अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 492, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ४०३
ब्रह्मवादे गुणानङ्गीकाराच्च । तस्मादुक्तमुक्तं शास्त्रदृष्ट्या तूपदेश इति ॥ २९ ॥
भाष्यप्रकाशः।
ब्रह्मवादे ब्रह्मणः सगुणनिर्गुणभावाभावेनाधिकारिभेदाभावात् तथागत्यादिनियमकथनमप्रामा-
णिकमेव । सांख्यप्रतिपन्नानां गुणानां व्यासेनानङ्गीकारादपि तथेत्यसंगतत्वान्नाद्रियते
इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । तस्मादिति अभ्यासबाहुल्येन ब्रह्मावेशात् ॥ २९ ॥
रश्मिः ।
'अभेदोऽनुपाधित्वाज्जगत्प्रत्ययासितः ।
सर्वाधारत्वतस्तावच्छक्तित्त्वान्नास बाधनम्' ॥ इति ।
न चाथ मायाशबलितं ब्रह्मासीदिति श्रुतिविरोध इति शङ्क्यं मायाशब्दस्येन्द्रियपरत्वस्य निबन्धे
व्यवस्थापनात् । अनङ्गीकारादिति ब्रह्मजिज्ञासां प्रतिज्ञाय केवलादेव जन्माद्यस्य यतः इति वदता
रचनानुपपत्ते