातो भवसि विश्वतोमुखः' इत्यादिश्रुतिरित्याकाशवाणीपाठः । वबसि गच्छसि । तस्येत्यादि
शरीरे करादय इति प्रतीत्या करादीनां शरीराधारत्वंवत् तस्य जीवस्य ब्रह्माधारत्वात् । वैपरीत्यं
तन्त्वधिकरणकपटनिरूपितेत्यादिविद्वन्मण्डने कपालेषु घट इति प्रतीत्यावयविभूतब्रह्मणोवयवभूत-
जीवस्याधारत्वं शङ्क्यमित्यर्थः । संयोगादुत्पत्तिरित्यादि ईश्वरचिकीर्षावशात्परमाणुषु जायमानया
क्रियया परमाणुद्वयसंयोगादुत्पत्तिः। तथात्वे अवयविनोवयवस्याधारत्वे। विभागाद्येत्यादि अयमर्थः।
सिद्धान्ते प्रथमस्यान्तिमस्य च कार्यस्य विभागादुत्पत्तिः अवान्तरस्य तु यथासंभवं संयोगविभागाभ्यां
सा 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति एवमेवास्मादात्मनः' इति पञ्चमीश्रवणात् । परमाणु-
कारणवादस्य तर्कपादे दूषणीयत्वात् । इदं यथा तथा सृष्टिभेदवादे व्युत्पादितम् । तदभावात्
अवयवानामवयव्याधारत्वाभावात् । संबन्ध इति देहलीदीपकन्यायेनेति भावः । इहेत्यस्य
सर्वात्मभाववति जीवे इह ब्रह्मणि आश्रितत्वात् तयोगादित्येवमर्थसमर्थनार्थम् । न चैवं स्वे महिम्नि
ह्याश्रितत्वव्याख्याने ।
'मन्त्रोपासनवैदिकतान्त्रिकदीक्षार्चनादिविधिभिर्यः।
अस्पृष्टो रमते निजभक्तेषु स मेस्तु सर्वस्वम्' ॥
इति ह्युपासाऽविषयत्वं विरुद्धमिति वाच्यं मन्त्राणामुपासनेति व्याख्यानात् । अत एव मुक्ति-
स्कन्धे उपासना उप समीपे स्थित्वा यथायोग्यकरणमिति सुबोधिनी । भाष्यप्रकाशसमाप्तौ चोपास-
नाघटितसाधनपरंपरा । मायावादव्यवच्छेदसूचकब्रह्मवादपदकथनतात्पर्यमाहुः ब्रह्मवादेत्यादिना ।
405

यिभावानङ्गीकारेण तस्य विरुद्धत्वबोधनार्थम् ।"
Wait, why does Prakash say "तस्य विरुद्धत्वबोधनार्थम्"?
"तस्य = जीवधर्मस्य विरुद्धत्वबोधनार्थम्"?
Wait, in line 20 of Raśmi:
"तस्येति प्रतर्दनाधिकरणवाचक..."
Wait, what word in Pratardana-adhikarana?
Look at the letters after 'वाचक':
Is it "तच्छब्दस्येत्यर्थः"?
Look at the characters:
त (ta)
त्स (tsa)? No, look:
स (sa)
हे (he) or ते (te)?
ति (ti)
प (pa)
द (da)
स्ये (sye)
त्य (tya)
र्थः (rthaḥ)
Wait, "तस्येति पदस्येत्यर्थः" or "सहेतिपदस्येत्यर्थः" or "तेनेति पदस्येत्यर्थः"?
WAIT! Look at "तेनेति"!
The first word of the Bhāṣya on this page is: "तेन"!
Could it be "तेनेति पदस्येत्यर्थः"?
Look at the letters:
त (ta) with 'े' = ते (te).
Then न (na) with 'े' = ने (ne)? Or ह (ha)?
Wait, compare 'ने' in 'प्राणेन'

