अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० २ सू० ७.
तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ७ ॥ ( ३-२-२ )
प्रसङ्गाज्जीवस्याज्ञानं निरूप्य सुषुप्तौ केवलमज्ञानं निरूपयितुं स्थानखभावावौ
निरूपयति । एवं श्रूयते । नाडीरनुक्रम्य 'तासु तदा भवति, यदा सुप्तः स्वप्नं न
कञ्चन पश्यति । अथास्मिन् प्राण एवैकधा भवती'ति । तथा 'प्राज्ञेनात्मना सम्प-
रिष्वक्तो न बाह्यं किञ्चन वेद नान्तर'मिति ।
तत्र संशयः । स्वप्नवत् प्रपञ्चसृष्टिं मायिकीमपि भगवान् करोति, न वेति
संशयः ।
तत्र 'य एष सुप्तेषु जागर्ती'त्यत्र जीवस्वापमात्रे भगवत्सृष्टेरुक्तत्वात्, 'स्वप्नं
न कञ्चन पश्यती'त्यत्रापि दर्शनमात्रनिषेधात्, 'न बाह्यं किञ्चन वेद नान्तर'
। तथाच हेतुमति साध्यसत्त्वान्न साधारण्यमित्यनुमानपक्षेपि भाष्यार्थः सुष्ठु ।
प्रकृते । मायिकेति । इयं ज्ञानात्मिका ग्राह्या । 'स्वप्नः सुप्तस्य विज्ञान' इति कोशात्स्वप्नस्य ज्ञान-
त्वात् । जीवस्येति । ननु 'सुषुप्तिस्त्वकामरूपो भगवा'निति 'सुषुप्त्युत्क्रान्ति'सूत्रभाष्यविरोध इति
चेत् । न । 'अकामरूपत्वादानन्दस्ये'त्युभयरूपत्वात् । प्राकरणिक इति । ज्योतिर्मय प्राकरणिकः
हेतुश्चरणाभिधानादिति । एवं व्याख्यान इति । ब्रह्मजीवसाधारण्येन व्युत्पादनसापेक्षतच्छ्रुतिरूप-
हेतुव्याख्याने । अयमर्थः । अन्यत्र तदभावपदेन स्वप्नदर्शनाभावो व्याख्यातः । 'तद्वा अस्यैत'दिति
श्रुतिर्नोक्तेति । लाक्षणिकेति । स्वप्नदर्शने लाक्षणिकता । दर्शनमनुव्यवसाय इत्यपि गौरवग्रस्तः
पक्षः । हृदयदेशादिति भाष्ये ल्यब्लोपे पञ्चमीत्याहुः हृदयेति ।
16
जीवस्य। इन्द्रियाणां च स एव देशः। तत्र निद्रया भगवच्छक्त्या बहिर्दृष्ट्याच्छादने
भगवल्लीलायां तां पश्यति । तत्राप्याच्छादने गाढसुप्तो ज्ञानरहितः क्रियाशक्त्या
अन्तर्भगवन्तं वा प्रविशति । बहिर्नाडीषु वा समायाति । अत एव बृहदारण्यकषष्ठे
'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह । 'ता वा अस्यैता हिता
प्राप्य स्थिताः । आभ्यन्तर इति । हृदयदेशादाभ्यन्तरः । तामिति । स्वामिकीं भगवल्लीलाम् ।
द्वैविध्ये प्रमाणमाहुः अत एवेत्यादि । तदेव स्फुटीकुर्वन्ति ता वा इत्यादि । तथाच बृहदा-
रण्यके 'यत्र सुप्त' इत्याद्युक्त्वा, किं तत् स्वापस्थानमित्याकाङ्क्षायां 'ता वा अस्यैता हिता नाम
नाड्य' इति पूर्वमुक्त्वा, पुनरपि तथैवोक्त्वा, 'तद्वा अस्यैत'दित्यादिना आत्मरूपं स्थानान्तरमुक्तम् ।
तस्मात् सुषुप्तेर्द्वैविध्यम् । उभयत्रापि कामनाभावाच्च न सृष्टिः, अत एव च न मुक्तावपीत्यर्थः ।
यत्तु, 'तद्यत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु तदा नाडीषु सुप्तो भवती'ति,
'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति, 'तासु तदा भवती'ति च, 'य एषोऽन्तर्हृदय आकाशस्त-
स्मिञ्छेते' इति, 'सता सोम्य तदा सम्पन्न' इत्यादीनि दहरदृप्तबालाकीयबालाकीयानि विषयवा-
क्यान्युपन्यस्य, किमेतेषां नाडीपुरीतत्परमात्मनां परस्परनिरपेक्षाणां सुषुप्तिस्थानत्वम्, उत
परस्परसापेक्षतयैकस्येति संशये, परस्परनैरपेक्ष्यमयुक्तम् । तथा सति व्रीहियवद्विकल्पापत्त्या पक्षे
बाधापत्तेः । नच नाडीषु सुप्तो भवति, पुरीतति शेते, य एषोऽन्तर्हृदय आकाशस्तस्मिञ्छेते
इत्येकविभक्तिनिर्देशेनैकार्थत्वात् विकल्पसोचितत्वं शङ्क्यम् । प्रासादे शेते, पर्यङ्के शेते, इत्यादौ
नानार्थत्वसमुच्चयोरप्येकविभक्तिदर्शनेन हेतोः साधारणत्वात् । 'तासु तदा भवति, यदा सुप्तः स्वप्नं
भाष्ये । इन्द्रियाणां चेति । 'मन इन्द्रियनायक'स्तत्रेति तथा । यद्वा । हृदयब्राह्मणे 'एष
प्रजापतिर्यद्धृदयम्, एतद्ब्रह्मैतत्सर्वं तदेतत्त्र्यक्षरं 'हृदय'मित्युक्त्वा 'एतत्सर्व'मिति सर्वपदार्थमाह । 'हृ
इत्येकमक्षरमभिहरन्त्यस्मै स्वाश्चान्ये च य एवं वेद, द इत्येकमक्षरं ददत्यस्मै स्वाश्चान्ये च य एवं
वेद, यमित्येकमक्षरमेति स्वर्गलोकं य एवं वेदे'ति । अर्थस्तु, अस्मै ब्रह्मणे स्वाश्चा जीवेन्द्रियाणि
अन्ये विषयाः । मर्यादामार्गीयसर्वात्मभाव उक्तः, अम्बरीषस्येव । निरोधलक्षणग्रन्थोक्तः । 'इन्द्रियाणि
जुह्वती'ति साम्श्रुतेः । अत एवैतत्कारः । भगवच्छक्त्येति । त्रिष्वननन्तरूपभगवच्छक्त्या । अनन्त-
स्यानानन्तानन्दरूपत्वेनानन्दस्य तमःशक्तित्वात् । 'आनन्दाच्च तम' इति सुबोधिन्या द्वितीयनवमाध्याये
सहस्रम् । बहिरिति । सतिसप्तम्यन्तम् । तत्रापीति । खप्नेपि सम्यग्दृष्ट्याच्छादने सति । गाढत्वं
सम्यक्त्वम् । 'प्राज्ञेनात्मना सम्परिष्वक्त' इत्युक्तश्रुतेः । ज्ञानरहित इति । 'न बाह्यं किञ्चन
