अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
२६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
स्तुत्या मयडर्थत्वप्रकृतिस्तु तुल्या। पुनर्वचनेनाभ्यासेन प्रवाहाद् भेदे साधिते
भाष्यप्रकाशः।
सुवचत्वात् । तथा सति न तेन वैलक्षण्यसिद्धिर्वैलक्षण्यसिद्धावपि न तेन परमात्मत्वसिद्धिरित्यत
आहुः मयडर्थेत्यादि । मयट् प्रत्ययः । अर्थत्वमर्थान्तरत्वम् । ताभ्यां सहिता प्रकृतिर्मयडर्थत्व-
प्रकृतिः शब्दान्तररूपा । सा तुल्या व्यवस्थितविकल्पाश्रयणेऽपि पदार्थान्तरपक्षे परमात्मपक्षे
च साधारणा । यद्वा स्तुत्या तुल्या यादृशी स्तुतिस्तादृशमर्थान्तरं बोधयति । अतो न
तयाऽवान्तरप्रायपाटेन वा विकारार्थग्रहो युज्यते । तदपेक्षयाऽसाधारणस्य लैङ्गिकाभ्यासस्यैव
ज्यायस्त्वादित्यर्थः । तेन सिद्धमाहुः पुनरित्यादि । किम्ः पुनर्वचनेन बोधितो य आर्थिकोऽभ्या-
सस्तेन मयडर्थान्तरयोः प्रवाहाद् भेदे आनन्दमयस्य साधिते तस्य ब्रह्मत्वं सिद्धमित्यर्थः ।
रश्मिः ।
ननूक्तं पूर्वस्माद्विलक्षणोत्राभ्यास इति तत्राहुः वैलक्षण्यसिद्धावपीति । तेनेति सिद्धेन वैलक्ष-
ण्येन दुर्बलेन लिङ्गेन वेत्यर्थः । अर्थान्तरत्वमिति प्राचुर्यविकारान्यतरत्वम् । शब्दान्तररूपेति
उभयोरेकतरानन्दमयशब्दान्तररूपा । साधारणेति स्तुत्येत्यत्रान्वेति । तथा च प्रायपाठोपि स्तुत्या
तेन साधारणेत्यर्थः । तथा चानन्दमयशब्दमहिम्नैव परमात्मत्वसिद्धिरित्याशयः । मुख्ये प्राचुर्यार्थे
संभवति गौणविकारार्थानौचित्यात् । इदानीं प्रायपाठविरोधं परिहरन्तः स्तुत्येति पदमत्र योजयन्तो-
र्हार्थकप्रत्ययान्त तुलू उन्मान इति धातुनिष्पन्नस्य तुल्येत्यस्योन्मातुं योग्येति यौगिकार्थं हृदिकृत्य
पक्षान्तरमाहुः यद्वेति । अत इत्यादि सर्वोत्कृष्टस्तुत्यानन्दमयस्यान्नमयादिभ्य उत्कर्षात् न
तया स्तुतेत्यर्थः । लैङ्गिकेति आर्थिकाभ्यासस्येत्यर्थः । केचित्तु मयटोर्थो वाच्यं प्राचुर्यं पूर्वापेक्ष-
याप्याधिक्यं यत्र प्राचुर्यविशिष्टानन्दे स मयडर्थः तस्य भावो मयडर्थत्वं, प्राचुर्यं विशेषणीभूतं
तस्य या प्रकृतिरानन्दशब्दात्मिका सा त्वानन्दमयशब्दनिष्ठा स्तुत्या कृत्वा प्रदर्श्यमानवाक्यनिष्ठानन्द-
शब्देनैकार्थवाचकत्वेन तुल्या । प्रदर्श्यमानवाक्ये स्तुतिर्वाक्यार्थः । आनन्दमयशब्दे तु प्रत्ययार्थ
इति तुल्यत्वमिति व्याचक्षते । (अस्मिन् पक्षे स्तुत्या इति षष्ठ्यन्तम् । निरूपितत्वं षष्ठ्यर्थः ।)
अन्ये तु को ह्येवान्यादिति श्रुतौ आनन्दस्याभ्यासः न त्वानन्दमयस्येत्यभ्यासाभावादानन्दमयो न
ब्रह्मेत्याशङ्कायामाहुः अर्थतोभ्यास इति । शब्दत आनन्दस्याभ्यासेप्यर्थतः आनन्दमयस्यैवाभ्यास
इत्यर्थः। अर्थतः कथमभ्यास इत्याशङ्कायामाहुः स्तुत्या मयडर्थत्वमिति । एवं सानुस्वारपाठोङ्गीकृतः।
स्तुत्या 'को ह्येवान्यात्' इत्यादिरूपया । मयडर्थत्वं मयटोर्थः प्राचुर्यं यस्मिन् स मयडर्थ इति
व्यधिकरणपदबहुव्रीहिणा मयडर्थ इत्यस्यानन्दमय इत्यर्थः । तथा च को ह्येवान्यात् इत्यादि-
स्तुत्यानन्दस्य मयडर्थत्वमानन्दमयत्वमित्यर्थः । स्तुतौ प्राचुर्यस्य प्रयोजकत्वात् । प्रभवो धनादिमन्त
एव स्तूयमाना दृश्यन्ते इति । अतोत्र स्तुत्या प्राचुर्यं ज्ञाप्यते । एवं सति 'को ह्येवान्यात्' इत्यत्र
स्तूयमान आनन्द एवेत्यानन्दप्रचुरस्यानन्दमयस्यैवाभ्यास इति भावः । प्रकृतिस्तु तुल्येति
आनन्दशब्दरूपेत्यर्थः । आनन्दमयपदे मयटा प्राचुर्यं बोध्यते को ह्येवान्यादित्यादौ आनन्दस्तुत्या
प्राचुर्यं बोध्यते । आनन्दशब्दस्त्वानन्दशब्दे आनन्दमयशब्दे च तुल्य इति भाव इत्याहुः तदेतद्भाष्ये
प्राचुर्येण प्रस्तुतेर्येनुशासिते मयटोकेकदेशं प्राचुर्यमादाय वक्ष्यमाणसूत्रानुसारेण व्याख्यातव्यम् । मयड-
र्थत्वेत्यादेर्भाष्यस्यानुमानपक्षेर्थः । नन्वानन्दमयः परमात्मा अभ्यासात् इडादियागान्तरवत् । एवं
सूत्रे पक्षहेतुनिर्देशापत्त्या वह्निमान् धूमादितिवत् साध्यहेतुनिर्देशस्य प्रसिद्धस्य त्यागोतः परमात्मानन्द-
266
ब्रह्मत्वम् । न तु द्वैतापत्तिः । उत्तरस्य बाधकत्वात् । तस्माद् आनन्दमयं ब्रह्मैव ।
भाष्यप्रकाशः ।
नन्वानन्दमयस्य ब्रह्मत्वे द्वैतापत्तिः । 'तस्य प्रियमेव शिरः' इत्यादिनिर्बन्धषष्ठ्या तस्य भेदबोधनात् ।
तथा सति ब्रह्मत्वस्याप्यसिद्धिः । नेह नानास्तीत्यादौ ब्रह्मणि भेदनिषेधादित्याशङ्कायामाहुः न
त्वित्यादि । उत्तरस्यैतदभ्यासवाक्यादग्रिमस्य 'यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य
भयं भवति' इत्यन्तरशब्दवाच्यभेदकृतिनिन्दावाक्यस्य गहोः शिर इत्यादिवदभेदषष्ठीसाधकत्वान्न
द्वयापत्तिरित्यर्थः । सिद्धमाहुः तस्मादित्यादि । चोद्याभावात् तथेत्यर्थः । उपचयापचयशङ्किता-
ब्रह्मत्वपरिहारस्तु गुणोपसंहारपादे प्रियशिरस्त्वादिसूत्रे आचार्येण विधेय एवेति न चोद्यावसर इति