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४०७
सहोत्क्रमस्तु क्रियाज्ञानशक्त्योर्भगवदीययोर्देहे सहैव स्थानं सहोत्क्रमण-
मिति भगवदधीनत्वं सर्वस्यापि बोध्यते । ननु प्राणस्तथानुगमादिति प्राण-
शब्देन ब्रह्मैव प्रतिपादितं तत्कथं धर्मयोरुत्क्रमणमिति चेत् । अत्र धर्मधर्मिणो-
रेकत्वपृथक्त्वनिर्देशयोर्विद्यमानत्वात् । प्राणो वा अहमस्मिन् प्रज्ञात्मेति । अत्र
भाष्यप्रकाशः ।
विरुद्धतया तस्य तु तथात्वं न युज्यत इति तस्य का गतिरित्यत आहुः सहोत्क्रम-
स्त्विति । तथाच व्यापकत्वादसंभवन्नपि शक्तिशक्तिमदोरभेदाद्धस्तोत्क्षेपणवत् सोऽपि भग-
वद्धर्म एवेत्यर्थः । एवं बोधनस्य फलमाहुः देह इत्यादि । अत्र पूर्वविरोधमाशङ्कते नन्वित्या-
दि । तत् कथमिति पूर्वोक्तविरोधेन धर्मधर्मिभावस्य वक्तुमशक्यत्वात् कथम् । एत-
त्समाधानाय हेतुं गृह्णन्ति अत्र धर्मेत्यादि । तथाच यदि पृथक्त्वनिर्देशो न स्यादुत्क्रमणं
विरुध्येत । अत्र तूभयोः सत्त्वान्न पूर्वापरविरोध इत्यर्थः । उक्तं व्याख्यातुमुपपादयन्ति
प्राण इत्यादि । अत्र विषयवाक्ये पाठभेदो देशभेदाद् बोध्यः । यथा बृहदारण्यकोपनिषदि
तैलङ्गद्रविडपाठभेदात् । यथा चैतद्वाणमवष्टभ्येति प्रश्नोपनिषद्वाक्ये ये त्विमं शरीरं परिगृह्येति
पठन्तीति पाठान्तरं शंकराचार्यैरुपन्यस्तम् । तथाऽत्रैवोऽहमित्यत्रादुदुहदिति पठितम् ।
तद्वत् शंकरानन्दकृतटीकायामप्येवमेव पाठ इति । अत्र क्रियाशक्त्यनुग्राहकः प्राण इति
ज्ञानशक्त्यनुग्राहकश्च चेतन इति तदुभयवाचकयोः प्राणप्रज्ञात्मशब्दयोरिदेमा सामानाधिकरण्यात्
तदुभयवानेको निर्दिष्टः । ततस्तं मामायुरमृतमित्युपास्वेत्यनेन तस्योपासनं विधाय तस्य
फलं चोक्त्वा तदनु तद्वैक आहुरित्यारभ्यास्तित्वेव प्राणानां निःश्रेयसमित्यन्तेन
क्रियाशक्तिप्रशंसा । जीवति वागपेत इत्यारभ्य प्राण एव प्रज्ञात्मेदं शरीरं परिगृह्योत्थापय-
तीत्यन्तेन ज्ञानशक्तिप्रशंसा । ततस्तस्योपासनं विधाय प्राणे सर्वाप्तिमूक्त्वा यो वै प्राणः
रश्मिः ।
तथात्वमिति ब्रह्मधर्मत्वम् । हस्तेत्यादि हस्तोत्क्षेपणस्य पुरुषधर्मत्ववदित्यर्थः । तथा च 'अविभक्तं
च भूतेषु विभक्तमिव च स्थितम्' इति गीतायां भगवदीययोरित्यर्थः । ननु प्राण इत्यादिसूत्रे प्रज्ञात्मेति
पठ्यतेत्र तु प्रज्ञानानेति पाठभेदेऽपि किंचिदाहुः अत्र विषयेत्यादिना पाठभेदस्तु स्वयमग्रे
वक्तव्यः । तैलङ्गेत्यादि अयं द्रष्टव्यः क्वचित्स्थले । इति पठितमिति शंकराचार्यैरित्यर्थः । तथा च
तद्भाष्यम् । ये त्विमं शरीरं परिगृह्येति पठन्ति तेषामिमं जीवमिन्द्रियग्रामं वा परिगृह्य शरीरमुत्थाप-
यन्तीति व्याख्येयमिति । तथा अथ यथास्यै प्रज्ञायै सर्वाणि भूतान्येकं भवन्ति तद्व्याख्यास्याम
इत्युपक्रम्य वागेवास्या एकमङ्गमदूदुहत् तस्यै नाम परस्तात् प्रतिविहिता भूतमात्रा प्रज्ञया वाचं
समारुह्य वाचा सर्वाणि नामान्याप्नोति इत्यादि प्रज्ञाधर्म इति । इत आरभ्य प्राणगुणविशिष्टोपासना
प्राणोहमस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपास्वेति श्रुत्यर्थमाहुः अत्र क्रियेत्यादिना । उपासनाद्वय-
प्रतिपादकश्रुतेर्वस्तु ह्यधिकरणारम्भ उक्तः । तदनन्विवादिभाष्यं विवृण्वन्ति स्म तदनन्वित्यादिना ।
प्राण पवेति यत्र खलु प्राण एवेत्यादितृतीयोपासनाप्रज्ञागुणविशिष्टस्य । तस्योपेति
पञ्चमावेदनेनेत्येवमुपासीतेति श्रुतोत्पत्तिस्तस्य देहायुस्थानकमित्यर्थः । पुनर्ज्ञानशक्तेरुत्कर्षं वक्तुमिति
५२ ब्र० सू० २८
407

क्रियाज्ञानशक्तिमान् निर्दिष्टः । तदन्वेकैकस्य धर्मस्य प्रशंसा, यो वै प्राणः
सा प्रज्ञा, या प्रज्ञा स प्राण इत्युपसंहारान्तम् । पुनस्तयोरेवोत्क्रमणप्रवेशाभ्यां
सह ह्येवास्मिन् शरीरे वसतः सहोत्कामत इत्युपक्रम्य सुषुप्तिमूर्च्छामरणेषु प्राणा-
धीनत्वं सर्वेषामिन्द्रियाणामुक्त्वा आसव्यव्यावृत्त्यर्थं प्रज्ञयैक्यं प्रतिपाद्योपसंह-
रति । पुनुर्ज्ञानशक्तेरुत्कर्षं वक्तुम्, अथ खलु यथा प्रज्ञायामित्यारभ्य, न हि प्रज्ञापे-
तोऽर्थः कश्चन सिद्ध्येदित्यन्तेन ज्ञानशक्त्युत्कर्षं प्रतिपाद्य धर्ममात्रत्वनिराकरणाय
ज्ञानशक्तिमन्तं भगवन्तं निर्दिशति, न हि प्रज्ञातव्यमित्यारभ्य, मन्तारं
विद्यादित्यन्तेन । तदनु ज्ञानक्रियाशक्त्योर्विषयभूतभूतमात्रारूपजगतो भगव-
भाष्यप्रकाशः ।
सा प्रज्ञा, या वा प्रज्ञा स प्राण इत्युपसंहृतेत्येतदन्ता उभयप्रशंसा । तदग्रिमसंदर्भ उत्क्रमण-
प्रवेशाभ्यां पुनस्तयोरेव प्रशंसा । सा च तस्मिन् पाठे, सह ह्येवास्मिन्नित्युपक्रम्य सुषुप्त्या-
दिषु सर्वेन्द्रियाणां प्राणाधीनत्वमुक्त्वा ततः प्राणस्य प्रज्ञयैक्यं प्रतिपाद्योपसंहृता । प्रसिद्ध-
पाठे तु, तस्मैव दृष्टिरेतद्विज्ञानमित्युपक्रमः । सह ह्येवास्मिन्नित्युपसंहारः । वाक्यार्थस्तू-
भयत्राप्येक एव । तस्य प्रयोजनं तु क्रियाशक्त्यपेक्षया ज्ञानशक्तेरुत्कर्षप्रतिपादनमतस्तदुत्कर्षं
वक्तुमेतावान् संदर्भः । ततोऽथ खलु प्रज्ञायामित्यादिनोत्कर्षप्रतिपादनम् । तत्रापि पाठ-
भेदः । प्रसिद्धपाठे, अथ यथास्यै प्रज्ञायै, इत्युपक्रमान्न हि प्रज्ञापेता धीः काचन सिद्धयेदि-
त्युपसंहारात् । अर्थस्त्वेक एव । तदग्रे तु पाठोऽपि समानः । तदर्थस्तु, धर्ममात्रत्वनिरा-
करणायेत्यादिना प्रतिपाद्यते । तत्र ज्ञानशक्तिमन्निर्देशो जीवसाधारण इति जीवं वारयितुं,
ता वा एता दशैव भूतमात्रा इत्यारभ्य, न ह्यन्यतरतो रूपं किंचन सिद्ध्येदित्यन्तेन क्रिया-
ज्ञानशक्त्योः परस्परसापेक्षतया स्वविषयभूतरूपात्मकजगत्साधकत्वं प्रतिपाद्य, ततो, नो एत-
रश्मिः ।
भाष्यं विवृण्वन्ति स्म तस्य प्रयोजनमित्यादि । एक एवेत्यादि । अथ बुद्धिप्राणयोः सहस्थितो-
त्क्रान्तिकथनानन्तरं प्रज्ञायै प्रज्ञायाः संबन्धीनि सर्वाणि भूतानि एकीभवन्ति भगवता तथा व्याख्या-
स्यामः । तदेकीभावमेवाह वागेवास्या इति । अस्या भगवद्रूपायाः प्रज्ञायाः एकमङ्गमंशं वाक् पूरया-
मास । तस्मै नाम तस्याः भगवद्रूपायाः प्रज्ञाया नाम इत्यव्ययं प्रकाशार्थकं परस्तात् द्वितीयमंशं
चक्षुरादिना प्रतिविहिता विषयीकृता रूपादिरूपा भूतमात्राः पूरयांबभूवुरित्यर्थः । नामरूपात्मक-
जगदुक्तम् । तत्र क्रीडामाह प्रज्ञयेत्यादि । तया वाचं समारुह्यानुप्रविश्य तया करणभूतया सर्वाणि
नामानि वक्तव्यत्वेनाप्नोति चक्षुषा सर्वाणि रूपाणि पश्यतीत्येवंरूपोऽर्थ इत्यर्थः । श्रुतयस्तु शंकरानन्द-
भाष्योपन्यास उक्ताः । प्रकृतमनुसरामः । ता वा एता इति ता वा एता दशैव भूतमात्राः अधिप्रज्ञं
दश प्रज्ञामात्राः अधिभूतं यदि भूतमात्रा न स्युः न प्रज्ञामात्राः स्युः । यद्वा प्रज्ञामात्रा न स्युर्न भूतमात्राः
स्युर्न ह्यन्यतरतो रूपं किंचन सिद्ध्येदिति । प्रतिपाद्येति । एतावता त्रेधोपास्यमुक्तमवीमांसायाम् ।
भुतर्वस्तु अधिप्रज्ञं प्रज्ञामात्राभिरित्यर्थः । एवं भूतमात्रासु दश प्रज्ञामात्रा इत्यर्थः । एवमुक्तयुग्मयोः

