अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 357, कुल 2600 में से
संदर्भ में पढ़ें३६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० ११
अथवा 'स नैव रेमे, तस्मादेकाकी न रमते स द्वितीयमैच्छत्, स
हैतावानास' इत्यादिश्रुतिभिरेष उ एवेतिश्रुतेश्च तानि तानि साधनानि कार-
यित्वा तानि तानि फलानि ददद् भगवान् स्वक्रीडार्थमेव जगद्रूपेणाविर्भूय
क्रीडतीति वैदिकैर्निर्णयते । एतदेव काण्डद्वयेऽपि प्रतिपाद्यते ।
भाष्यप्रकाशः ।
सांप्रतं तु प्रभुचरणैरखण्डब्रह्मवादेन पूर्वं सिद्धं कार्यस्यापि ब्रह्मत्वमनूद्यानन्दस्य साधन-
शेषत्वेऽपि रूपभेदेन फलत्वानपायाज्ज्ञेयकोटावानन्दं निवेश्यापि तेभ्य आनन्दमयभेदः 'तस्यैष एव
शारीर आत्मा' इत्यादिवाक्याभ्यासाद् वर्णकान्तरेणाधिदैविकवादमाश्रित्य साध्यते अथवेत्यादि ।
तदर्थं पूर्वं सर्वश्रुतीनां ब्रह्मपरत्वेनैकवाक्यत्वाय प्रतीयमानस्य द्वैतस्य बाध्यताप्रकारबोधनाय च
सृष्टिप्रक्रियासारणपूर्वकमखण्डब्रह्मवादस्वरूपं सप्रमाणं निरूप्यते स वै नैवेत्यादि । वैदिकैरिति
प्राचीनौपनिषदैः । एतेन संमतिरपि शिष्टानामुक्ता । एतेन सृष्टीच्छायां प्रयोजिका क्रीडेच्छेति
बोधितम् । एतदेव काण्डद्वयेऽपि प्रतिपाद्यत इति 'शाब्दस्य हि ब्रह्मण एष पन्थाः' इत्यनेन
रश्मिः ।
इति श्लोकेन भाष्यसमाप्तौ च—
'जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् ।
तदन्यदिति ये प्राहुरसुरांस्तानहो बुधाः' ॥
इति श्लोकेन च तथैवोक्तत्वात् । भक्तिरेव साधनं श्रौतस्मार्तं च प्रमेयमेकमेव 'स्मृतेश्च' इति
सूत्रेण श्रौतस्याप्यर्थस्य व्यासपादैः स्मृत्योपबृंहणादित्येतावान् मतभेदः । अन्यत्समानमित्याशयेन
भाष्यं भिन्दन्ति सांप्रतमित्यादि । प्रभुचरणैरिति श्रीमद्विट्ठलेश्वरदीक्षितैरित्यर्थः । तेन पूर्ववर्ण-
कस्यापि मुख्यत्वं न तु तत्र किमप्यस्वारस्यमिति ध्वनितम् । एवं तत्र तत्र मतभेदो द्रष्टव्यः । प्राकर-
णिकग्रन्थनिबन्धाद्येकवाक्यतायां विचार्यमाणायां तु एकमेव मतमिति वस्तुस्थितिरस्त्वेवेति विभावनीयं
महद्भिः । 'पितृप्रवर्तितपथप्रचारसुविचारकः' इति नामरत्नग्रन्थनाम्नः प्रभूणाम् । अत एव मिलि-
तयोरेवाचार्यत्वम् । अखण्डब्रह्मवादेनेति नात्राखण्डब्रह्मवादो 'अखण्डं कृष्णवत्सर्वं' इति
निबन्धोक्तः, तस्य ज्ञानमार्गीयत्वात् 'भजनं सर्वरूपेषु' इत्यस्य तत्वदीपे तथाकथनात् । किं तु
लीलासामग्रीसहितमेकखण्डं ब्रह्मेति परमभागवतेन वादेनेत्यर्थः । एतत्स्वरूपं द्युभ्वाद्यायतनाधिकरणे
'प्रकरणात्' इति सूत्रे वक्ष्यति । रूपभेदेनेति गणितत्वागणितत्वकृतेनेत्यर्थः । द्वैतस्येति
संशयरूपस्य संख्यारूपस्य वा बाध्यताप्रकारसूचनाय सर्वस्य ब्रह्मत्वबोधनेनेत्यर्थः । निरूप्यत इति ।
यत्तु शंकरपादा अतः परस्य ग्रन्थस्य किमुत्थानमुच्यते द्विरूपं हि ब्रह्मावगम्यते इत्यादिना सोपाधिक-
निरुपाधिकभेदेन श्रुतिव्यवस्थामाहुः तत्तात्त्विकत्वातात्त्विकत्वाभ्यां द्वेधा भेदस्य विद्वन्मण्डने निपुणतरं
खण्डनात् । ग्रन्थोत्थाने प्रकारान्तरमुपदिशद्भिरिति शेषः । स वै नैवेत्यादीति इदं प्रजापतिपरमिति
शांकरा व्याचक्षते तदशोभनं 'सर्वान् पाप्मन औषत् तस्मात्पुरुषः' इति पुरुषनिर्वचनश्रुतेः अपहत-
पाप्मत्वस्य ब्रह्मलिङ्गस्य तत्र सत्त्वेन विराडात्मकप्रजापतेर्ग्रहीतुमशक्यत्वात् । किं च सोऽबिभेदित्यपि
भयं न बाधकं बाललीलायां तत्स्वीकारात् भक्तानुरोधेन । माहात्म्यं चैतद्ब्रह्मणो यद्रूपवत्त्वम् ।
अतः एकोऽप्यसाधारणो धर्मो विद्यमानः शिष्टान् संदिग्धानपि ब्रह्मधर्मानैव गमयति इति 'अन्तस्त-
द्धर्मोपदेशात्' इत्यधिकरणभाष्याच्च । न च 'ततः पतिः पत्नी चाभवताम्' इत्यनन्तरं ततो मनुष्या-
268