बोधयितुमेवकारः । एवमस्मिन् वर्णकेऽन्नमयादी
३६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
अथवा 'स नैव रेमे, तस्मादेकाकी न रमते स द्वितीयमैच्छत्, स
हैतावानास' इत्यादिश्रुतिभिरेष उ एवेतिश्रुतेश्च तानि तानि साधनानि कार-
यित्वा तानि तानि फलानि ददद् भगवान् स्वक्रीडार्थमेव जगद्रूपेणाविर्भूय
क्रीडतीति वैदिकैर्निर्णयते । एतदेव काण्डद्वयेऽपि प्रतिपाद्यते ।
भाष्यप्रकाशः ।
सांप्रतं तु प्रभुचरणैरखण्डब्रह्मवादेन पूर्वं सिद्धं कार्यस्यापि ब्रह्मत्वमनूद्यानन्दस्य साधन-
शेषत्वेऽपि रूपभेदेन फलत्वानपायाज्ज्ञेयकोटावानन्दं निवेश्यापि तेभ्य आनन्दमयभेदः 'तस्यैष एव
शारीर आत्मा' इत्यादिवाक्याभ्यासाद् वर्णकान्तरेणाधिदैविकवादमाश्रित्य साध्यते अथवेत्यादि ।
तदर्थं पूर्वं सर्वश्रुतीनां ब्रह्मपरत्वेनैकवाक्यत्वाय प्रतीयमानस्य द्वैतस्य बाध्यताप्रकारबोधनाय च
सृष्टिप्रक्रियासारणपूर्वकमखण्डब्रह्मवादस्वरूपं सप्रमाणं निरूप्यते स वै नैवेत्यादि । वैदिकैरिति
प्राचीनौपनिषदैः । एतेन संमतिरपि शिष्टानामुक्ता । एतेन सृष्टीच्छायां प्रयोजिका क्रीडेच्छेति
बोधितम् । एतदेव काण्डद्वयेऽपि प्रतिपाद्यत इति 'शाब्दस्य हि ब्रह्मण एष पन्थाः' इत्यनेन
रश्मिः ।
इति श्लोकेन भाष्यसमाप्तौ च—
'जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् ।
तदन्यदिति ये प्राहुरसुरांस्तानहो बुधाः' ॥
इति श्लोकेन च तथैवोक्तत्वात् । भक्तिरेव साधनं श्रौतस्मार्तं च प्रमेयमेकमेव 'स्मृतेश्च' इति
सूत्रेण श्रौतस्याप्यर्थस्य व्यासपादैः स्मृत्योपबृंहणादित्येतावान् मतभेदः । अन्यत्समानमित्याशयेन
भाष्यं भिन्दन्ति सांप्रतमित्यादि । प्रभुचरणैरिति श्रीमद्विट्ठलेश्वरदीक्षितैरित्यर्थः । तेन पूर्ववर्ण-
कस्यापि मुख्यत्वं न तु तत्र किमप्यस्वारस्यमिति ध्वनितम् । एवं तत्र तत्र मतभेदो द्रष्टव्यः । प्राकर-
णिकग्रन्थनिबन्धाद्येकवाक्यतायां विचार्यमाणायां तु एकमेव मतमिति वस्तुस्थितिरस्त्वेवेति विभावनीयं
महद्भिः । 'पितृप्रवर्तितपथप्रचारसुविचारकः' इति नामरत्नग्रन्थनाम्नः प्रभूणाम् । अत एव मिलि-
तयोरेवाचार्यत्वम् । अखण्डब्रह्मवादेनेति नात्राखण्डब्रह्मवादो 'अखण्डं कृष्णवत्सर्वं' इति
निबन्धोक्तः, तस्य ज्ञानमार्गीयत्वात् 'भजनं सर्वरूपेषु' इत्यस्य तत्वदीपे तथाकथनात् । किं तु
लीलासामग्रीसहितमेकखण्डं ब्रह्मेति परमभागवतेन वादेनेत्यर्थः । एतत्स्वरूपं द्युभ्वाद्यायतनाधिकरणे
'प्रकरणात्' इति सूत्रे वक्ष्यति । रूपभेदेनेति गणितत्वागणितत्वकृतेनेत्यर्थः । द्वैतस्येति
संशयरूपस्य संख्यारूपस्य वा बाध्यताप्रकारसूचनाय सर्वस्य ब्रह्मत्वबोधनेनेत्यर्थः । निरूप्यत इति ।
यत्तु शंकरपादा अतः परस्य ग्रन्थस्य किमुत्थानमुच्यते द्विरूपं हि ब्रह्मावगम्यते इत्यादिना सोपाधिक-
निरुपाधिकभेदेन श्रुतिव्यवस्थामाहुः तत्तात्त्विकत्वातात्त्विकत्वाभ्यां द्वेधा भेदस्य विद्वन्मण्डने निपुणतरं
खण्डनात् । ग्रन्थोत्थाने प्रकारान्तरमुपदिशद्भिरिति शेषः । स वै नैवेत्यादीति इदं प्रजापतिपरमिति
शांकरा व्याचक्षते तदशोभनं 'सर्वान् पाप्मन औषत् तस्मात्पुरुषः' इति पुरुषनिर्वचनश्रुतेः अपहत-
पाप्मत्वस्य ब्रह्मलिङ्गस्य तत्र सत्त्वेन विराडात्मकप्रजापतेर्ग्रहीतुमशक्यत्वात् । किं च सोऽबिभेदित्यपि
भयं न बाधकं बाललीलायां तत्स्वीकारात् भक्तानुरोधेन । माहात्म्यं चैतद्ब्रह्मणो यद्रूपवत्त्वम् ।
अतः एकोऽप्यसाधारणो धर्मो विद्यमानः शिष्टान् संदिग्धानपि ब्रह्मधर्मानैव गमयति इति 'अन्तस्त-
द्धर्मोपदेशात्' इत्यधिकरणभाष्याच्च । न च 'ततः पतिः पत्नी चाभवताम्' इत्यनन्तरं ततो मनुष्या-
268
अन्यथा जीवस्य साधनफले निरूपयन्त्याः श्रुतेर्जीवपरत्वमेव स्यान्न
ब्रह्मपरत्वम् । कर्मब्रह्मणोरपि जीवशेषत्वं नापेयात् ।
एवं सति पूर्वकाण्डेऽवान्तरफलान्युक्त्वा 'एतस्यैवानन्दस्यान्यानि भूतानि
मात्रामुपजीवन्ति' इतिश्रुतेर्निरवध्यानन्दात्मकमेव परमं फलमिति तद्विवक्षमाणा
पूर्वं सामान्यत आह, ससाधनं तैत्तिरीये 'ब्रह्मविदाप्नोति परम्' इति ।
अक्षरब्रह्मवित् परं ब्रह्माप्नोतीत्यर्थः । अत्र परशब्दस्य पूर्वपरत्वे तदित्येव भवेत् ।
भाष्यप्रकाशः ।
द्वितीयस्कन्धे उक्तार्थस्यैवोपबृंहणात् क्रीडनमेव प्रतिपाद्यत इत्यर्थः । तेन सृष्टीच्छा क्रीडेच्छा-
रूपैवेति निर्णायोक्तोपबृंहणेऽन्यस्याप्यर्थस्य संभवदुक्तिकत्वात् तदनुक्त्वा विपक्षे बाधकं
तर्कमेवाहुः अन्यथेत्यादि । अन्यथेति भगवतः सर्वरूपत्वाभावे । नापेयादिति पारार्थ्यरूप-
शेषलक्षणस्य फलद्वारा तत्र सत्
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति सटीक लिप्यन्तरण है:
२७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
पूर्वं ब्रह्मोक्तस्यान्ये यत् परमित्याह तेन सान्निध्यात् तत एव परं पुरुषोत्तमरूप-