वमेवं प्रतिपादयन्, 'स एष प्रज्ञात्माऽऽनन्दोऽजरोऽमृतः' इत्युपसंहरति ब्रह्मधर्मैः।
अतः क्रियाज्ञानविषयरूपो भगवानवेति प्रतिपाद्य, न तावन्मात्रं ततोऽप्यधिक
इत्येकोपासनैव विहिता। तस्माज्जडजीवरूपत्वात् सर्वात्मकं ब्रह्मैवेति महावा-
क्यार्थः सिद्धः ॥ ३० ॥ १० ॥
इति प्रथमाध्याये प्रथमपादे दशममनुगमाधिकरणम् ॥ १० ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते ब्रह्मसूत्राणु-
भाष्ये प्रथमस्याध्यायस्य प्रथमः पादः ॥ १ ॥ १ ॥
भाष्यप्रकाशः।
ज्ञानेति तासां प्रज्ञायाः सकाशादभेदं प्रतिज्ञायोपपादयति । 'तद्यथा रथस्यारेषु नेमिरर्पिता
नाभावरा अर्पिता एवमेवैता भूतमात्राः प्रज्ञामात्रास्वर्पिताः प्रज्ञामात्राः प्राणेऽर्पिताः स एष
इति । तथाच, यद् यज्जनकं तत् तद्धर्मकं, यद् यद्धर्मकं तत् तदविनाभूतमिति व्याप्त्या
भूतमात्राप्रज्ञामात्रात्मकस्य सर्वस्य जगतः प्रज्ञाऽविनाभावेन तदात्मकत्वे सिद्धे तस्या अपि
स्वरूपं निर्णेतुम्, आनन्दोऽजरोऽमृत इति ब्रह्मधर्मैरुपसंहरति । अतोऽत्र प्रज्ञात्मकजीवस्वरू-
पादधिकस्य ब्रह्मणः सर्वात्मकत्वसर्वाधिकत्वज्ञानार्थमैकैवोपासना विहिता । तस्मात् साध्व-
साधुकारकतया प्राप्तस्य वैषम्यादिदोषस्यापि परिहाराद् ब्रह्म जडजीवात्मकतया सर्वोपादानत्वेन
सर्वात्मकमित्येष महावाक्यार्थः सिद्ध इत्यर्थः । तेनेदमधिकरणं पूर्वोक्तस्य सर्वस्य निगमना-
र्थमिति बोधितम् । तथाहि । पूर्वे शास्त्रारम्भे जिज्ञासोक्ता । सा सर्वदा कर्तव्या । अन्यथा
अरुन्मुखत्यागादिष्विविनाशः स्यादिति विषयवाक्यारम्भे बोधितम् । ततो जन्मादिसूत्रसिद्धं
सर्वकर्तृत्वं समन्वयसूत्रसिद्धं सर्वोपादानत्वं चोपपादितम् । तत उपसंहारे, ईक्षत्यानन्दमया-
धिकरणसिद्धोऽर्थः प्रज्ञात्मानन्दपदाभ्यां संगृह्य बोधितः । ब्रह्मधर्मोपदेशेन, लोकपालत्वादि-
बोधनेन, प्राणशब्दोक्त्या, स म आत्मेत्युपसंहारेण च यथायथं तद्धर्मोपदेशाधिकरणार्थः
रश्मिः ।
सापेक्षत्वं प्रपञ्चयन्ति यदीत्यादि । ग्राह्यव्यतिरेकेण ग्राहकं न सिद्ध्यति ग्राहकव्यतिरेकेण
ग्राह्यं न सिद्ध्यतीत्यर्थः । ग्राह्यग्राहकयोरभेदमाह नो इति । प्रज्ञामांत्राभूतमात्रारूपमित्यर्थः । तासां
भूतमात्राणाम् । तद्यथेत्यादि रयस्य स्यन्दनस्यारेषु मध्यवर्तिशलाकासु चक्रोपान्ते नेमिरर्पिता नाभौ
चक्रपिण्डिकायामरा अर्पिताः यथा तथा भूतमात्राः शब्दादयः प्रज्ञामात्रास्विन्द्रियेष्वर्पिताः प्रज्ञा-
मात्राश्च प्राणे ब्रह्मण्यर्पिताः । प्राणस्य ब्रह्मत्वमाह स एष इति । तथा चानेन दृष्टान्तेन नानात्वं
नेत्यर्थः । अतः क्रियेत्यादिभाष्यं व्याकुर्वन्ति स्म अतोत्रेत्यादिना । महावाक्येत्यादि
अवान्तरवाक्यार्थसमूहो महावाक्यार्थः । तथा च जडविशिष्टजीवेतिव्याप्तिवारणायेदननुगमाधिकरण-
मिति भावः । जीव प्राणधारणे इति धातुपाठात् । प्राणरूपजडाधारो जीवः । औपाधिकब्रह्मणोऽभिन्नः
इति । अन्यदपि प्रयोजनमाहुः तेनेत्यादि । विषयेत्यादि अरुन्मुखान् यतीन् शालावृकेभ्यः
प्रायच्छमित्यनेन । श्रुत्यर्थस्तु न रुत् रुक् मुखे येषां तान् । शालावृका अरण्यश्वानः । तथा
चावेदान्तमुखानां निन्दाश्रावणेन सर्वदा वेदान्तमुखत्वे प्राप्ते ब्रह्मजिज्ञासापि सर्वदा प्राप्तेति भावः ।
उपपादितमिति ता वा एता दशेत्यादिना निरूपितम् । तद्धर्मेत्यादि तद्धर्मोपदेशाधि-
409