वेद न चान्तर'मिति श्रुतेः । क्रियाशक्त्येति । 'सम्परिष्वक्त' इतिश्रुतेः । भगवन्तमिति ।
अकामरूपं भगवन्तम् । प्रकृते । स्थानान्तरमिति । नाडीस्थानम् । अन्यत्स्थानं स्थानान्तरम् ।
उभयत्रेति । सुषुप्त्योः । सुषुप्तिस्त्वित्यादिभाष्यर्थः स्फुटः ।
यस्त्वित्यादि । तदेतत्त्सामीपतरवर्ति यत्र यस्मिन्काले सम्यक् अस्तः । ताभिरिति ।
नाडीभिः । तास्विति । नाडीषु । दहरेति । जलीयाः परमाणव इत्यत्रेव छः । पक्ष
इति । नाड्यः तदभाववत्यः तच्छ्रुतेः । आत्मवत् । 'आत्मा तदभाववान् तच्छ्रुतेः नाडीव'दित्यत्र
हृदये स्वप्नदर्शनाभावरूपसाध्ये पक्षे नाडीषु बाधः । पक्षे साध्याभावस्य बाधत्वात् । नानार्थत्वेति ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३
भाष्यप्रकाशः।
न कञ्चन पश्यति, अथास्मिन् प्राण एवैकधा भवती'ति कौषीतकिश्रुतौ प्राणाख्यस्य परमात्मनो
नाडीसमुच्चयावधारणात् । यत्र पुनः केवलनाडीनामेव सुषुप्तिस्थानत्वेन श्रवणम्, तत्रापि ब्रह्मणः
प्रतिषेधाभावान्नाडीद्वारेण ब्रह्मण एव स्थानत्वस्य युक्तत्वात् । नच द्वारत्वे 'नाडीषु सुप्तो भवती'ति
सप्तमीविरोधः । सञ्चारस्थानत्वेन तदविरोधात् । गङ्गाया सागरं गच्छतो गङ्गायां स्थितिवत्
तदुपपत्तेः । तस्मान्नाडीब्रह्मणोः समुच्चयः । एवं पुरीतद्ब्रह्मणोरपि । पुरीततोपि ब्रह्मप्रक्रियायां
सङ्कीर्तनात् । 'योऽन्तर्हृदय आकाशस्तस्मिञ्छेते' इति प्रकृत्य, 'पुरीतति शेते' इति कथनात् ।
हृदयाकाशस्य ब्रह्मत्वं तु दहराधिकरणे सिद्धम् । पुरीतत्तु हृदयवेष्टनम् । एवञ्च तद्वेष्टितो हृदया-
काशः प्राकारपरिक्षिप्तपुरमिव भवतीति हृदयाकाशे शयने पुरीततोपि समुच्चयो जात एवेति ।
एवञ्च श्रुतिषु स्थानत्रयकथनेपि नाडीपुरीततोर्द्वारमात्रत्वम् । ब्रह्मैव तु सुषुप्तिस्थानमित्युक्तम् ।
तत्र पुरीतत्समुच्चयं त्वनुमन्यामहे । एकवाक्यगतत्वात् । नाडीनां समुच्चयं तु न मृष्यामः ।
बृहदारण्यके ज्योतिर्ब्राह्मणे 'यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं पश्यति, ता वा
अस्यैता हिता नाम नाड्य इति, अथ यत्र सुप्तो न कञ्चन कामं कामयते, न कञ्चन स्वप्नं
पश्यति, तद्वा अस्यैतदात्मकाममाप्तकाममकाम ५ रूपं तद्यथा प्रियया स्त्रिये'ति नाडीपरमात्मभेदेन
अथशब्दात् प्रकृतच्छेदेन च श्रुतस्य 'यत्र सुप्त'वाक्याभ्यासस्य विरोधात् । अभ्यासप्रकृतच्छे-
दाभ्यां सिद्धे सुषुप्तिस्थानभेदे विकल्पस्यापि प्राप्ततया दुष्टत्वाभावात् । 'ताभिः प्रत्यवसृप्ये'त्युक्ते
नाडीषु सर्पण इवार्थादपि तत्प्राप्तेश्च । एवं सति कौषीतकीये 'अथास्मिन् प्राण एवे'ति वाक्येपि
विकल्पार्थक एवाथशब्दो ग्राह्यः । आनन्तर्यार्थकत्वेपि पूर्वापरकालभेदस्य प्राप्तत्वेन पूर्वकालिकस्य
नाडीषु सुष्वापस्याबाधात् । अपरकालिकस्य प्राण एकीभावस्यापि भगवदिच्छाकृतप्रत्यवसर्पणतः
रश्मिः।
समुच्चयस्तु प्रासादे शेते, ततः प्रत्यवसृत्य पर्यङ्के शेत इति । एकविभक्तिः सप्तमी । हेतोः तच्छ्रुतिरूपस्य
साध्याभाववत्यात्मनि सत्त्वेन साधारणत्वात् । नाडीति । तास्वितिषदोक्तनाडीसमुच्चयावधारणात् ।
अथेत्यस्यानन्तर्यार्थत्वात् । यत्रेति । 'आसु तदा नाडीषु सुप्तो भवती'त्यादौ । प्रकरणाभावादे-
वकार आत्मव्यवच्छेदकः । ब्रह्मण एवेति । एकवाक्यतासम्भवादेवकारः साक्षान्नाडीव्यवच्छेदकः ।
सप्तमीति । किन्तु नाडीभिः सुप्तो भवतीति तृतीयापत्तिरित्यर्थः । सञ्चारेति । समस्तो जीवो नाडीषु
सञ्चरतीति तथा । तद्विरोधात् सप्तम्यविरोधात् । गच्छत इति । काष्ठादेः । समुद्रे गच्छतः
काष्ठादेः गङ्गायां समुद्रधारायां काष्ठादिर्गच्छतीति प्रयोगात् । तदुपपत्तेः । सप्तम्युपपत्तेः । नाडीब्रह्म-
णोरिति । नाड्यात्मनोः । कथनादिति । दहरस्य परमात्मत्वनिर्णयात् । अन्तर्हृदय आकाशो दहरः ।
हृदयेऽन्तराकाश इत्यन्वयः । हृदयवेष्टनमिति । भास्करभाष्येप्येवम् । हृदयाकाश इति । ब्रह्मपुरम् ।
तदाहुः प्राकारेति । प्राकारो हर्म्यं परिक्षिप्तः यत्र पुरे तद्वत् । जात एवेति । उक्तदृष्टान्तादेवकारः ।
ब्रह्मैवेति । नाडीपुरीततोर्व्यवच्छेदकैवकारः । सुषुप्तिस्थानभेद इति । नाड्याकामजीवरूपसुषुप्ति-
स्थानभेद इत्यर्थः । दुष्टत्वेति । अयमग्रे विचारयिष्यते । ताभिरिति । नाडीभिः सह जीवः ।
प्रत्यवसृप्येत्युक्ते नाडीषु सर्पणम् । पुत्रेण सह तृणं स्पृष्ट्वा गतः पितेत्यत्र पुत्रे तृणस्पर्शवत् । अर्थादा-
क्षेपादपि तत्प्राप्तेर्विकल्पप्राप्तेः । विकल्पस्तु नाडीपुरीततोः । विकल्पार्थक एवेति । कोशादेवकारः ।
नन्वष्टदोषदुष्टविकल्पार्थं विकल्पार्थत्वं न युक्तमत आहुः आनन्तर्येति । पूर्वेति । अनन्तरस्य काल-
1629
९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० २ सू० ७.