मेवात्राभिप्रेतमिति ज्ञायते ।
किंच प्रतिपादिना तदाप्तिर्ज्ञानात्मिकैव वाच्या । तथा सति ब्रह्मप्राप्तो ब्रह्म
प्राप्नोतीत्यर्थः स्यात् । स चासंगतः । साधनसाध्यभावव्याहतिश्च ।
भाष्यप्रकाशः ।
सत्यज्ञानाद्युक्तत्वमिति परस्य लक्षणमप्युक्तप्रायम् । तद्योक्तत्वमानन्दमीमांसोत्तरं, 'यतो
वाचः' इति श्लोके गणनापरिच्छेदराहितानाङ्मनसगोचरानन्दरूपत्वेन सिद्धं भविष्यति । ननु 'सर्वं
ब्रह्म' इतिवित् परं ब्रह्मामोतीत्यर्थोक्तौ न कोऽपि दोष इत्यत आहुः किंचेत्यादि । असंगत इति
पुनरुक्तिदोषादसङ्गतः। नन्वत्र व्याख्यानव्याख्येयभाव एव संगतिरिति चेत् तत्राहुः साधनेत्यादि ।
नच शाब्दज्ञानवान् परं साक्षात्काररूपं ज्ञानमामोतीत्युक्तौ न दोष इति वाच्यं प्रत्यक्षविरोधात् ।
नच साधनान्तरासमवधानाददोष इति वाच्यम् । तस्यात्रानभिप्रेतत्वात् । अनुपदेशेन तथाव-
रश्मिः।
आत्मानन्दमयः' इति विषयवाक्यस्य पूर्वाङ्गमित्यर्थः । प्रतीक मित्यावयवमित्यर्थः । भविष्य-
तीति जनन्तपदार्थनिरूपणे भविष्यतीत्यर्थः । यद्वा एकप्रक्रमपठितत्वेन भविष्यतीत्यर्थः । वस्तुतस्तु
निरवध्यानन्दत्वमेव लक्षणम् । सत्यज्ञानानन्तविपश्चित्त्वं वा लक्षणमेकश्रुत्युपपादितत्वात् ।
प्रकटबिंबत्वेन न सूर्येऽतिव्याप्तिः सत्यानन्तयोरच्छङ्गलत्वात् । परे तु त्रयं प्रकटमिति । प्रकटमिति
लक्षणे विशेषणम् । निरवधिसत्यज्ञानत्वे सतीति विशेषणाभावे शृङ्गाररसेतिव्याप्तिः स्वमतहानिश्च
'सत्यं परं धीमहि' इति 'सत्यव्रतं सत्यपरम्' इति च ।
'आत्ममायासृते राजन् परस्यानुभवात्मनः ।
न घटेतार्थसंबन्धः स्वप्नद्रष्टुरिवाञ्जसा' ॥ इति च ।
अर्थसंबन्धो देहसंबन्धः । विशेष्याभावे ब्रह्मज्ञानमेव भवेत् । अधोक्षजत्वेन निरवध्यानन्द-
द्वारा तज्ज्ञानात् । 'आनन्दं ब्रह्मणो विद्वान्' इति श्रुतेः । अक्षरेतिव्याप्तिवारणाय निरवधीति ।
शांकरोपनिषद्भाष्योक्तार्थ वदन्त आशङ्कामाहुः नन्वित्यादि । सर्वं ब्रह्मेत्युपासकः परं ब्रह्माप्नोति
इत्यर्थोक्तावित्यर्थः । न कोपीति यद्यपि प्राप्यस्य ब्रह्मणः उपासकाद्भिन्नत्वेन भवनमुक्तं तथापि
मात्रवर्णिकं ब्रह्म जीवाद्ब्रह्मातिरिक्तं नापि तु तस्यैवोपासकस्याविद्यालेषशून्यं निर्विशेषचिन्मात्रैकर-
स्वरूपं तदेव 'सत्यं ज्ञानमनन्तं ब्रह्म' इति मन्त्रेणोच्यते । अग्रे 'यतो वाचो निवर्तन्ते, अप्राप्य मनसा
सह' इत्यनेन वाङ्मनसयोरगोचरत्वसोक्तेरिति दोषोपि नेति न कोपि दोष इत्यर्थः । व्याख्यान-
व्याख्येयेति । तथा चोपनिषद्भाष्यं ब्रह्मविदिति ब्रह्म वेद ब्रह्मैवेति वक्ष्यमाणलक्षणं बृहत्तमत्वात्
ब्रह्म तद्वेत्तीति ब्रह्मविदाप्नोति परं निरतिशयं तदेव ब्रह्म परं नह्यान्यस्य विज्ञानादन्यस्य प्राप्तिरिति ।
साधनेत्यादीति 'धर्मादिष्वनियमः' इत्यनेन 'अल्पाच्तरं पूर्वम्' इत्यस्य बाधादेवं प्रयोगः ।
धर्मादिशाकृतित्वनः । ब्रह्मज्ञानं साधनं पराप्तिः साध्या सापि ज्ञानात्मिकेत्येकस्य साधन-
साध्यभावव्याहृतिरित्यर्थः । व्याख्यानव्याख्येयभावेपि तन्मतेन साधनसाध्यभावमाशङ्क्य निषेधन्ति
न च शाब्देत्यादि । प्रत्यक्षति शाब्दपरोक्षापत्त्या तथा । साधनान्तरेति संन्यासयोगरूप-
साधनान्तरासमवधानात् । अत्रेति श्रुतावित्यर्थः । अनभीत्यादि छान्दोग्ये आत्मनि सर्वेन्द्रियाणि
संप्रतिष्ठाप्येति गार्हस्थ्यलिङ्गाद्वेदान्तविज्ञानसुनिश्चितार्थानां पुंसां तदनिषेधे शुक्लमार्गा भवलोके
270
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७१
अतः परं विशेषतस्तद्विवक्षमाणाऽनुभवैकगम्यं तत्स्वरूपं नान्यमानगम्य-
मिति ज्ञापयितुमन्यमुखेनाह 'तदेषाऽभ्युक्ता' इति । अन्यथा सर्वार्थतत्त्वप्रति-
पादिका श्रुतिरेवं कथं वदेत् । तदित्यव्ययम् । तथाच तत् पूर्वोक्तं ब्रह्मविदः
परमाप्तिलक्षणमर्थं विशदतया प्रतिपाद्यत्वेनाभिमुखीस्कृत्योपगुह्य ऋगेषा विवित-
परब्रह्मकैरुक्ता । पूर्ववाक्योक्तार्थस्य वैशद्यमनया क्रियत इत्यर्थः संपद्यते ।
भाष्यप्रकाशः।
शायात् । 'यमेवैषः' इति श्रुत्या साक्षात्कारस्य वरणेतरसाधनानधीनत्वाच्च । साधनान्तरकल्पनायामपि
पूर्वोक्तरीत्या परश्शब्दवैयर्थ्याच्च । अत उक्तविधस्यैवार्थस्यात्र संक्षेपत उक्तिरेवेति निश्चयः । एवं
सामान्यत उक्तिं तथैव व्याख्याय विशेषतो व्याख्यातुं सामान्यविशेषभावे गमकाकाङ्क्षायां
व्याख्यानव्याख्येयभाव एव गमक इत्याशयेनाहुः अतः परमित्यादि । अन्यथेति व्याख्यान-
त्वाभावे, परस्य तत्राप्तेश्चानुभवैकवेद्यत्वाभावे च । एवमिति अन्यमुखेन । अव्ययमिति
हेतूपञ्चम्यन्तमव्ययम् । श्रुतिव्याख्यानगतं तत्पदं स्वार्थाध्याहृतमर्थविशेषणत्वाय वाऽव्ययमित्यु-
रश्मिः।
परासृताद्धिरण्यगर्भमोक्षात् मोक्षानापत्तेः । तथा सति 'न स पुनरावर्तते' इति छान्दोग्यविरोध इति