" or "नियमार्थः"?
The letter is 'स्' or 'ः'?
Look at L21: "न्यायो नियमार्थस् ।" -> wait, it is 'स्' with virama? No, looks like 'स्' with a virama, or broken 'ः'?
Wait, in L22: "धर्मविषयत्वस् ।" -> look, both end in what looks like 'स्' or broken visarga!
Actually, typesetters in that press sometimes used a glyph that looks like 'स्' or it's a damaged visarga / typo 'स्'। Let's look closely:
In L21: "नियमार्थस् ।"
In L22: "धर्मविषयत्वस् ।"
Yes, it literally has 'स्' with halanta!
Wait, look at "ब्रह्मन्निरूपणं" in L21: "ब्रह्मन्निरूपणं" or "ब्रह्मनिरूपणं"?
Letters: 'ब्र' 'ह्म' 'नि' 'रू' 'प' 'णं' -> single 'न' with i-matra: "ब्रह्मनिरूपणं".

धिकरणे ब्रह्मधर्माणां मुख्यत्वसाधनेन प्रकाशाश्रयसूत्रादौ न द्वैतवारणं कृतमिति धर्मविषयत्वस् ।
Wait, "धर्मविषयत्वस्" or "धर्मविषयत्वम्"?
Look at the letter: 'त्व' followed by 'स्' or 'म्'?

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४११

भाष्यप्रकाशः।

न ह्यत्र जीवमुख्यप्राणब्रह्मणां त्रयाणामुपासनमुच्यते, येन वाक्यं भिद्येत । किं तु भोक्तुर्जीवस्य
धर्मैर्भोग्यस्य मुख्यप्राणस्य धर्मैः स्वधर्मैश्चेत्येवं त्रैविध्यादेकोपासनेव विधीयत इति,
संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते इत्यभियुक्तोक्तेः पूर्वपक्षो न युक्त इति । तेषां पौर-
स्त्योन्मेषमाह ।
तच्च वाचस्पतिमिश्रैरेव दूषितम् । एतदालोचनीयम् । कथं न वाक्यभेद इति ।
युक्तं सोमेन यजेतेत्यादौ सोमादिगुणविशिष्टयागविधानम् । तत्तद्गुणविशिष्टस्यापूर्वस्य कर्म-
णोऽप्राप्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति । अप्रा-
प्तार्थत्वात् । भावार्थस्य विधिविषयत्वनियमात् । वाक्यान्तरेभ्यश्च ब्रह्मणोवगतेः प्राप्तत्वात्तदनु-
वाद्याप्तोपासानाभावार्थो विधेयस्तस्य च भेदादिन्द्रियाद्युत्पत्तिलक्षणो वाक्यभेदोऽतिस्फुट इति भाष्य-
कृता नोद्घाटित इति ।
अत्रेदं बोध्यम् । तथाहि । अत्र हि मामेव विजानीहीत्यारभ्य, नीलं वेतीत्यन्त१-
र्येन्द्रगुणविशिष्टैकोपासना । तदनु सहोवाच प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमित्युपा-
सेत्यारभ्यैवं हि पश्याम इत्यन्ता द्वितीया प्राणगुणविशिष्टस्य । तदन्वथ खलु प्राण एव
प्रज्ञात्मेदं शरीरं परिगृह्योत्थापयति तस्मादेतदेवोक्थमुपासीतेत्यारभ्य सिद्ध्येदित्यन्ता प्रज्ञागु-
णविशिष्टस्य । तत्र पृथगुपासनाङ्गीकारे, मामेव विजानीहि स म आत्मेति विद्यादित्युपक्र-
मोपसंहारगतस्य वक्त्रात्मोपदेशस्य विरोध इति तदभावायैकवाक्यत्वस्यावश्यकत्वादुपासनात्र-
यपक्षस्त्वसंगतः । अथोपक्रमाद्यनुरोधेनावान्तरोपासनावाक्यानां तदनुवादेन प्रकारविधायक-
त्वमङ्गीकृत्यैन्द्रवाक्यत्वं चेदङ्गीक्रियते, तदा तत्रोक्तानां प्राणधर्माणां ब्रह्मधर्माणां च काल्प-
निकत्वापत्तिः पूर्वोक्तरीत्या प्रतर्दनस्य पुरुषार्थासिद्धिश्चेति तदुभयं विहायात्र ब्रह्मवाक्यत्वं