सुखेन सिद्धेश्र । न च नाडीस्वापवाक्ये ब्रह्मणोऽप्रतिषेधात् प्राप्तिरिति वाच्यम् । आभ्यासिकभेदा-
देवार्थात् तत्प्रतिषेधसिद्धेः । अन्यथा तद्वैय्यर्थ्यप्रसङ्गस्य दुर्निवारत्वादिति । एवञ्च सुप्तापोत्तर-
कालीनस्मरणेपि कदाचित् सुखस्य स्वापविशेषणतया भानं कदाचिच्च नेत्यपि युज्यते । न च नाडीषु
स्वापे प्रपञ्चदर्शनप्रसङ्गः । सुषुप्तौ कामाभावश्रावणेन मनसो लयावगमात् करणाभावेन मायिक-
प्रपञ्चानुत्पत्त्या बाह्यस्य च विप्रकृष्टतया करणलयेन च तदप्रसङ्गात् । अतो न दर्शनाभावार्थमपि
सत्सम्पत्त्यपेक्षा । किञ्च । सूत्रकारस्यापि सुषुप्तिद्वैविध्यमेवाभिप्रेतम् । अन्यथा 'तदभाव आत्मनि
तच्छ्रुते'रित्येव सूत्रयेत् । तावतैव द्वैतदर्शनाभावपाप्मसंसर्गाभावयोः सिद्ध्या नाडीचकारयो-
र्निर्देशस्य वैयर्थ्यात् । तेनैतत् सिद्धम् । नाडीपरिवर्तने स्वप्नदर्शनम् । तासां प्रान्तभागे पुरीत-
त्निकटे सुषुप्तिः । पुरीतदन्तर्हृदये आकाशे सत्सम्पत्तिरिति ।
ननु भवत्वेवम्, तथापि विकल्पस्य कथमदुष्टत्वमितिचेत् । उच्यते । विकल्पे हि प्राप्तप्रामा-
ण्यपरित्यागः, अप्राप्तप्रामाण्यस्वीकारः, परित्यक्तप्रामाण्यस्वीकारः, स्वीकृतप्रामाण्यपरित्यागश्चेति
विशेषणत्वादिति भावः । आभ्यासिकेति । 'यत्र सुप्तो न कञ्चन कामं कामयत' इति वारद्वयमाह,
अतो 'यत्र सुप्त' इति वाक्याभ्यासिकभेदात् । अभ्यासस्य भेदकत्वं पूर्वतन्त्रेस्ति । एवकारेण प्रकृत-
च्छेदयोगव्यवच्छेदः क्रियते । तत्प्रतीति । ब्रह्मणः 'योन्तर्हृदयआकाशस्तस्मिञ्छेते' इति श्रुत्युक्तस्य
प्रतिषेधसिद्धेः । ननु नञाभावात्कुतस्तत्प्रतिषेधसिद्धिः, अत उक्तं अर्थादिति । आक्षेपात् । ननु
किमर्थं नञार्थप्रतिषेधाक्षेप इत्यतो युक्तिमाहुः अन्यथेति । तद्वैय्यर्थ्यप्रसङ्गस्याभ्यासिकभेदवैय्यर्थ्य-
प्रसङ्गस्य । तथाचाभ्यासिकभेदवैय्यर्थ्यप्रसङ्गन्निवारणार्थमित्यर्थः । सुषुप्तापेति । 'सुखमहमस्वाप्सं न
किञ्चिदवेदिष'मिति स्मरणे । कदाचिच्चेति । सुखसहचरितदुःखाभावकालो यदि । चिन्नद्यर्थकम् ।
मनस इति । कामरूपवृत्तिमतो मनसः । करणाभावेनेति । 'यथा शयानः पुरुषो मनसैवात्म-
मायया । सृष्ट्वा लोकं परं स्वाप्नमनुविश्यावभासत' इत्युक्तश्रीभागवतवाक्यात् । तदप्रसङ्गात् प्रप-
ञ्चदर्शनाप्रसङ्गात् । अपीति । पूर्वं सुषुप्तौ प्रपञ्चसतार्थं सत्सम्पत्तिः स्वाप्ययसम्पत्तिसूत्रोपन्यासे-
नोक्ता । तथाच सत्सम्पत्तिश्रुत्युपन्यासो विषयश्रुत्युपन्यासे समाप्तपुनरात्तत्वदोषग्रस्त इति भावः ।
एवेति । नाडीषुपदस्य चशब्दस्य चोपादानादेवकारः । द्वैतदर्शनेति । तथाच भाष्यं 'नाडीषु
सुप्तो भवती'त्युक्त्वा 'तन्न कश्चन पाप्मा स्पृशती'ति । ब्रह्मसम्पत्तिश्च पाप्मसंसर्गाभावे हेतुः समधि-
गतः । 'सर्वे पाप्मानो निवर्तन्ते अपहतपाप्मा ह्येष ब्रह्मलोक' इत्यादिश्रुतिभ्यः । ब्रह्मसम्पत्त्या द्वैतदर्शना-
भावोपि । पाप्मसंसर्गाभावोपि विवृतः । स्वप्नदर्शनसुषुप्तिद्वयविवेकमाहुः तेनैतदिति । प्रान्तभाग
इति । 'ताभिः प्रत्यवसृप्य पुरीतति शेत' इति श्रुतेः । पुरीतन्निकट इति । तेन 'पुरीतति शेते'
इत्यत्र सामीप्ये सप्तम्युक्ता । सति सम्पत्तिरिति । 'आत्मनि चे'त्युक्ता सुषुप्तिरपीयम् । कथमिति ।
शाङ्करप्रश्नः । श्रुतीनां विरोधे विकल्प इति मन्वङ्गीकारात्तत्समादधतिस्म विकल्पे हीति । 'नाडीषु सुप्तो
भवतीति,' 'पुरीतति शेते,' 'य एषोन्तर्हृदय आकाशस्तस्मिञ्छेते' इति । 'एतदेकवाक्यतापन्ने नाडी-
परिवर्तन' इत्याद्युक्ते वाक्ये । विकल्पे हि अष्टौ दोषाः । 'तस्मादात्मैव सुषुप्तिस्थान'मिति शाङ्करभाष्ये
समुच्चयोज्झीकृतः, तत्र नैकोपीति तान् गणयन्तिस्मानुवादरूपात् । प्राप्तेति । 'इषेत्वेति शाखां छिनत्ती'-
त्यनेन क्षशयन्नस प्राप्तत्वात् । शाखा क्षशय्येति व्याख्यानात् । अप्राप्तेति । वैदिकत्वेनाप्राप्तमप्रामाण्यं