तया । भाष्ये । काण्डद्वयेपीत्यादिना गृहस्थाधिकारस्य पूर्वकाण्डसिद्धस्यापि संग्रहात् । परमहंसयतीनां
तु गार्हस्थ्यमपि प्राप्तं चेत् पारिभाषिकसंन्यासो गृहस्थानां यथा । 'काम्यानां कर्मणां न्यासं संन्यासं कवयो
विदुः' इत्यादि गीतायाः । अत्र हेतुमाहुः अनुपदेशेनेति 'वेदान्तविज्ञानसुनिश्चितार्थाः' इत्यत्रोक्तगार्ह-
स्थ्यस्य तैत्तिरीयेऽनुपदेशेन तथा साधनान्तरत्वाभावनिश्चयात् । अनुपदेशेप्यपेक्षितोपसंहार एकवाक्य-
तयोचित एवेत्यत आहुः यमेवेति । वरणेतरत्यादि प्रमेयबलमेवैतत् । वरणं वैदिकमनुग्रहो
वेदान्तः । नन्वस्तु तत्र तथापरमत्र तु ब्रह्मविदिति साधनोपदेशेन भक्तिरूपसाधनत्वव्यापारत्वेन
निवेशस्यावश्यकत्वाद्ब्रह्मविद्वेदान्तविज्ञानसुनिश्चितार्थिनां संन्यासयोगाच्छुद्धसत्त्वानां प्राक्तन्यात् तद्वत्का-
ण्डद्वयेपीत्यादिभाष्यादसद्भाभिरपि साधनान्तरं कल्प्यत इत्यत आहुः साधनान्तरेत्यादि । पूर्वेति
अत्रैव पूर्वोक्तरीत्या चेति । अत्र व्यवहारे भाट्टत्वाभावेन निहितं गुहायामित्यत्रार्थे ब्रह्मणोभूते
एकीभवतीत्युक्तं स्यात् न तु परमे व्योमन्नित्यादिरुपनिबद्धः स्यात् । अतः स्वमते पुष्टिमर्यादामक्तफलं
वक्तीति युक्तम्। 'ब्रह्मविद्ब्रह्मैव भवति' इत्यत्र ज्ञानफलमिति चकारार्थः। अत उक्तेति माष्टवदर्थवादत्वा-
भावादक्षरब्रह्मविदः पूर्णानन्दप्राप्त्युपदेशरूपस्यैवेत्यर्थः । ब्रह्मविद्ब्रह्मैव भवतीति श्रुतेर्ज्ञानमार्गस्य
सावकाशत्वाद्भक्तिमार्गस्य निरवकाशत्वादेवकारः । अत्रेति ब्रह्मविदाप्नोति परमितिमात्रे । उक्तिरेवेत्ये-
वकारेण व्याख्यानत्वव्यवच्छेदः । निश्चय इति । शब्दादपरोक्षस्य सर्वनिर्णये मर्यादाभङ्ग एव
स्यादित्यादिना दूषितत्वादितोषिकाकाङ्क्षिणा स द्रष्टव्यः । सामान्यविशेषेत्यादि तदेषाभ्युक्तेति
श्रुतेरित्यर्थः । एवेति एवकारोप्यर्थकस्तेन तदेषाभ्युक्तेति श्रुतेरपि सामान्यविशेषभावे गमकत्वं द्रष्टव्यम् ।
अन्येत्यादि विदितपरब्रह्ममुखेनेत्यर्थः । यद्यपि श्रुतं नारदमुखादित्यन्यमतत्वं संभाव्यते तथापि
पुरुषविधब्राह्मणवत्तद्वा एतद्विदितं मीमांसितमिति श्रुत्यायमर्थः साधुः । श्रुत्यर्थस्तु एतदित्यस्य यथोक्त-
कर्मेणामवश्यकर्तव्यत्वं, विदितमित्यस्य भूतयज्ञो मनुष्ययज्ञः पितृयज्ञो देवयज्ञ ऋषियज्ञश्चेति
पञ्चमहायज्ञप्रकरणे विदितं विज्ञातमित्यर्थः । भाष्ये । तत्पदं द्वितीयान्तत्वेन व्याख्यातं तत्तात्पर्यमाहुः
श्रुतिव्याख्यानेत्यादि । अध्याहारदोषादाहुः अर्थेत्यादि । अर्थशब्दस्य नियतपुंल्लिङ्गत्वादिति
३५ ब्र० सू० १० 271
२७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
तामेवाह । 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन्
सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता' । सोपपत्तिकमानन्दात्मकत्वमग्रे
निरूपणीयमित्यधुना तदनिरूप्य सचिदंशौ देशकालापरिच्छिन्नत्वं चोक्तवती ।
अथवा, अक्षरब्रह्मण्यानन्दात्मकत्वे सत्यपि तस्य परिच्छिन्नत्वान्न परम-
फलत्वमत आनन्देऽपरिच्छिन्नत्वमेव परमफलतावच्छेदकमिति तद्धर्मपुरःसरं
भाष्यप्रकाशः ।
क्तम् । तथाच संपूर्णा ऋक् फलांशविवरणार्थैवेति संपद्यत इत्यर्थः । तामित्यादिना ऋचं
पठित्वा व्याकुर्वन्ति सोपपत्तिकमित्यादि । एवमग्रे फलनिरूपणावसरे निरूपणीयमित्यधुना
साधननिरूपणावसरे सोपपत्तिकमनिरूप्य सत्यज्ञानपदाभ्यां सचिदंशावनन्तपदेन देशकाला-
परिच्छिन्नत्वं च ज्ञेयस्य ब्रह्मणः साधनशेषत्वायोक्तवतीत्यर्थः । एवं पूर्ववर्णकस्य ज्ञेयांशे
कारणतायानन्दांशमप्रवेश्येत्यस्य संग्रहार्थ तदाशयो विशदीकृतः । तेन ब्रह्मत्वे तुल्येऽपि क्षरस्य
देशकालापरिच्छिन्नत्वाभावान्न विवक्षितफलसाधनशेषत्वम् । अक्षरस्य तु तदपरिच्छिन्नत्वात्
तादृशसाधनशेषत्वमिति बीजं प्रकाशितम् ।
अतः परं प्रस्तूयमानवर्णकरीत्या विवक्षितफलविवरणार्थमन्त्रानन्दांशप्रवेशं वक्तुमनन्त-
शब्दस्यार्थान्तरमाहुः अथवेत्यादि । परिच्छिन्नत्वादिति गणनया परिच्छिन्नत्वात् । एवमग्र
रश्मिः ।
भावः । तथा च तदिति तं द्वितीयान्तं न पञ्चम्यन्तमस्मिन् पक्षे । भाष्ये । विदितपरब्रह्मकैरिति
'तासां मे पौरुषी प्रिया' इति पुराणद्वारा पुरुषविधब्राह्मणाङ्गीकर्तृभिः स्वस्या अक्षरं ब्रह्म परमं स्थानमिति
स्वोक्तैरित्यर्थः । तेन यदध्येतृभिरिति परैरुक्तं तदसंभवि । अध्येतॄणामसामर्थ्यादिति बोधितम् ।
प्रकृते । फलांशेत्यादि फलं चांशश्च फलांशौ तयोर्विवरणार्थैवेत्यर्थः । यद्यप्याह ससाधनमित्यस्य
पूर्ववाक्योक्तार्थस्य वैशद्यमनया क्रियते इत्यस्य च भाष्यस्य विरोधः स्यात् तथाप्यनुभवैकगम्यं तत्स्वरूप-
मित्याभाभासभाष्यानुसारेणाह ससाधनमिति । पूर्वोक्तस्य भाष्यस्य अथवेत्यादिवक्ष्यमाण-
द्वितीयपक्षानुमानाभासत्वं पूर्ववाक्योक्तार्थस्येति भाष्यस्य फलांशप्रतिपादकत्वस्येत्यर्थः । इत्यविरोधः ।