रश्मिः।

कथमेकवाक्यत्वे हेतुत्वमित्यपेक्षायामाहुः न ह्यत्रेत्यादिना । त्रैविध्येत्यादेरर्थमाहुः किं तु भोक्तु-
रित्यादि । पौरेति उपासात्रैविध्यापत्त्यादिना यावत्स यद्यप्युक्तं तथापि दूष्यतेनेनेच्छ-
विषयत्वादुक्तमपि विशेषणमिदं भगवतः शैवाचार्यस्य शमयात् । सोमादीत्यादि सोमपदस्य मतुबन्ते
लक्षणेत्यर्थः । अप्राप्तस्येतिपदेनापूर्वविधित्वं सूच्यते उपासनाया विधिविषयत्वेन तद्विशेषणस्यापि
विधिविषयत्वं मत्वा निषेधम् । यद्वा 'प्रज्ञां कुर्वीत ब्राह्मणः' इति बृहदारण्यके प्रज्ञारूपब्रह्मणस्तथात्वं
मत्वा निषेधमाह इहेत्यादिना । निषेधश्शेषत्वेनाभावार्थत्वात् । विधिश्रवणस्य गतिं नियमविधिरूपामाह
वाक्यान्तरेत्यादि । तस्येत्यादि प्राणादिधर्मैरुपासारूपस्य भावार्थस्य भेदाज्जानीहीति विद्यावृत्ति-
लक्षणनियमविधिरित्यर्थः । अत्रेदमित्यादि । दूषणे वाक्यभेदरूपे वक्ष्यमाणमप्यस्यानातिसामञ्ज-
स्यरूपं दृढं दूषणं बोध्यम् । विरोध इति प्राणस्य जडत्वादिति भावः । तदनुवादेनेति
प्राणप्रज्ञागुणानुवादेन । प्राणप्रज्ञागुणैः प्रकारौ तद्विधायकत्वं प्राणप्रज्ञागुणरूपप्रकारवदेन्द्रगुणविशिष्टो-
पासनाविधायकत्वमङ्गीकृतेत्यर्थः । पूर्वोक्तेत्यादि प्राण इति सूत्रभाष्ये न हि परमात्मनोऽन्यस्मिंस्त-
तमशक्ति परमानन्दरूपत्वात् । पापाभावश्च ब्रह्मविज्ञान एवेत्यादिना प्रोक्तरीत्या प्रतर्दनेनेन्द्रात्मैकत्वे
ब्रह्मैक्यरूपपुरुषार्थासिद्धेश्चेत्यर्थः । तदुभयमिति इन्द्रवाक्यत्वं प्रतर्दनवाक्यत्वं चेत्युभयम् । यद्वा


१. इन्द्र आत्मा ।
411

४१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १० सू० ३०

भाष्यप्रकाशः ।
सिद्धान्तितम् । तथा सति त्रितयपक्षस्य प्रागेव निरस्तत्वाद् विध्यात्मस्याङ्गीकारे विरोधोक्तेर्वै-
यर्थ्यप्रसङ्गाच्च प्रकारत्रयविशिष्टैकोपासनाविधिरेव सिद्ध्यतीति वाक्यभेदस्फुटत्वं कथमित्ये-
वालोचनीयं, न तु तदभावसमर्थनमालोचनीयम् । किंच । भाष्यकृतापि ब्रह्म एवैतदुपा-
धिद्वयधर्मेण स्वधर्मेण चैकमुपासनं त्रिविधं विवक्षितमिति तन्मतसिद्धमुक्तमतो व्याख्येय-
विरोधोऽपीति ।
नन्वेवमस्य प्राचीनपक्षस्य निर्दुष्टत्वे सिद्धान्तिना कुतोऽयं नादृत आपत्त्या च कुतो
व्याख्यातमिति चेन्न । त्रैविध्यादित्यस्य ल्यब्लोपपञ्चमीत्वेनापचेरार्थिकतयाऽध्याहार्यत्वाभावेन
व्याख्याने दोषाभावात् । सिद्धान्ते तेषां धर्माणां जीवीयत्वादिनैवा मानस्यैव भ्रान्तित्वबोध-
नेन ब्रह्मधर्मत्वस्यैव निर्णीततया प्राचीनप्रतिपन्नत्रैविध्यसाम्याभावादिति बुध्यस्व ।
माध्वास्तु, ऐतरेयोक्तं विश्वामित्रेन्द्रसंवादं विषयवाक्यत्वेनोदाहरन्ति ॥ ३० ॥ १० ॥
इति दशममनुगमाधिकरणम् ॥ १० ॥
इति श्रीमद्वल्लभाचार्यचरणनलचन्द्रकिरणनिवारितहृदयध्वान्तेन
पुरुषोत्तमेन कृते भाष्यप्रकाशे प्रथमाध्यायस्य प्रथमः पादः ॥ १ ॥ १ ॥
रश्मिः ।
जीवं प्राणं चेत्युभयम् । यदुक्तम् ।
'युक्तिभिरतिशिथिलाभिः समादधानो दृढान् दोषान् ।
वाचस्पतिरपि भाष्ये व्याख्याव्याजेन दूषणं म्रुते' ॥ इति ।
तत्स्फुटं दर्शयन्ति किं चेत्यादि । तन्मतेत्यादि अणुभाष्ये द्वितीयव्याख्यानेऽथ चेत्यादिना
वृत्तिकृन्मतानुसारेण व्याख्यातमिति रामानुजमतसिद्धमुक्तम् । अर्थाद्वृत्तिकृन्मतानुसारेण व्याख्या-
नादिदमपि तदेवेति भावः । विरोध इति । यद्यपि वृत्तिकृन्मतानुसारेणात्र नोपासात्रैविध्या-
दाश्रितत्वादिह तद्योगादित्यस्यामन्योऽर्थ इत्यादिना वृत्तिकृन्मतेन व्याख्यानान्तरमचीकॢपन् शंकराचा-
र्यास्तट्टीकाकारा इदमेकदेशिमतमप्रामाणिकमित्युक्त्वा नात्रोपासात्रयविशिष्टब्रह्मविधिः । आरुण्याद्यनेक-
गुणविशिष्टाम्रासक्रयववत् सिद्धस्य ब्रह्मणो विध्ययोगात् वाक्यभेदप्रसङ्गाच्च । न च नानाधर्मविशिष्ट-
मेकमुपासनं विधीयते । एवंविधवाक्यस्यात्राश्रवणात् । नापि मामायुरमृतमित्युपास्वेत्यत्र मामिति
जीवः, आयुरिति प्राणः, अमृतमिति ब्रह्म, इति स्वस्वधर्मविशिष्टमुपासनं विधीयते इति शक्यम् ।
प्रमाश्रुतेः । प्राणो वामृतमिति प्राणस्यैवामृतत्वकथनाचेति प्रथमव्याख्यानमेवमश्रुतमिति दूषितम् ।
तथापि द्वितीयस्य पूर्वपेक्षयाऽवसरादित्याङ्गाष्ये चास्य पक्षस्य नैर्बल्यासूचनाच्च टीकाकारोक्तमेवा-
संगतमित्याशयः । ल्यब्लोपेत्यादि तथा चोपसात्रैविध्यादित्यस्योपासात्रैविध्यमापद्येत्यर्थः ।
यथा प्रासादात्प्रेक्षते इत्यत्र प्रासादमध्यारुह्येत्यर्थः । एवं च यदि ब्रह्मजीवमुख्यप्राणानां त्रयाणामपि
सत्वमत्तं तत्रोच्येत तदोपासात्रैविध्यमापद्य वाक्यभेदो दूषणत्वेनोच्येत इत्यर्थः । ननु तथापि
वाक्यभेदप्रसङ्गस्त्वस्याहार्यत्वमेवेति दोषतादवस्थ्यं तत्राहुः सिद्धान्त इत्यादिना । प्राचीन-
प्रतिपन्नेति तद्व्याख्याने समन्वयस्य अध्याहार्यस्य जीवप्राणयोः सत्त्वेनातिव्याप्तिरतोयमर्थ इति
भावः । उदाहरन्तीति ते देवाः प्राणयन्तः स एषोऽसुः स एष प्राणः प्राणकृत्त्व इत्येव विद्यातद्वं