तस्य स्वीकारः । परित्यक्तेति । अर्थबोधार्थं तया । गौणं प्रामाण्यम् । स्वीकृतेति । तदर्थमेव
१. सबिस्वत्र रश्मौ सतीति पाठः । २. मीमांसक ।
1630
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९५
नाम नाड्यः', 'तद्वा अस्यैतदात्मकाम' मिति भेदेन । सुषुप्तिस्तृभयत्र । ज्ञानशक्तेः
सर्वथा तिरोधानात् । तस्मात् सुषुप्तौ न प्रपञ्चसृष्टिः ॥ ७ ॥
इति तृतीयाध्याये द्वितीयपादे द्वितीयं तदभावो नाडीष्वित्यधिकरणम् ॥ २ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥ ( ३-२-३ )
प्रबोधे सन्देहः । 'प्रतियोन्याद्रवति बुद्धान्तायैवे'ति जीवसमानधर्मब्रह्म-
भाष्यप्रकाशः।
ब्रह्मवाक्यकोटौ दोषचतुष्टयम् । एवं नाडीवाक्यकोटौ दोषचतुष्टये व्रीहियववाक्यद्वयोजितेऽष्टौ
दोषा इति हि भवतां मतम् । तत्र प्रामाण्याप्रामाण्ययोः स्वरूपं विचारणीयम् । किं सदर्थबोधकत्वं
प्रामाण्यम्, असदर्थबोधकत्वमप्रामाण्यम्, उत बोधकत्वं प्रामाण्यम्, अबोधकत्वमप्रामाण्यम्,
अथवा अनुष्ठापकत्वं प्रामाण्यम्, अननुष्ठापकत्वमप्रामाण्यमिति । तत्र नाद्येन । वाक्यद्वयेनापि
सदर्थबोधस्य जायमानतया तत्यागास्याभावेनासदर्धबोधकत्वस्य काप्यनङ्गीकारेण तत्कृतदोषाणा-
मत्राभावात् । अत एव न द्वितीयेन । नापि तृतीयेन । वाक्यद्वयस्यापि सिद्धार्थपरतया अनुष्ठाप-
कत्वस्याभावेन त्याज्यत्वस्य तत्रायोगात् । अननुष्ठापकत्वस्य सर्वसम्मतत्वेन विकल्पानङ्गीकर्तृमतेपि
तुल्यतया तत्र पर्यनुयोगानवकाशात् । तस्मात् पूर्वोक्तमनवद्यम् ॥७॥ इति द्वितीयं तदभावो
नाडीष्वित्यधिकरणम् ॥ २ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥ अधिकरणप्रयोजनमाहुः प्रबोधे सन्देह इति । तथाच
तन्निरासायेदमधिकरणमित्यर्थः । विषयवाक्यमाहुः प्रतियोनीत्यादि ।
इदं बृहदारण्यकीयज्योतिर्ब्राह्मणस्थम् । 'स वा एष एतस्मिन् सम्प्रसादे रत्वा चरित्वा
दृष्ट्वैव पुण्यं च पापं च प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्तायैवे'ति । अर्थस्तु, स प्रकृतो जीवात्मा
रश्मिः।
वेदान्ताधिकरणमालायां तु 'यदा जीवो नाडीषु शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः प्राप्तं प्रामाण्यं परित्यक्तं
स्यात् । अप्राप्तं प्रामाण्यं चाङ्गीक्रियेत । यदा पुनः पुरीत्तद्ब्रह्मणोः शेते, तदा पुरीत्तद्ब्रह्मवाक्ययोः
पूर्वत्यक्तं प्रामाण्यं स्वीक्रियेत । पूर्वस्वीकृतं चाप्रामाण्यं परित्यज्येतेति प्राप्तपरित्यागोऽप्राप्तस्वीकारस्त्यक्त-
स्वीकारः स्वीकृतत्यागश्चेति दोषचतुष्टयं पुरीत्तद्ब्रह्मवाक्यकोटौ । तथा नाडीवाक्यकोट्यामपि दोषचतुष्टये
योजिते सत्यष्टौ दोषाः सम्पद्यन्त' इति । एवमिति । ब्रह्मवाक्योक्तप्रकारेण । व्रीहीति । एकपुरोडा-
शार्थत्वं व्रीहियवयोर्दृष्टम्, तद्वाक्ये तु 'व्रीहिभिर्यजेत यवैर्यजेते'ति च । तद्वत्सुषुप्त्यर्थत्वं ब्रह्मवाक्यनाडी-
वाक्ययोरिति ब्रह्मवाक्य इव नाडीवाक्ये दोषचतुष्टये योजिते भवतां शाङ्कराणां मतम् । अत्र वितण्डा-
माहुः सदर्थेति । प्रमाकरणं सदर्थबोधकं तत्त्वं प्रामाण्यमित्यर्थः । बोधकत्वमिति । अनधिगतार्थ-
गन्तृत्वम् । वाक्यद्वयेनेति । विकल्पसङ्ग्राहकेण 'तासां प्रान्तभागे'त्याद्युक्तेन समुच्चयकसङ्ग्राहकेण ।
'तस्मादात्मैव सुषुप्तिस्थान'मिति शङ्करभाष्यवाक्येन च । कापीति । प्रमाणलक्षणत्वेनोक्तव्याख्या-
कत्वेन च क्वापि । अत्रेति । प्रामाणिकविकल्पे । अतएव काप्यनङ्गीकारादेव । सिद्धार्थेति । नतु
साध्यार्थामिष्टोमवत्साध्यार्थपरतया । तत्रेति । अनुष्ठापकत्वाभावे । तत्रेति । विकल्पे । 'यत्रोभयोः
समो दोषः परिहारश्च तत्समः । नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारण' इत्युक्तेः ॥ ७ ॥ इति द्वितीयं
तद्भावो नाडीष्वित्यधिकरणम् ॥ २ ॥
अतः प्रबोधोऽस्मात् ॥ ८ ॥ प्रतियोनीत्यादीति । जीवसमानधर्मं ब्रह्म तस्य प्रकरणे ।
1631
९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ८.