सन्निधानमेव तत्स्वरूपमिति 'आदित्यादिमतयश्चाङ्ग उपपत्तेः' इति सूत्रभाष्ये तु द्वितीयपक्षानुसारी
नेति । तामित्यादि अत्र कर्ता भगवान् 'वेदान्तकृत् वेदविदेव चाहम्' इति स्मृतेः । साधनेत्यादि
फलांशे निरूपणीये साधनत्वेनाधिष्ठानरूपसाधनत्वेन स्वरूपे प्रतीत साधनं तस्य निरूपणावसर इत्यर्थः ।
फलांशनिरूपणे साधननिरूपणमन्यथाऽसंगतं स्यात् । एवमेव ज्ञेयस्येत्यादिकं स्वरूपे प्रतीत ग्राह्यम् ।
एवं पूर्वेत्यादि फक्किकातात्पर्यं तु ज्ञेयम् । पूर्ववर्णके ब्रह्मविदाप्नोतीत्यस्य विषयवाक्यत्वाभावात् ।
तथाहि । ननु फलांशे वर्णनीयानन्दाप्रवेशो नैव युज्यते यतः आनन्दत्वेन फलत्वमिति चेत्तत्राहुः
एवं पूर्वेति । पूर्वोक्तप्रकारेण पूर्वं वर्णकं यस्य भाष्ये वक्ष्यमाणवर्णकस्य द्वितीयस्य तत्त्वस्येत्यादिरतः
फलशेष्यदुष्टो निरानन्दपक्ष इति । तदाशय इति शंकरमतमपाकर्तुं निरानन्दपक्षो ज्ञानमार्गे इति
तथेत्यर्थः । तुल्येऽपीति क्षरस्य सत्त्वेन ब्रह्मत्वमक्षरस्य तु चित्त्वेनेति तयोरंशत्वात्तुल्येपीत्यर्थः ।
तदपरिच्छिन्नत्वादिति अक्षरात्मकेऽपरिच्छिन्ने सत्येव हृदि परस्यापरिच्छिन्नस्य प्रादुर्भावात्तथेत्यर्थः ।
फलविवरणार्थमिति आप्नोति परिमितेतावत्फलस्य सत्यमित्यादिनैव विवरणार्थमित्यर्थः । गणनयेति
'ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः' इति श्रुतेः । परिच्छिन्नत्वादिति ।
272
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७३
परमानन्द एवानन्तशब्देनोच्यतेऽत्र । 'सत्यं विज्ञानमानन्दं ब्रह्म', 'सच्चिदानन्द-
विग्रहम्' इत्यादिश्रुतिषु त्रयाणामप्येकप्रक्रमपठितत्वाद् द्वितयोक्तौ तन्नियत-
सहचरितत्वेनाऽनुक्तोऽप्यानन्दः प्राप्स्यत एवेत्याशयेन चानन्दः स्फुटतया नोक्तः।
अथ वेदनपदार्थमाह । यो वेदेत्यादिना । अग्रेवमाकूतम् । 'नायमात्मा प्रवचनेन
लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा वृणुते
तनुं स्वाम्' इति श्रुत्या वरणेतरसाधनाप्राप्यत्वमुच्यते ।
एवं सति श्रुतिद्वयविरोधपरिहारायाक्षरब्रह्मज्ञानेनाविद्यानिवृत्त्या प्राकृत-
धर्मराहित्येन शुद्धत्वसंपादनेन पुरुषोत्तमप्राप्तौ स्वरूपयोग्यता संपाद्यते । तादृशे
जीवे स्वीयत्वेन
An exact line-by-line transcription of the Sanskrit text in Devanagari:
ऽश्वतीति निर्णीयते । तदैव गुहायां परमव्योमाविर्भावः । परो मीयते हृद्यतेऽ
नेनेति तथा । ज्ञानमार्गीयजीवज्ञेयप्रकारकाद्वैशिष्ट्येनापि तथा । परमव्योम्नोऽप्य-
लौकिकत्वज्ञापनायालौकिकः प्रयोगः कृतः ।
भाष्यप्रकाशः ।
ज्ञानप्रधानतया ब्रह्मज्ञानं, वरणे तु भक्तिमार्गरीत्याऽऽनन्दप्रधानतया ब्रह्मज्ञानं, येन परप्राप्तिरिति
वेद्यस्य द्विधाविर्भाव एव द्विधा व्याख्याने बीजमित्यर्थः । अस्या ऋच एवं निर्णायकत्वे
गमकमाहुः तदैवेत्यादि । कृत इत्यन्तम् । तथाच श्रुत्यन्तरे वेद्यनिरूपणे हार्दाकाशविशेषण-
रश्मिः ।
ज्ञेयेत्यर्थः पूर्वदूषणान्नापि सर्वं खल्विदं ब्रह्मेति श्रुत्युक्तेनेत्यर्थः भक्तिकारणत्वात् । किं तु यथा यथा परिमृ-
ज्यत इति श्लोकोक्तेनेत्यर्थः । न च तत्र न ज्ञाननिरूपणं किं
क्तोऽक्षरः"!
Wait! Look at Rashmi lines 20-21:
"प्रकृतीति"
Wait, what is the word?
Could it be: "सप्तम्यन्त"??
Wait, look at line 21:
"चेति तेन प्रधानमित्यपि नपुंसकं न पुरुषः ।"
LOOK AT THAT: "चेति तेन प्रधानमित्यपि नपुंसकं न पुरुषः ।"
"नपुंसकं न पुरुषः"!!
Why does it say "नपुंसकं न पुरुषः"???
Because in "अव्यक्तोऽक्षरः", both 'अव्यक्तः' and 'अक्षरः' are masculine ("पुरुषः" / पुंलिङ्ग), whereas 'प्रधानम्' (Prakriti) is neuter ("नपुंसकम्")!!
And 'हरिशब्दस्य विष्णुवाचकत्ववत्' - wait!
Is the word "पुंलिङ्ग"?
Look at line 21:
"..... पुंलिङ्गो हरिशब्दस्य विष्णुवाचकत्ववत्" ?????
YES! YES! YES!
"पुंलिङ्गो हरिशब्दस्य विष्णुवाचकत्ववत्" !!
Look at the letters:
प + ु = पुं
ल + ि + ङ् + ग + ो = लिङ्गो!
Wait, let's look at the letters before "हरिशब्दस्य":
Is it: "पुंलिङ्गो"?
Wait
ततः परमनिवृर्तिमादधाति ।
Wait, if it's L G L (ज-गण):
7. म (L)
8. नि (if short: L, but if निर्, it is G: म निर् वृ = L G L!)
9. वृ (L)
10. र्ति (if short ति: L, then मा (G) द (L) = L G L = ज-गण!)
11. मा (G)
12. द (L)
13. धा (G)
14. ति (G)
So it MUST be:
म निर्वृत्तिम्... wait:
म (7: L)
नि (8: with repha, G)
वृ (9: L) -> ज-गण (L G L)!
त्ति (10: wait, if त्ति, then वृ becomes G! But we need वृ to be L!)
If the text is: "परमनिर्वृतिमादधाति":
7. म (L)
8. निर् (G)
9. वृ (L)
10. ति (L)
11. मा (G)
12. द (L)
13. धा (G)
14. ति (L/G)
Then 10-11-12 is ति मा द (L G L = ज-गण)!
And 13-14 is धा ति (G G)!