१. यत्र प्रांगहस्तः 'तस्मिन् प्राणः पञ्चधा संनिवेशन' इति भुजङ्गपाद ।
412

भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
रश्मिः ।
प्राणोधितिष्ठतीत्याद्यनुगमादत्रापि प्राणो विष्णुरेव ।
'विष्णुमेवानयन् देवा विष्णुभूतिमुपासते ।
स एव सर्व वेदोक्तसारधो देह उच्यते' ॥ इति स्कान्दे ।
इतिश्रीमदिति । अणुभाष्येति अणुभ्यो द्वा सुपर्णेति श्रुत्युक्तेभ्यो भाष्यमिति चतुर्थीसमासः
तस्य प्रकाश इत्यर्थः ।
'इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञमिति तद्विदः ॥
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥
तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् ।
स च यो यत्प्रभावश्च तत्समासेन मे शृणु ॥
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् ।
ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितम्' ॥
इतिगीतात्रयोदशाध्यायवाक्येभ्यः ॥ ३० ॥ १० ॥
इति दशमाधिकरणम् ॥ १० ॥
इति श्रीविठ्ठलेश्वरैश्वर्यानिरस्तसमस्तान्तरायेण श्रीगोविन्दरायपौत्रेण
संपूर्णवेज्ञा विट्ठलरायभ्रात्रीयगोकुलोत्सवात्मजगोपेश्वरेण कृते
भाष्यप्रकाशरश्मौ प्रथमाध्यायस्य प्रथमः पादः
संपूर्णतामगमत् ।
१. स एव प्राण इत्युक्तः । २. भाष्यम् ।
413

The provided image is completely blank and contains no text to transcribe.

श्रीकृष्णाय नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
शुद्धाद्वैतब्रह्मवादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि-
श्रीमद्वल्लभाचार्यचरणप्रणीतम् ।
दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत-
भाष्यप्रकाशसंपूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वर-
जिचरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् ।
प्रथमाध्यायस्य द्वितीयपादः
'भगवद्धर्मपरायणसद्गतशेठिगोवर्धनदास सुन्दरदास' इत्यस्य पुष्टिमार्गीय-
संस्कृतसाहित्यसमुद्धारार्थं निर्विष्टद्रव्यसंग्रहतः 'प्राप्तभगवत्पद-
मूलचन्द्र तुलसीदास तेलीवाला, बी. ए., एल्एल्. बी.,
वकील, हायकोर्ट' इत्येतेषां सुहृद्भिः
संशोध्य 'निर्णयसागर' मुद्रणालये
मुद्रयित्वा प्रकटीकृतम् ।
श्रीवल्लभाब्दाः ४६०. संवत् १९९५.
श्रीमदाचार्यचरणप्रादुर्भावोत्सवः
मूल्यं रूपकत्रयम् ।

Printed by Ramchandra Yesu Shedge, at the ‘Nirnaya Sagar’ Press,
26-28, Kolbhat Street, Bombay 2.
Published by Dhirajlal Vrajdas Sanklia, B. A., LL. B., Advocate
at Khakhar Building, C. P. Tank, Bombay 4.

श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ प्रथमोऽध्यायः ।
द्वितीयः पादः ।
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ (१।२।१)
समन्वये प्रथमेऽध्याये सर्वेषां वेदान्तानां ब्रह्मणि समन्वयो वक्तव्यः । तत्रो-
भाष्यप्रकाशः ।
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ अथ द्वितीयपादं व्याचिख्यासवः पादानामेककार्य-
स्वरूपां परस्परसंगतिं क्रमनियामिकामवसररूपां च संगतिं प्रतिपादयितुं व्याख्येयाध्यायार्थ-
कथनपूर्वकं पूर्वपादसिद्धः सर्व एवार्थः संक्षेपेण वक्तव्योऽन्यथा मन्दमतीनां पूर्वोक्तानवधारणेन
वक्ष्यमाणार्थे संदेहः स्यादित्यतस्तमाहुः समन्वयेत्यारभ्य, संदेहो निवारित इत्यन्तेन ।
समन्वये सर्ववेदान्तसमन्वयप्रतिपादकत्वेन समन्वयाख्यया प्रसिद्धे प्रथमेऽध्याये उक्तविधः
रश्मिः ।
सर्वत्र प्रसिद्धोपदेशात् ॥ १ ॥ इदानीं द्वितीयपादभाष्यं व्याचिख्यासवः सूत्रं मङ्ग-
लत्वेन स्फुटं व्याख्यातुमाहुः सर्वत्रेत्यादि । अथ इति अयमानन्तर्ये । एककार्येत्यादि
अत्रैकस्य कारणस्य प्रथमचरणरूपस्य कार्यत्वमन्तर्यामिप्रतिपादकेऽस्मिन् पादेऽन्यत्र चेति प्रथमस्य
द्वितीयादिभिरेककार्यत्वमेवं चतुर्णामपि पादानां परस्परमेककार्यत्वमुन्नेयम् । तथा हि । शब्दसं-
देहनिवारणस्य प्रथमपादकृतस्य द्वितीयपादादिकरिष्यमाणार्थसंदेहनिवारणां कार्यत्वमिति ।
अवसरेत्यादि प्रतिबन्धकीभूतजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसरः । स च कार्यप्रति-
पादकानां 'यतो वा इमानि' इत्यादीनां लक्षणार्थं भगवतो व्यासादेरन्तर्यामिप्रतिपादकापेक्षया
प्राथमिकजिज्ञासाविषयत्वकथनेन तेषां ब्रह्मसमन्वयप्रतिपादनानन्तरं प्रतिबन्धकीभूतजिज्ञासानिवृत्तौ
सत्यां जीवपुरस्कारेण कः समन्वय आधेयप्रतिपादकानामवश्यं वक्तव्य इति जिज्ञासया जीवपुरस्कारेण
प्रतिपादकानां निरूपणादवसररूपामित्यर्थः । संक्षेपेण पूर्वपादार्थकथने प्रयोजनमाहुः अन्यथेत्या-
दिना । वक्ष्यमाणार्थ इति । अयमर्थः । पूर्वपादे इदमित्थतया प्रतिपाद्यतायाव ईक्षत्यधिकरण
उक्तः । अग्रे इदमित्थतया प्रतिपाद्यत्वाभाववदन्येषु बुद्धिनिवेशस्तौकर्याभावात् सर्वत्र प्रसिद्धसोपदेश
उक्तः, वेदान्तानां शब्दत्वात् । प्रकर्षपदार्थ इदमित्थतया प्रतिपाद्यत्वं तेन सिद्धस्य न तु केनाप्यंशेन
ज्ञाप्यस्य । उपदेशो मननं उपदिश्यतेनेन मननेनेत्युपदेशः । करणे घञ् । 'उपदेश आयोच्चारणम्'
१. आधेय, कार्य, । २. आधेय ।
५१ ब्र० सू० र०