प्रकरणे निरूपितम् । ततो नाडीभ्यः पुनर्हृदयदेशं गत्वा, भगवतो वा समागत्य,
जागर्तीति, आहोस्विद्यत्र स्थितः, तत एव जागर्तीति ।
तत्र श्रुत्यनुरोधात् हृदयदेशमागत्य जागर्तीत्येवं प्राप्ते, उच्यते ।
अतो नाडीभ्य एव प्रबोधः । गर्तपतितस्य प्रबोधे हि ततो गमनम् । प्रतियो-
भाष्यप्रकाशः।
वै निश्चयेन एषः स्वयंज्योतिः। एतस्मिन् सम्प्रसादे सम्यक्प्रसीदत्यस्मिन्निति सम्प्रसादः सुषुप्ति-
स्थानं तस्मिन् सम्प्रसादे रत्वा क्रीडित्वा सता सम्परिष्वज्य, चरित्वा 'चर गतिभक्षणयोः'
तदानन्दं भुक्त्वा, दृष्ट्वैव पुण्यं च पापं च। चकारात् तदुभयफलभूते सुखदुःखे स्वाप्ने नाडीष्व-
नुभूय, प्रतिन्यायम्, आयो गमनं नितरामायो न्यायः पूर्वस्मात् गमनात् प्रातिकूल्येन गमनं प्रति-
न्यायः, तद्यथा स्यात् तथा, प्रतियोनि, यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्य
आद्रवत्यागच्छति बुद्धान्ताय जागरणायेति ।
अन्ये तु, रमणं स्वरूपानन्दानुभवः। 'आनन्दभु'गिति श्रुतेः। चरणं सुषुप्तावीश्वर-
सम्पत्तिः। 'सता सौम्य तदा सम्पन्नो भवती'ति श्रुतेः। पुण्यदर्शनं त्वानन्दानुभवः। तस्य
तत्फलत्वात् । सुखमहमस्वाप्समित्यनुभवात् । पापदर्शनं त्वज्ञानानुभवः। तस्य तत्फलत्वात्। न
किञ्चिदवेदिषमित्यनुभवादिनेति श्रुतेरित्याहुः । तदग्रे विचारणीयम् ।
संशयाकारमाहुः तत इत्यादि । भगवतो वा समागत्येति । भगवतः सकाशाद्
हृदयदेशं समागत्य ।
पूर्वपक्षमाहुः तत्रेत्यादि । श्रुतौ 'चरित्वा प्रतिन्यायं प्रतियोन्याद्रवति बुद्धान्ताये'ति
गमनार्थकधातूत्पन्नक्त्वाप्रत्ययेन प्रतियोन्याद्रवणात् पूर्वकाले गमनं श्राव्यते । अतस्तदनुरोधात्
स्वस्थानं हृदयदेशमागत्यैव जागर्तीत्येवं प्राप्त इत्यर्थः ।
सिद्धान्तं व्याकुर्वन्ति अत इत्यादि । श्रुतौ हि प्रतिन्यायमाद्रवणमुक्तम् । तच्चागमन-
क्रियारूपम् । तादृशी च क्रिया न जागरणं विनोपपद्यते । अतः प्रतिकूलागमनरूपाज्जागरण-
रश्मिः।
सुषुप्त्युत्क्रान्त्यधिकरणे स्फुटम् । न्यायशब्दं व्युत्पादयन्तिस्म आय इत्यादि । योनिर्बीजम् । गमना-
दिति । हृदयान्नाड्यात्मनो गमनात् । प्रातिकूल्येन नाड्यात्मभ्यां हृदये गमनम् । भगवत इति ।
'आत्मनि चे'ति सूत्रांशेन भगवान् स्थानत्वेनोक्तस्तस्मात् । भाष्ये । यत्र स्थित इति । नाडीषु
भगवति च । एवकारः प्रतिन्यायव्यवच्छेदकः। प्रकृते। तत्रेतिभाष्यशब्दार्थमाहुः श्रुताविति ।
प्रतियोनीति । यतः सम्प्रसादे समागतस्तत्स्थानं योनिस्तल्लक्षीकृत्याद्रवत्यागच्छति तस्मात्प्रतियो-
न्याद्रवणात् पूर्वकाले चरित्वेति गमनं विषयश्रुतौ श्राव्यते । अत इति । उक्तार्थवाचकपदघटित-
त्वात् । तदनुरोधाद्विषयश्रुत्यनुरोधात् । स्वस्थानं जीवस्थानम् । आगत्यैवेति । भाष्य
एवकारो नास्ति, परं पूर्वपक्षिप्रौढ्योक्तः । पुरीतन्नाडीब्रह्मयोगव्यवच्छेदकः । प्रतिन्यायमिति ।
'प्रतिन्यायं प्रतियोन्याद्रवती'त्यनेनोक्तम् । आगमनेति । आद्रवतीत्यस्यागच्छतीत्यर्थात् । न
जागरणमिति । 'बुद्धान्ताये'त्युक्तजागरणं फलरूपप्रवर्तकं विना नोपपद्यते । 'प्रयोजनमनुद्दिश्य न
मन्दोपि प्रवर्तत' इति वाक्यात् । अतः प्रतीति। फलस्य विवक्षणात् । प्रतिकूलागमनं हृदया-
गमनं तेन रूप्यते व्यवह्रियते यद्बुद्धान्तरूपं जागरणं इन्द्रियैर्विषयग्रहणं तस्मात्फललिङ्गात् । अत
इत्यावर्त्तते । अतो नाम नाडीभ्य एव प्रबोध इत्यर्थः । एवकारो हृदययोगव्यवच्छेदकः । एवकारस्य
1632
न्याद्रवणं तु भगवत इति । किञ्च । प्रबोधोऽस्मात् । अस्मादात्मनः सकाशादेव
प्रबोधः । प्रिययेव सम्परिष्वक्तस्य बोधाभावे कथमागमनम् । अत एव सम्परि-
ष्वक्तो निबिडनिद्रः । तस्मात् यत्रैव तिष्ठति, तत एव प्रबोध इति सिद्धम् ॥ ८ ॥
भाष्यप्रकाशः ।
लिङ्गान्नाडीभ्य एव प्रबोधः । युक्तं चैतत् । गर्तपतितस्य प्रबोध एव ततो गमनं लोके यतो
दृश्यते । न च 'चरित्वे'त्यस्य विरोधः । 'चर गतिभक्षणयो'रिति भक्षणार्थस्यैव तत्र ग्राह्यत्वात् ।
'आनन्दभु'गिति श्रुत्या भोगस्य तत्रोक्तत्वादिति । नच तत्र प्रबुद्धोऽन्यत्र कुतो न गच्छतीति
शङ्कनीयम् । श्रुत्यन्तर इन्द्रियाणां यथास्थानं विप्रतिष्ठावदत्र जीवस्य प्रतियोन्याद्रवणं भगवत
एव । तस्यैव प्रेरकत्वात् । किञ्च । प्रतियोन्याद्रवणवत् प्रबोधोपि भगवद्धेतुकः । न हि स
कर्मणेति वक्तुं शक्यम् । 'अनन्वागतं पुण्येनानन्वागतं पापेने'ति श्रुतेः । किञ्च । तत्र प्राज्ञेन
सम्परिष्वक्तः प्रियया स्त्रियेव । न हि तादृशस्य बोधाभावे ततो निर्गत्यागमनं सम्भवति । अत
एव सम्परिष्वक्तो निबिडनिद्रः । यदा हि भगवता परिष्वङ्गस्त्यज्यते, तदायं प्रबुध्यते । प्रति-
योन्याद्रवति च । एवं सति तदभिप्रायाण्येव 'सत आगत्य न विदुः सत आगच्छामह' इत्यादीनि
वाक्यानि । न तु स्थानान्तराभावाभिप्रायाणि । स्थानान्तरसद्भाव उपपत्तेरुक्तत्वा
९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० ९.