THAT
'भक्त्याऽहमेकया ग्राह्यः' 'नाहं वेदैः' इत्युपक्रम्य, 'भक्त्या त्वनन्यया
शक्यः' इत्यादिविस्तृतिरप्येवमेव संगच्छते। अन्यथा ज्ञानमार्गीणामपि ब्रह्मविदां
परप्राप्तिः स्यान्न त्वेवम् ।
'मुक्तानामपि सिद्धानां नारायणपरायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने ॥
तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिह' ॥
भाष्यप्रकाशः।
तद्गमकत्वमिति हृदयम् । ननु वरणपदार्थो लक्षणया ज्ञानात्मको ग्राह्यो न तु रूढोऽङ्गीकारात्मक
इति नात्र भक्तिनिवेशे किंचिद् बीजं पश्याम इत्याशङ्कायां स्मृत्या श्लोकावुपष्टभ्नन्ति भक्त्येत्यादि ।
एवमेवेति वरणपदस्याङ्गीकारपरत्व एव । विपक्षे बाधकं तर्कमाहुः अन्यथेत्यादि । न त्वेवमिति
न ज्ञानमार्गीणां विवक्षितलक्षणा पर
२७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
इत्यादिवाक्यैः । एतदेवाह । गुहायां हृदयाकाशे यदाविर्भूतं परमं व्योमा-
क्षरात्मकं व्यापिवैकुण्ठं, तस्य पुरुषोत्तमगृहरूपत्वात् तत्र निहितं स्थापितमिव
वर्तमानं यो वेद स भक्तो ब्रह्मणा नित्याविकृतरूपेण विपश्चिता, विविधं पश्य-
श्चित्त्वं हि विपश्चित्त्वम् । पृषोदरादित्वात् पश्यच्छब्दावयवस्य यच्छब्दस्य लोपं कृत्वा
व्युत्पादितो विपश्चिच्छब्दः । तेन विविधभोगचतुरेण सह सर्वान् कामानश्नुत
इत्यर्थः । एतेन परप्राप्तिपदार्थ उक्तो भवति । शुद्धपुष्टिमार्गीयत्वादस्य भक्तस्य
स्वातन्त्र्यं भोग उच्यते । सहभावोक्त्या ब्रह्मणो गौणत्वम् । अत एव भक्ताधीनत्वं
भगवतः स्मृतिष्वप्युच्यते । 'अहं भक्तपराधीनः', 'वशे कुर्वन्ति मां भक्त्या'
इत्यादिवाक्यैः ।
यद्यप्यश भोजन इति धातोरश्नातीत्येव रूपं भवति, अशूङ् व्याप्ताविति
धातोर्भवत्यश्नुत इति रूपं, विकरणभेदात् पदभेदाच्च । तथाप्यत्राश भोजन
इति धातोरेव प्रयोग इति ज्ञायते । तथाहि । अत्राशनक्रियायां ब्रह्मणा सहभाव
उच्यते । तथाच व्याप्त्यर्थकत्वे ब्रह्मणा सहभूतान् कामान् व्याप्नोतीत्यर्थो भवत्य-
थवा ब्रह्मणा सह भूतः स जीवः कामान् व्याप्नोतीति । एतौ त्वनुपपन्नौ । न हि
कामवज्जीवकर्तृकव्यापनक्रियाकर्मत्वं ब्रह्मणि संभवत्यतिमहत्त्वात् ।
भाष्यप्रकाशः ।
फलनान्तरीयत्वादुत्तरार्धं सर्वमेव व्याकुर्वन्ति एतदेवाहीत्यादिना । एतेनेति श्रुत्युत्तरार्धेन ।
एतमर्थं स्मृत्योपष्टम्भन्ति अत एवेत्यादि । नचास्य नवमस्कन्धीयवचनस्य सात्त्विकांशभूत-
विष्णुवाक्यत्वेन पुरुषोत्तमवाक्यत्वाभावान्नोक्तार्थोपष्टम्भकत्वमिति शङ्क्यम् । तस्य भिन्नत्वेऽपि
मूलपुरुषरूपनामलीलासाम्येनादोषात् । पराशरपुराणे—
'वैष्णवानि पुराणानि समस्तानि महामुने ।
त्रिमूर्तीनां हरेर्नाम्ना मूर्त्या तस्य परं पदं प्रवदन्ति' ॥
इति साम्यस्मरणादिति । उक्तेऽर्थेऽनुपपत्तिमुद्भाव्य परिहरन्ति यद्यपीत्यादि । व्युत्पाद-
यन्ति तथाहीत्यादि । विपक्षोद्भावितयोरर्थयोराद्यं दूषयन्ति न हीत्यादि । कामवदिति
सप्तम्यर्थे वतिः । अतिमहत्त्वादिति,
रश्मिः ।
दहराधिकरणे स्फुटमुपपादितः । स्थापितमिवेति इवपदेनाक्षराधिकरणभाष्यविरोधः परिहृतः ।
दर्शनमात्रे परं विशेषात् । परप्राप्तिपदार्थ इति । अयं फलाध्याये स्फुटतर इति ततोवधेयः ।
शुद्धपुष्टीति एतन्मार्गद्वयं सहकार्यन्तराधिकरणे स्पष्टम् । शुद्धत्वं निवेदितात्मत्वं 'निवेदितात्मा
विचिकीर्षितो मे' इतिवाक्यात् । ब्रह्मणो गौणत्वमिति 'सहयुक्तेऽप्रधाने' इति पाणिनिसूत्रात् ।
प्रकृते । त्रिमूर्तीनामित्यादि त्रिमूर्तीनां मध्ये हरेर्नाम्ना मूर्त्या च तस्य गुणावतारस्य परं पदं
मुख्यं रूपं प्रवदन्तीत्यर्थः । अनुपपत्तिमिति श्नुरूपविकरणस्यात्मनेपदस्य च नानुषपत्तिरित्यर्थः ।
भाष्ये । कामानिति काम्यन्त इति कामा आनन्दादयस्तानित्यर्थः । भाष्ये । ब्रह्मणि संभव-
तीति ब्रह्मसाहित्यवदभिन्नान्कामानिति शाब्दबोधेन व्यापनरूपफलाश्रयत्वस्य विशेषणभूते ब्रह्मण्यपि
278
?
Wait, is it "नापाद्येत्यर्थः"?
Look at the character: it is 'ना'!
Wait, why 'ना'? 'न' has a round bottom loop, like 'न' in 'निषेधन्ति'.
Let's look at the letter:
It has a loop to the left, vertical stem to the right, kana... wait, that's 'ना'!
Wait, could it be 'मा'?
Look at 'मा' in 'अन्यभोगं': 'म' has a loop and flat bottom.
Here, it's 'ना': "नापाद्येत्यर्थः"?
Wait, why would it say "नापाद्येत्यर्थः"?
Wait, does it say: "उपनिषच्छाख्या तां चापाद्येत्यर्थः"?
Wait, look at line 20: "...परत्वं चापाद्य". The word in line 20 is "चापाद्य" = च + आपाद्य.
So in रश्मि, "आपाद्येति उपनिषच्छाख्या तां चापाद्येत्यर्थः" or "आपाद्येति उपनिषच्छाख्यतां नापाद्येत्यर्थः"?
Wait! Let's re-read line 20:
"एवं परप्राप्तिपदार्थे भोगरूपे व्याख्याते भोगलिङ्गात् परस्य सोपाधिकत्वे ब्रह्मवित्पदस्य सकामोपासकपरत्वं चापाद्य"
"चापा
ननु सकामोऽत्रोपासकस्तदुपास्यं च सगुणं ब्रह्म । द्वयोरपि कामोपभोगश्र-
वणात् । 'यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति' इत्युपक्रम्य, 'यत्र त्वस्य
सर्वमात्मैवाभूत् तत् केन कं पश्येत्' इत्यादिनान्यदर्शनादिनिषेधाद् ब्रह्मविदः
कामोपभोगासंभवश्चेति चेन्मैवम् । तदेषाभ्युक्तेति वाक्येन पूर्ववाक्योक्तार्थ-
निरूपिकेयमृगित्युक्तत्वेन प्राकृतगुणसंबन्धस्य तत्र वक्तुमशक्यत्वात् । तथा सति
ब्रह्मवित्प्राप्यत्वपरत्त्वयोरसंभवापत्तेः । नच वेद्यस्यागुणत्वमुत्तरस्य सगुणत्व-
मिति वाच्यम् । परत्वानुपपत्तेः । साधनशेषभूतस्यागुणत्वं तत्फलस्य सगुणत्व-
मित्यसंगततरं च । 'यद्धि पश्यन्ति मुनयो गुणापाये समाहिताः' इति श्रीभागवत-
वाक्येन गुणातीतपुंसां वैकुण्ठदर्शनाधिकार उच्यते यत्र तत्र किमु वाच्यं
[L
...
Wait! Look at the word:
"प्रतिज्ञाहानिर्वागालाग-"?
Wait, is it "प्रतिज्ञाहानिवारणाय"?
Look at L34: "प्रतिज्ञाहानिवा..."
Wait, is that letter 'ग्'? It has a loop, like 'ग'.
Then 'ला'?
Wait, look at the next line L35:
The first character has a vertical stroke and a bottom curve with virama/chha:
Wait, look at: 'च्छने'? No, could it be 'ङ्घने'?
Wait, look at: 'उ' + 'ल्' + 'ल' + 'ङ्घ' + 'ने' = 'उल्लङ्घने'?