४१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १

भाष्यप्रकाशः ।
समन्वय एकार्थप्रतिपादकत्वरूपो वक्तव्यः । परप्राप्तिरूपफलसाधनाय तत्साधनीभूतब्रह्मज्ञानो-
पकाराय चावश्यं वाच्यः । न चानन्तेष्वनन्तशाखेषु वेदेषूपनिषद्भागरूपाणां वेदान्तानामप्यनन्त-
त्वादुक्तरीतिकसमन्वयोक्तेरशक्यत्वमसंगतत्वं वा शङ्क्यम् । प्रकारविशेषेण सर्वोपपत्तेरित्याशयेनाहुः
तन्नेत्यादि । वक्तव्ये सर्वसमन्वये, अन्तस्तद्धर्माधिकरणादिविषयवाक्यभूतानामुद्गीथाद्युपासना-
रश्मिः ।
इत्यत्र मनोरमायाम् । एवं च धर्मित्वेन ज्ञानविचारः पूर्वपादे वृत्तः । अधुना तु धर्मत्वेन । 'वेदस्य
विद्यमानत्वान् मर्यादापि व्यवस्थिता' इतिवाक्यात्, अथातो धर्मजिज्ञासेत्युक्तत्वात् । तत्र धर्मः
महतः सृष्टिव्यतिरिक्ते विराजादिः ।
'प्रथमो महतः स्रष्टा द्वितीयस्त्वण्डसंस्थितः ।
तृतीयः सर्वभूतस्थः यज्ज्ञात्वा मुच्यते बुधः' ॥
इति वाक्यम् । किंच मुण्डकत्रये अक्षराद्युक्तं तदनु प्रश्ने परब्रह्मान्वेषकरणं द्वितीयस्याम् ।
तृतीयस्यां ब्रह्मविद्योपनिषदि ।
'ब्रह्मविद्यां प्रवक्ष्यामि सर्वज्ञानमनुत्तमाम् ।
यत्रोत्पत्तिं लयं चैव ब्रह्मविष्णुमहेश्वरात्' ॥ इति श्रुत्याम्
'सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तै-
र्युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्यादये हरिविरिञ्चिहरेतिसंज्ञाः
श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः' ॥
इति वाक्योपबृंहितायां व्याहृति ब्रह्म प्रसिद्धं तस्य 'मननाद्धर्मज्ञानविचार इति वक्ष्यमाणेऽर्थे
संदेहो धर्मिनिरूपणं धर्मनिरूपणं वेति । धर्मिनिरूपणोपक्रमात् । तर्हि अस्तु धर्मिनिरूपणम् । मैवं ।
ब्रह्मविद्यात्वेनाक्षरस्य गुणत्रयविशिष्टस्यापि निरूपणे बाधकाभावात् पदशक्तेः प्राधान्यात् । वेदो-
पाङ्गत्वेन मीमांसायाः । वेदद्वारा मर्यादायां धर्मनिरूपणरूपायां पर्यवसानाच्च । न चैवं पूर्वपाद-
मीमांसातिरिक्तममीमांसाया हेयत्वापत्तिः, प्रकाशाश्रमन्यायाद्धर्माणां धर्म्यभेदात् । अधिकारिणां मर्या-
दायां स्थितेरावश्यकत्वाच्च । विद्वन्मण्डने तथैवोक्तेः । अतो ज्ञानधर्मविचारः । एवं च प्रथमपादा-
ग्रेतनपादेषु धर्मविचारो वा धर्मिविचारो वा सर्वत्र प्रसिद्धपदादुपक्रमाच्च । परप्राप्तीति पर
एकार्थः अत एव जीवप्राणमुख्यसूत्रमापत्या व्याख्यातमन्यथा त्रयोर्थाः स्युरिति । तत्साधनी-
त्यादि परप्राप्तिरूपफलसाधनीभूतं यद्ब्रह्मज्ञानं तदुपकारः फलजननयोग्यता स च व्यापारेण स्यात् ।
तादृशभक्त्यर्थं तदङ्गद्वयं माहात्म्यज्ञानं ब्रह्मात्मैक्यज्ञानं च तत्र समन्वये पूर्वाह्नं सर्वत्र वाक्यान्वया-
धिकरणादौ ब्रह्मात्मैक्यं च प्रतिपाद्यते तस्मा इत्यर्थः । 'ब्रह्मविदाप्नोति परम्' 'भक्त्या जानाति चाव्य-
यम्' इति श्रुतिभ्याम् । 'नाहं वेदैः' 'भक्त्यात्वनन्यया शक्य' इति ।
'भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत् कूटस्थो रतिरात्मन्यथो भवेत्' ॥
इति 'अनन्ता वै वेदाः' इति श्रुतेराह अनन्तेष्विति । प्रकारेत्यादि यत्रैषां न्यायानां
१. ब्रह्म । २. ज्ञानव्यापारीभूतभक्त्यर्थम् ।
416

ङ्गीथाद्युपासनावाक्यानां मुख्यवाक्येषु फलोपकार्यङ्गत्वम् । ब्रह्मवाक्यानां पुन-
र्निःसंदिग्धानां समन्वयः स्वतः सिद्धः । संदिग्धानि द्विविधानि शब्दतोऽर्थतश्च ।