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥
किञ्चिदाशङ्क्य परिहरति । ननु प्रिययेव प्राज्ञेनात्मना परिष्वक्तस्य ब्रह्मलोकं
गतस्य प्रबोधेन ज्ञाने मुक्त एव भवेत्, न तु पुनरागच्छेत्, अतो भगवदिच्छया
देहनिर्वाहाय तत्स्थाने नियुक्तोऽन्य एव जीवः समायातु, अन्यतः प्रबोधे तु स
एव, व्यवहारस्तु तावता सेत्स्यति, मुक्त्यर्थं प्रयत्नस्तु न कर्तव्य इत्याशङ्क्य, परि-
हरति तुशब्दः ।
अस्मादपि प्रबोधे स एव । कुतः । कर्मानुस्मृतिशब्दविधिभ्यः । चत्वारो
हेतवः । लौकिकवैदिकयोर्ज्ञानकर्मभेदात् । तत्र लौकिके कर्मणि सामिकृतकर्मणः
शेषसमापनात् । न हि कश्चिदपि सुसंबुद्धः सामिकृतं न समापयतीति
क्वचित् सिद्धम् । तथानुस्मृतिः । न हि पूर्वदृष्टं न स्मरतीति क्वचित् सिद्धम् । शब्दाच्च
'पुण्यः पुण्येन कर्मणा भवति, पापः पापेन' 'कैष तदाऽभूत्, कुत एतदागा'दिति,
भाष्यप्रकाशः ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि ।
एतेनाधिकरणान्तरत्वं निवारितम् । तुशब्दव्याख्यानमुखेन शङ्कां व्याकुर्वन्ति नन्वित्यादि ।
अत्र समायात्वित्यन्तमेक आक्षेपः । अन्यत इत्यादिस्त्वन्यः । तथाच लाघवात् द्वितीयः पक्ष
एवादर्तव्य इति युक्तम् । किञ्च, अन्यस्मिन् जीवे तत्रागते पितृपुत्रभर्तृभार्यादिव्यवहारविघातापत्तौ
स भगवता योगिप्रवेशन्यायेन सेत्स्यतीति कल्प्यम् । किञ्च । मुक्त्यर्थं यत्नस्तु न कर्तव्यः ।
निद्रयैव तत्सिद्धेः । तेन साधनशास्त्रवैफल्यम् । अन्यतः प्रबोधे तु न कश्चिदपि दोष इति स
एवादर्तव्य इत्याशङ्केत्यर्थः ।
परिहारं व्याकुर्वन्ति अस्मादित्यादि, सिद्धमित्यन्तेन लौकिकं हेतुद्वयमुक्तम् ।
रश्मिः ।
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ९ ॥ निवारितमिति । शङ्काव्यावर्त-
कत्वेन पूर्वपक्षाव्यावर्तकत्वात् । तुशब्देति । मुख्यमुपायः । समायात्वित्यन्तमिति । अत्र भाष्य
एवकारः 'न स पुनरावर्तत' इति श्रुतेः । अन्यत इति । नाडीतः । स इत्यादि । स व्यवहारः
भगवता व्यापकेन सर्वपित्रादिरूपिणा योगिप्रवेशन्यायेन राजादिव्यवहारन्यायेन । मुक्त्यर्थमिति-
भाष्यं विवृण्वन्तिस्म मुक्त्यर्थमिति । निद्रयैवेति । सुषुप्तेस्तृतीयावस्थात्वेनैवकारः । तत्सिद्धेः
'स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं ही'त्याविष्कृतेन सायुज्ये मुक्तिसिद्धेः । तेनेति । अस्य साधनस्य
सकलसाधारण्येन । तत्रागतजीवस्यान्यत्वेन च । स एवेति । द्वितीय एव । निर्दुष्टत्वादेवकारः ।
परिहारमिति । ॐमिति परिहारम् । अङ्गीकारेण परिहारस्य छलत्वात् । अस्मादित्यादीति । नाडी-
तोत्सादात्मनोपि प्रबोधे स एव समायाति । लौकिके होलाकाद्युत्सवाख्ये कर्मणि । न स्मरतीति ।
अनु न स्मरतीत्यर्थः । शास्त्रक्रमेण पूर्वं कर्मोदाहृतम्, पश्चाज्ज्ञानम् । कैष तदेति । दृप्तबालाकि-
ब्राह्मणस्थम् । तदेति । सुप्तकाले । 'सति सम्पद्ये'त्यादिश्रुतिः स्पष्टा । आदिसन्दर्भो व्याख्यातः ।
१. सुसप्रतिबुद्ध इति पाठः ।
1634
तथा 'सति सम्पद्ये'त्यादयश्च । विधयश्च 'श्वोभूते ब्रह्माणं वृणीते' 'श्वोभूते शेषं
समामृश्यात्' 'एक एव यजेत' 'द्वादशरात्रीर्दीक्षितः स्या'दित्यादि, 'यः कामयेत
वीरो म आजायेते'त्यादयः । भगवतैव मर्यादारक्षार्थं तथा करणात् । पूर्वपक्षयुक्तयो
दुर्बलाः । तस्मात् स एव प्रतिबुध्यते ॥ ९ ॥
भाष्यप्रकाशः।
वैदिकं हेतुद्वयं व्याकुर्वन्ति शब्दाश्चेत्यादि । तथाच सौषुप्तिकसत्सम्पत्त्या मुक्तौ पुण्यपापात्म-
कफलाभावादुक्तवाक्यं विरुध्येत । 'कैष' इत्यत्रा'प्येष' इत्यनेन सुप्तं आगतं चैकमेव परामृशति ।
तदपि विरुध्येत । 'सति सम्पद्ये'त्यत्रापि सर्वासां प्रजानामज्ञानं वदति । यदि ता मुक्ताः स्युः,
तदा अज्ञानोक्तिरपि विरुध्येत । अत एते शब्दाः सुप्तप्रबुद्धस्यैकस्यैव ज्ञापकाः । एवं विधयोपि ।
ननु भवत्व
१७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ३ सू० १०.