Wait, in L34:
"प्रतिज्ञाहानिवा..." wait, could it be:
"प्रतिज्ञाहानिं वागलाग..."? No, "प्रतिज्ञाहानिवागुल्लङ्घने"?
Wait, what is "वागुल्लङ्घने"?
Wait, look at L34:
प्र ति ज्ञा हा नि - then what?
Is it 'र्वा'? (प्रतिज्ञाहानिर्वा)
Wait! "प्रतिज्ञाहानेर्वा"? No, नि has short इ matra.
Wait, is it "प्रतिज्ञाहानिवागालम्बनपरिहर्तुम्"?
Look at the characters in L34 from 'प्रति':
प्र (pra)
ति (ti)
ज्ञा (jñ
२८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० ५ सू० ११
अथवा तदेषाऽभ्युक्तेति वाक्येन पूर्ववाक्योक्तब्रह्मनिरूपिकेयमित्युच्यते ।
तत्र साधनफले निरूपिते इति कस्यचिन्मते ते एव निरूप्येते । तथाहि । आनन्दस्य
फलात्मकत्वेन साधनशेषभूते ब्रह्मणि तदनुक्त्वा, यो वेदेत्यनन्तर्यात्, 'ब्रह्मवित्'
इत्येतावतो वाक्यस्य विवरणं क्रियते । एतेन फलावाप्तौ स्वरूपयोग्यतासंपत्तिरुक्ता ।
तत उक्तरीत्या भगवद्वरणेन भक्तिलाभे गुहायामाविर्भूतं यत् परं व्योम,
तस्मिन्निहितः पुरुषोत्तम एवेति । तं निहितमिति तृतीयार्थे द्वितीया । तथाच
तत्र निहितेन ब्रह्मणेत्यग्रे पूर्ववत् ।
अथ परमफलत्वान्निरवध्यानन्दात्मकत्वमन्तरङ्गेभ्योऽप्यन्तरङ्गत्वं चास्मिन्
ज्ञापयितुं सर्वस्य सर्वरूपत्वेन सर्वाधिदैविकरूपत्वमपि ज्ञापयितुमाधिभौतिका-
भाष्यप्रकाशः।
पूर्ववर्णकोक्तव्याख्यानमेवानुसरन्तः पक्षान्तरमाहुः अथवे
दिरूपेणाविर्भवितुं भगवानाकाशादिरूपेणाविर्भूतोऽत एव भवन आकाश-
स्यैव कर्तृत्वमुच्यते । अग्रेऽन्नमयादीनि चत्वारि रूपाणि पूर्वं निरूपितान्युत्त-
रोत्तरमन्तरङ्गभूतानि । अन्नरसमयशरीरभूतात् प्राणमयस्तस्मान्मनोमयस्तस्माद्-
विज्ञानमयः । कश्चिच्चैतानि रूपाणि विकारात्मकत्वात् प्राकृतान्येवैतेभ्योऽप्यन्त-
रङ्गो विमुक्ताविद्यो जीव एवानन्दमय उच्यत इत्याह । स प्रतिवक्तव्यः ।
भाष्यप्रकाशः ।
श्रुतौ 'चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रम्' इति श्रुत्यनुसारेणात्राप्यन्नमयस्यान्नमयः प्राणमयस्य प्राणमय
इत्येवमानन्दमयमात्मा मे शुद्ध्यन्तामिति तैत्तिरीयश्रुत्यन्तरे शोध्यत्वज्ञापनेन, 'आनन्दमानन्द-
मयोऽवसाने' इति स्मृतौ च क्रममुक्तिप्रकरणेन कारणशरीरनिविष्टविमुक्ताविद्यजीवयोरानन्द-
मयत्वकथनात् तयोरपि य आधिदैविकस्तमानन्दमयमत्र ज्ञापयितुमित्यर्थः । कर्तृत्वमुच्यत
इति तेनात्र नाकाशादीनां प्राकृतत्वं, किंतु विभूतिरूपत्वमेवेत्यर्थः ।
अत्यन्तरङ्गत्वं विशदयन्ति अग्रे इत्यादि । अन्योऽन्तर आत्मेति सर्वत्र कथनात् तथेत्यर्थः ।
अत्र मायावादी मयटो विकारार्थकत्वमङ्गीकृत्य सूत्राण्यन्यथा नीत्वा आनन्दमयमपि जीवं मन्यते ।
तन्मतमनूद्य परिहरन्ति कश्चिदित्यादि । स प्रतिवक्तव्य इत्यादि । तत्र मयटः संदिग्धार्थ-
रश्मिः ।
स्वरूपयोग्यताऽक्षरज्ञानरूपा तस्याः संपतिरुक्तेत्यर्थः । ततोऽविद्यानिवृत्त्या प्राकृतधर्मराहित्येन
शुद्धसत्त्वसंपादनेन पुरुषोत्तमप्राप्तौ स्वरूपयोग्यता संपाद्यते । यत आधिदैविकशुद्धसत्त्वे चित्ते
भक्तिर्भवति पुरुषोत्तमप्राप्तिसाधनम् । अत्र भक्तिः पुष्टिरूपेत्याहुः भगवद्रूपेणेत्यादि । आवि-
र्भूतमिति काय आकाशशरीरस्य ब्रह्मणो यत्प्रसिद्धं परमं शरीरं व्योम तस्मिन्निहित इत्यर्थः ।
सूच्यार्थोपि नितरां हितः स्निग्धः स्नेहभक्तिविषय इति । पुरुषोत्तम एवेति 'आकाशशरीरं ब्रह्म' इति
श्रुतेर्गर्भ पुरुषोत्तमस्तल्लिङ्गात् । न त्वक्षरमतोऽक्षरयोगव्यवच्छेदक एवकारः । द्वितीयेति उक्त-
लिङ्गाङ्गेनेनानन्वयाय 'छन्दसि बहुलम्' इति सूत्रेण बाहुलकाद्द्वितीया । ब्रह्मण्येति पुरु-
षोत्तमेन न तु सूर्येणाधिकारिणा विपश्चिन्मात्रेण 'सूर्यो विपश्चिन्मनसा पुनातु' इति श्रुतेः विप-
श्चित्पदं न सूर्यव्यावर्तकं विशेषणमिति पक्षान्तरं वा । तथाच विपश्चित्पदं प्रस्थानरत्नाकरीत्या
पुरुषोत्तमे यौगिकं सूर्ये रूढमिति ज्ञेयम् । प्रकृते । सृष्ट्यादीति प्रपाठकद्वय इत्यर्थः । चेति
आनन्दमयाधिकरणभाष्योक्तसर्वोपि प्रपाठक आरब्ध इति भाष्यीयं स्फुटमित्युक्तसमुच्चये
चकारः । भाष्ये । स्वस्मिन्निति । आत्मनि आनन्दमये । प्रकृते । स्मृताविति इयं द्वितीय-
स्कन्धे द्वितीयाध्यायेति । कारणेत्यादि धर्मादिरयं शब्दः 'लघ्वक्षरं पूर्वम्' इति सूत्रेण शरी-
रस्य लघ्वक्षरस्य पूर्वप्रयोगप्राप्तेः । तेन कारणं च शरीरं च कारणशरीरे इति द्वन्द्वः । तत्र
निविष्टयोर्मुक्ताविद्ययोः जीवयोः मुक्तेः पूर्वमविद्यत्वं जीवस्यानन्दप्रवेशे विमुक्तत्वमिति द्विव-
चनम् । आनन्दमयकोशात्मकं कारणशरीरं प्राणमयाद्यात्मकं लिङ्गम् । अन्नमयं स्थूलमिति ।
एवं चानन्दमयमात्मेत्यादिश्रुतौ कारणशरीरनिविष्टः आनन्दमानन्दमय इत्यत्र विमुक्ताविद्य
इत्यर्थः । ज्ञापयितुमिति अधिदैवेनानन्दं ज्ञापयितुं प्रस्तुतम् । तेनेत्यादि 'तस्माद्वा एत-