भाष्यप्रकाशः ।
वाक्यानां मुख्यवाक्येषु फलसंबन्धबोधकेषु सर्वविधकारणताप्रतिपादकवाक्येषु फलोपकार्यङ्ग-
त्वम् । तत्तदुपासनया तेन तेन रूपेण तत्तत्फलप्राप्तौ महामाहात्म्यज्ञानस्यात्मत्वस्फूर्त्या निरुप-
धिप्रेम्णश्च सिद्ध्या तस्य साधनस्य भक्तिरूपत्वसिद्धौ विवक्षितपरप्राप्तिरूपं फलं भवतीति तेषां
तदङ्गत्वम् । तथा चानया रीत्याऽन्येषामनुक्तानामप्युपासनावाक्यानां प्रयोजनैक्यात् समन्वयः
सिध्यतीति न पूर्वोक्तो दोष इत्यर्थः । एवमन्येष्वपि बोध्य इत्याशयेनाहुः ब्रह्मवाक्याना-
मित्यादि । पूर्वं प्रतिपाद्यविषयभेदेन संदिग्धानि चतुर्विधान्युक्तान्यत्र तु तेष्वेव शब्दार्थभेदेन

रश्मिः ।
एकघटितमाधिकशतनामप्रसक्तिस्तत्र स्थले प्रकारविशेष (एवमारोपापवादसंगतिस्थले लक्ष्यलक्षणभाव-
एककार्यत्वं वा संगतिप्रकारविशेषः) इत्यर्थः । स चाग्रे वाच्यः । मुख्यवाक्येषु लक्ष्यत्वं यत्तन्निरूपित-
लक्षणत्वावच्छिन्नं विशेषणमाहुः फलेत्यादि । मुख्यत्वं फलसंबन्धित्वं पूर्वतन्त्रे । 'ब्रह्मविदाप्नोति परम्'
इत्यादिषु वेदान्तत्वेन वेदेभ्यः पश्चादुपयुक्तेष्वर्थतः संदेहमग्रं वारयन्ति स्म सर्वेत्यादिना । सर्वा
विधाः समवायित्वादयः । तेन कारणैः फलसंबंधो न त्वधिकारिभिः 'ज्योतिष्टोमेन स्वर्गकामो यजेत'
इत्यादाविति बोधितम् । ब्रह्मविदित्पत्र विशब्दे संदेहो ज्ञानप्रतिपादको वा भक्तिद्वार कज्ञानप्रतिपा-
दको वेति । आकाशस्तल्लिङ्गादित्यधिकरणे आकाशशब्दो ब्रह्मणि प्रयुक्तो भौतिकाकाशे वेति । अत्र
फलं माहात्म्यप्रतिपादनस्याधिदैविकचित्तशुद्धिद्वारा प्रेमा तस्य संबन्धान्मुख्यवाक्यत्वमवान्तरं फलं
ब्रह्मविदेत्युक्तम् । एतत्स्फुटीकुर्वन्ति स्म तत्तदित्यादि । तेनतेनेत्यादि तं परमात्मानं यथा
यथोपासते तद्वैतान् भूत्वावती¹तिश्रुतेः । 'भगवान्नेव हि फलं स ययाविर्भवेद् भुवि' इति
तत्तत्फलप्राप्तौ ।

'देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ' ॥

इति महामाहात्म्यज्ञानस्य निरुपध्यंशे कारणत्वसिद्ध्यात्मत्वस्फूर्तिस्तत्त्वमस्यादिवाक्येन तत्क-
रणको निरुपधिभित्तिशुद्धानन्यार्थ एकात्मविषयः प्रेमा तस्य सिद्ध्या च तस्य परायणस्य फलस्य
भक्तिरूपस्य साधनस्य तात्पर्यवृत्त्या ज्ञानविषयस्य सिद्धौ व्यापारस्योल्लेखोऽयम् । न पूर्वोक्त इति
समन्वयोक्तेरशक्यत्वरूपोऽसंगतत्वरूपश्च दोषो न । प्रेमरूपस्य फलोपकार्यङ्गत्वं महामाहात्म्य-
ज्ञानसेत्यनया रीत्येत्यर्थः । फलोपकार्यङ्गत्वात् अनुक्तानामप्युपासनावाक्यानां प्रयोजनैक्याच्च ।
तेषामुपासनावाक्योक्तानां क्रमप्राप्तसाधनानां ब्रह्मविदेत्युक्तफलोपकार्यङ्गत्वमित्यर्थः । आत्मनैक्य-
ज्ञानस्य भक्तिसाधनत्वाविशेषेपि हि 'आवृत्तिरसकृदुपदेशात्', इति न्यायेनावृत्यर्थ महात्म्यज्ञानं
स्मरणात्मकं तस्य सिद्धिमात्रमुक्तम् । पूर्वोक्त इत्यादि आभासोक्तदोषः । भाष्ये । निःसंदिग्धानां
'सत्यं ज्ञानमनन्तं ब्रह्म' 'सत्यं विज्ञानमानन्दं ब्रह्म' इत्यादीनाम् । प्रकृते । पूर्वमित्यादि ऐश्वर्य-


१. तथैव भवतीतिं ।

४१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० १ सू० १
तदर्थं चैतद्विचारितम् । ब्रह्मणि कव्यवहारोऽस्ति कश्चिन्न वेति । तत्र प्रथमसूत्र
एव व्यवहारः स्थापितः । 'यतो वाचो निवर्तन्ते' इत्यादीनां विशेषेणेदमित्थतया
निरूपणनिषेधनपरत्वम् । एवमेव कार्यसिद्धेः । अधीतानां ब्रह्मवाक्यानां चतु-
र्लक्षण्य ब्रह्मपरत्वे सिद्धे श्रवणं सिध्यति । श्रुतस्य कालान्तरेऽप्यसंभावनाविप-
रीतभावनानिवृत्त्यर्थं पूर्वस्थितानामङ्गानामनपेक्षितानामुद्वापेनान्येषामपेक्षिताना-
मावापेन तस्यैवार्थस्य निर्धारणे मननं भवति ।
भाष्यप्रकाशः ।
संदिग्वत्वमाहुः संदिग्धानीत्यादि । तथाचैवं वाक्यविचारेणानुक्तानामपि समन्वयसिद्धि-
रित्यर्थः । एवमध्यायार्थस्य सर्वोपयोगित्वमुक्त्वा पादार्थस्य वक्तुं तत्रत्याधिकरणानां प्रयोजनमर्थं
च वदन्तः पूर्वं प्रथमस्या