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥
किञ्चिदाशङ्क्य परिहरति । ननु यत्र कर्मानुस्मृतयो न सन्ति, तत्रान्यो
भविष्यति, कचिन्मूर्च्छादिविशेषे सर्वस्मृतिनाशेन मुग्धभावदर्शनात्, तत्र
यथा लौकिकवैदिकव्यवहाराः, तथान्यत्रापि भविष्यन्ति, अनुस्मरणादयश्च
बुद्धिवृत्तयः, गङ्गाप्रवाहजलस्य गङ्गावत् , य एव चिदंशस्तत्रायाति, स एव तथा
भवतु, किं स एवेति निर्बन्धेनेत्याशङ्क्य परिहरति ।
भाष्यप्रकाशः ।
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ सूत्रमवतारयन्ति किञ्चिदित्यादि । एतदेव
विभजन्ते नन्वित्यादि । यत्रैते हेतवः सन्ति, तत्र स एव भवतु । यत्र पुनरैक्यसाधका एते हेतवो
न सन्ति, यथा मूर्च्छाविशेषनिवृत्त्यनन्तरमतिमुग्धे अमरुनामके राजनि । तद्देहे शङ्कराचार्यजीव-
प्रवेशस्य लोके प्रसिद्धेः । अतस्तादृशे मुग्धे यथा लौकिकवैदिकव्यवहाराः, तथा सौषुप्तिकेऽप्य-
न्यजीवे भविष्यन्ति । किञ्च । अनुस्मृत्यादयो बुद्धेर्वृत्तयः, ता जाग्रत्यपि नाना भवन्ति । अतो
गङ्गाप्रवाहे पतितस्य जलान्तरस्यापि यथा गङ्गावत् व्यवहारः, तथा य एव चिदंशस्तस्मिन् बुद्धिवृत्ति-
प्रवाह आयात, स एव पूर्वकर्मसमापनकर्ता भवतु । एवं शब्दा विधयश्च बुद्ध्यैक्यमादायैव नेतव्या
इति लौकिकवैदिकव्यवहारसिद्धौ किं स एव समायातीति निर्बन्धेनेत्याशङ्क्य परिहरतीत्यर्थः ।
परिहारं व्याकुर्वन्ति मुग्ध इत्यादि । मूर्च्छानन्तरं जीवतो मुग्धभावे अर्धसम्पत्तिः
तत्तदितरानिश्चायिका साधारण्येव बुद्धिविंचारकस्य भवति, न सर्वा, नान्यतरनिश्चायिकेत्यर्थः ।
रश्मिः ।
मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ १० ॥ एते हेतव इति । 'अनुस्मरणादयश्च बुद्धि-
वृत्तय' इति भाष्यात् । अन्यजीव इति । 'ननु प्रिययेवे'ति भाष्योक्ते । न सन्तीति । 'तत्रान्यो
भविष्यती'तिभाष्यमत्र ज्ञेयम् । दृष्टान्तमुखेन कचिन्मूर्च्छतिभाष्यार्थमाहुः यथा मूर्च्छति । मूर्च्छा-
विशेषो मरणमूर्च्छाभिन्नः । अतिमुग्धे इति । एकदेशविकृतिन्यायेन भाष्ये मुग्धशब्द इत्याशयः ।
भाष्ये मूर्च्छादीत्यत्रादिशब्देनाघातः । राजनिति । सर्वस्मृतिनाशेन मुग्धभावदर्शनादिति भाष्यं
योजनीयम् । सर्वस्मृतिनाशो 'मेनेऽसन्तमिवात्मान' मिति वाक्येोक्त इव । अत्र हेतुः तद्देह इत्यादिः ।
तत्र यथेतिभाष्यं विवृण्वन्तिस्म अतस्तादृश इति । तथान्यत्रापीति भाष्यविवरणं तथा सौषु-
प्तिकेत्यादि । अन्वित्यादिभाष्यं विवृण्वन्ति स्म किञ्चेति । 'अनुस्मरणादय' इत्युक्ते शाङ्करोक्तोपाधिबु-
द्धिसरजन्माकस्मिकं स्यात्तदर्थं लाघवाय सौत्रानुस्मृतिशब्दपुरःसरं व्याकुर्वन्तिस्म अनुस्मृत्यादय इति ।
'बुद्धेर्गुणेनात्मगुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्ट' इति श्रुतेर्जीवोपाधिबुद्धेर्वृत्तयः । आदिना पूर्वदृ-
ष्टस्मरणानुव्यवसायस्मृतस्मरणे । य एवेति । अन्ययोगव्यवच्छेदकः । बुद्ध्यैक्यमिति । बुद्ध्यैक्यमे-
वादादाय । जीवैक्ययोगव्यवच्छेदकैवकारः । स एवेति । अन्ययोगव्यवच्छेदक एवेति । नान्यः
समायातीति । गङ्गेत्यादिभाष्यस्य गङ्गाप्रवहणजले प्रवहणक्रियैक्यप्राप्ते जले । कर्मादीनां सम्ब-
न्धसामान्यविवक्षायां षष्ठी । गङ्गाम्बुवत्पुस्तद्वदित्यप्यर्थः । मूर्च्छादीति । आदिनाघात इत्युक्तम् ।
तत्तदिति । तत्तत् च यत् इतरत् तत्तदितरत् । कर्मधारयः । तस्यानिश्चायिका । साधारण्येव, नतु
तत्तद्विषयिकाऽसाधारणीत्येवकारार्थः । सापि विचारकस, अविचारकस्य तु राजामरुवत्सर्वापि ।
नान्यतरेति । तयोर्द्वयोः संशयविषययोरन्यतरस्य निश्चायिका । ततश्च तयोः संशयिकेति सर्वेत्यु-
1636
भाष्यप्रकाश-रश्मि-परिवृंहितम् । २०१
मुग्धे मुग्धभावे अर्धसम्पत्तिरेव, न सर्वा । नहि मुग्धस्य यज्ञादावधिका-
रोऽस्ति । पूर्वप्रवृत्तानि तु जीवनाधिकारात् क्रियन्ते । लौकिकव्यवहारोपि नापूर्वः
सिध्यति । पूर्वोक्तहेतुसद्भावे तु न कोपि दोषः । अतो मुग्धे अर्धसम्पत्तिः पूर्वैव,
नोत्तरा । कुत एतत् । परिशेषात् । स एव वा, न वेति निश्चयप्रमाणानामभा-
भाष्यप्रकाशः ।
कथमर्धेत्याकाङ्क्षायामेतदेव व्युत्पादयन्ति न हीत्यादि । मुग्धस्येति । मूर्च्छोपरतावपि निवृत्त-
पूर्वसंस्कारस्य ।
अयमर्थः । शास्त्रार्थवत्त्वाधिकरणे कर्तृत्वं जीवगतमेव, न तूपाधिगतमिति स्थितम् । अतः