स्मादात्मन आकाशः संभूतः' इत्यत्र फलकर्तृप्रकृत्यादिविभूतिरूपत्वात् भगवद्रूपस्याकाशस्यैव
कर्तृत्वेनेत्यर्थः । आत्मन इति पञ्चम्युक्तं समवायित्वं त्वात्मनोऽक्षुण्णमेव अभिन्ननिमित्तोपादा-
नस्वरूपत्वाद्भावाधिकरणोक्तहेतुत्वात्प्रस्थानिकत्वात् । जीवं मन्यत इति मुख्यमेवात्मानन्दम-
२८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
अग्रिमप्रपाठके भृगुणा अधीहि भगवो ब्रह्मेति पृष्टो वरुणस्तदोत्तमाधि-
काराभावात् स्वयं ब्रह्मस्वरूपमनुक्त्वा, तपसाऽधिकारातिशयक्रमेण स्वयमेव
ज्ञास्यतीति तदेव साधनं सर्वत्रोपदिष्टवान् । 'तपसा ब्रह्म विजिज्ञासस्व' इति ।
ब्रह्मातिरिक्तेन साधनेन न तज्ज्ञातुं शक्यमिति ज्ञापनाय, तपो ब्रह्मेति सर्वत्रो-
क्तवान् । तथाच तपसा साधनेन ब्रह्मत्वेन ज्ञातानि रूपाणि प्राकृतानीति
विचारकेण न वक्तुं शक्यमिति । तर्हि पुनर्ब्रह्मविषयकप्रश्नसाधनोपदेशतत्करण-
पूर्वातिरिक्तब्रह्मज्ञानानां परंपरा नोपपद्यते इति चेत् । मैवम् । भगवतो हि
विभूतिरूपाण्यनन्तानि । तत्र येन रूपेण यत्कार्यं करोति तेन रूपेण समर्थोऽपि
तदतिरिक्तं न करोति । तथैव तल्लीला यतः ।
तथाचान्नमयादिरूपैः क्षुद्राण्येव फलानि वदति । हीनाधिकारिणां
तावतैवाकाङ्क्षानिवृत्तिर्भवति । एवं सति यादृशेनाधिकारेणान्नमयत्वरूपज्ञानं
भवति तादृशे तस्मिन् संपन्ने तज्ज्ञानमपि तथा । एवमेवोत्तरत्रापि । तथाचा-
काशादिरूपमाधिभौतिकस्वरूपमुक्त्वाऽऽध्यात्मिकं तत् पुरुषरूपं वदन्ती पक्षि-
भाष्यप्रकाशः ।
कत्वादनिर्णायकत्वेन श्रुत्यन्तरादेव निर्णय उचित इत्याशयेनाहुः अग्रिमइत्यादि । तर्हीति तेषां
ब्रह्मरूपत्वे । यत इति 'सोऽकामयत, बहु स्यां प्रजायेय', 'तस्मादेकाकी न रमते', 'स हैतावानास'
इत्यादिष्वेकस्यैव बहुत्वोच्चनीचभावलीलानामुक्तत्वादित्यर्थः ।
तज्ज्ञानमपि तथेति तज्ज्ञानमपि तदुक्तफलदमित्यर्थः । एवं विभूतिरूपज्ञानफल-
मुक्त्वाऽऽनन्दमयस्याधिदैविकत्वं बोधयितुं पूर्वोक्तं स्मारयन्ति तथाचेत्यादि । आकाशादि-
रूपमाधिभौतिकं स्वरूपं तस्माद्वा इत्यारम्भात् पुरुष इत्यन्तेनोक्त्वा आध्यात्मिकमन्नमयादि-
पुरुषरूपं वदन्ती श्रुतिस्तस्येदमेव शिर इत्यादिना पक्षिरूपमाहेत्यर्थः । ननु तस्येदमेवेती-
दमा प्रत्यक्षविषयस्यैव शिरआदेः परामर्शात् प्रत्यक्षविषयस्यैव पक्षित्वं कल्पनयोपदिश्यते
रश्मिः ।
विविक्षु शास्त्रं लोकबुद्धिमनुसरदन्नमयशरीरमनात्मानमत्यन्तमूढानामात्मत्वेन प्रसिद्धमनूद्य मूषानिषि-
क्तद्रुतताम्रादिप्रतिमावत्ततोन्तरं ततोन्तरमित्येवं पूर्वेण समानमुत्तरमनात्मानमात्मेति ग्राहयत् प्रति-
पत्तिसौकर्यापेक्षया सर्वान्तरमुख्यमानन्दमयमात्मानमुपदिशेदिति शङ्कितमिति भाष्येण मन्यत इत्यर्थः ।
ब्रह्मरूपत्व इति ब्रह्मरूपत्वाधिकरणे काले । भाष्ये । पुनर्ब्रह्मविषयकेत्यादि पुनर्ब्रह्म-
विषयकः प्रश्नस्तद्ब्रह्म पूर्वोक्तमेव । साधनोपदेशस्तादृशवाक्यमपि । अत एव भाष्ये सर्वत्रोक्तवा-
न्नित्युक्तम् । तत्करणं तपःकरणम् । तद्वाक्यं 'स तपोऽतप्यत' इति । इदमपि सर्वत्रैकमेव ।
पूर्वातिरिक्तब्रह्मज्ञानं च तत्प्रतिपादकानि 'अन्नं ब्रह्मेति व्यजानात्, प्राणो ब्रह्मेति व्यजानात्,
मनो ब्रह्मेति व्यजानाद्विज्ञानं ब्रह्मेति व्यजानात्' इत्येवमनेकानि वाक्यानि तेषां परंपरेत्यर्थः ।
प्रकृते । पूर्वोक्तमिति जन्माद्यधिकरणवादादुक्तमित्यर्थः । वदन्तीति 'स वा एष पुरुषोऽन्नरस-
284
रूपमाह । यतस्तेनैव रूपेणाधिभौतिके रूपे आध्यात्मिकस्य पुरुषस्य प्रवेशः ।
तदुक्तं वाजसनेयिशाखायाम् । 'पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः, पुरः स पक्षी
भूत्वा पुरः पुरुष आविशत्' इति । वस्तुतस्तु पुरुष एव । परं तु पुरःसंबन्धी सन्
पक्षी भूत्वा पुरः शरीराण्याविशदित्यर्थः । प्राकृतीषु विविधासु पूर्वमप्राकृतस्यैक-
विधस्य प्रवेशोऽनुचितो यद्यपि तथापि स्वप्रवेशं विना न किंचिद् भावीति
गतिप्रतिबन्धकमुल्लङ्घ्यालौकिक्या गत्या प्रविशामीति ज्ञापनाय पक्षिभवनम् ।
स हि तादृशः । अत एव द्विपदश्चतुष्पद इत्युक्तम् ।
आधिदैविक एक एवेति यः पूर्वस्येति सर्वत्रोक्तम् ।
भाष्यप्रकाशः।
इति नात्राध्यात्मिकपुरुषोपदेश इत्याशङ्कायां तद्बोधनाय श्लोके हेतुमाहुः यत इत्यादि ।
तथा च पक्षिरूपस्यातिरिक्तत्वाङ्गीकारे पक्षादिपदेषु लक्षणाभावादायमेव पक्षो ज्यायानित्यतस्तथे-
त्यर्थः । ननु तथापीदंपदे लक्षणागौरवं चाधिकमतो नेदं साधीय इत्यतः श्लोकमप-
ह्वनन्ति तदुक्तमित्यादि । तथाचातिरेकस्य श्रुत्युक्तत्वात् तेनेदंपदलक्षणाया अप्यदुष्टत्वादय-
मेव पक्षो ज्यायानित्यर्थः । एकविधस्येति अन्नमयेऽन्नमयरूपस्येत्येवमित्यर्थः । स हि
तादृश इति पक्षी यतो गतिप्रतिबन्धकोल्लङ्घनेनेष्टदेशप्रवेशसमर्थ इत्यर्थः । प्रतिबन्धकज्ञापक-
माहुः अत एवेत्यादि । तथाच पुरां विशेषणबलात् तथावसीयत इति नात्र कल्पना-
लेशोऽपीत्यर्थः । नन्वेवं पक्ष