शब्दा विषयश्च जीवमेव विषयीकुर्वन्ति । तत्र 'अर्थी समर्थो विद्वा' नित्यादिनोक्तो यो यज्ञादाव-
धिकारः, स मुग्धस्य तस्यापि नास्ति, अर्थित्वाद्यभावात्, अतोऽपूर्वाणि न क्रियन्ते । पूर्वप्रवृत्तानि
त्वग्निहोत्रादीनि जीवनाधिकारात् क्रियन्ते । एवं लौकिकव्यवहारोपि पूर्व एव निर्वहति, नापूर्वः
कोपि सिध्यति । असिद्धे च तंस्तित्त्र स वा, अन्यो वेति निर्णतुं न शक्यते । लोके अमरुशरीरे
अन्यस्येव, ब्रह्मवैवर्तेब्रह्मखण्ड उपबर्हणगन्धर्वशरीरे तस्यैव प्रवेशस्मरणात् । वसिष्ठोपदिष्टविस्मृत-
मन्त्रपूजादेस्तत्पल्या बोधनेनातिमुग्धताया अपि स्मरणाच्च । अतो यत्र मुग्धभावानन्तरं कर्मानु-
स्मृत्यादिहेतूनां सद्भावः, तदा तु स एव तत्र जीव इति न कोपि शब्दादिविरोधदोषः । यत्र
पुनरनुस्मृत्याद्यभावः, तत्र, अत उक्तदोषात् हेतूनां पूर्वैव संपत्तिः, नोत्तरेत्यर्धेव विचारकस
बुद्धिरित्यर्थः । अत्र पृच्छति कुत इत्यादि । एतत् अर्धमपि कुत इत्यर्थः । तत्रार्धसत्तायां हेतुं
विवृण्वन्ति स एव वा न वेत्यादि । प्रसक्तप्रतिषेधे यः प्रसक्तस्तदप्रतियोगी स परिशेषः ।
रश्मिः ।
च्यते । शास्त्रार्थेति । गताध्यायेऽस्ति । एवेति । उपाधिव्यवच्छेदकः । तदेवाहुः नत्विति । जीव-
मेवेति । न तूपाधिम् । उक्त इति । कचिच्छास्त्रे उक्तः । तस्यापीति । विचारकस्यापि । पूर्वे-
तिभाष्यं विवृण्वन्ति स्म पूर्वप्रवृत्तानीति । जीवनेति । 'यावज्जीवमग्निहोत्रं जुहोती'ति श्रुत्या ।
लौकिकेतिभाष्यं विवृण्वन्ति एवं लौकिकेति । पूर्व एवेति । अपूर्वयोग्यव्यवच्छेदकः । सिध्य-
तीति । पूर्वकर्मवदपूर्वकर्मणि विद्यमानान्न सिध्यति । तस्यैवेति । गन्धर्वस्य । एवकारेण नान्यस्य ।
वसिष्ठेति । गन्धर्वस्य । पूर्वोक्तेतिभाष्यं विवृण्वन्ति स्म अतो यत्रेति । स एवेति । हेतुसत्त्वे
साध्यसत्त्वनियमादेवकारः । न कोपीति । साधारण्यविदेहत्वाभासरूपोपि । शब्दादिसहानवस्थानल-
क्षणविरोधरूपो दोषः । अत इतिभाष्यं विवृण्वन्ति स्म यत्र पुनरिति । गन्धर्वे । उक्तेति ।
शब्दादिविरोधदोषात् । पूर्वैवेति । कर्मरूपा । एवकारः उत्तरानुस्मृत्यादियोगव्यवच्छेदकः । तेनार्था
कर्मसम्पत्तिः । नोत्तरेति । अनुस्मृतिसम्बन्धविधिरूपा । नेत्येवमेवकारव्यवच्छेदोत्तरा सम्पत्तिरुक्ता ।
तेनार्धसम्पत्तिरंशसंपत्तिः । अर्धसम्पत्तिलेनार्धसम्पत्तिस्वीकारः । अर्धमपीति । अविनाश्वरूपं गौणार्थम् ।
अर्धसत्तायामिति । गौणमुख्यार्धसत्तायाम् । हेतुं विशेषम् । स वान्यो वेत्युक्ते संशय एवकारघ-
टितत्वे प्रत्यभिज्ञेत्याशयेन विवृण्वन्ति स्म प्रस्तुते ति । प्रस्तुतं पूर्वसूत्र ऐ
१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० १०.
बादर्थात् सन्देहोऽवशिष्यते । तस्मात् सन्देहान्मुग्धे अर्धप्रतिपत्तिः ।
भाष्यप्रकाशः।
प्रकृते च स एवायं न वेति सन्देहे एकतरनिश्चयजनकप्रमाणानामभावात् सन्देह एवार्थाभिषेधा-
प्रतियोगित्वेनावशिष्यते। अतः स एव परिशेष इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । उक्तविधात्
परिशेषरूपात्सन्देहान्मुग्धेऽर्धप्रतिपत्तिरर्ध ज्ञानं विचारकस्य, तस्मादेव पूर्वा संपत्तिः, न तु निश्चयात्।
अतो मुग्धदृष्टान्तेन न सौषुप्तिकसिद्धान्तभङ्ग इत्यर्थः । किञ्च, अत्र प्रतिपत्त्यादिपदमनुक्त्वा यत्
संपत्तिपदमुक्तम्, तेन मुग्धे मूर्च्छितेऽर्धसंपत्तिः। यथा नाडीषु सतो नैक्याद् दुःखाभावमात्ररूपार्ध-
संपत्तिः, तथेति बोध्यते । तेन कालीयदमनस्थले मूर्च्छितस्यार्धसंपत्त्या इन्द्रियाणां प्राणानां च
पुनरागमनं यदुक्तम्, तदपि न विरुध्यत इति बोधितम् । अनुस्मृत्या च स एव जीव इत्यपि ।
अविचारस्तु जीवावस्थाभावत्वादेवेति च। एवमत्र प्रासङ्गिकपरिहारेण सुषुप्तेः प्रबुद्धः स एव, न
त्वन्य इति निर्णीतम् ।
अन्ये तु । अस्मिन् सूत्रे मुसलाद्यभिघातजन्यां मूर्च्छा विचारयन्तो, 'जाग्रत्स्वप्नः सुषुप्त'मिति
तिस्रोऽवस्था बृहदारण्यके जीवस्योक्ताः, ताः पूर्वं विचारिताः, उत्क्रान्तिश्चतुर्थी, साऽग्रे विचार-
यिष्यते, इयं तु न जाग्रत्स्वप्नयोरन्तर्भवति, ज्ञानाभावात्, नापि सुषुप्तौ, निमित्तभेदादाकारभेदाच्च,
नापि मरणे, प्राणोष्मणोरुपलम्भात्, अतः परिशेषादियं पञ्चमीत्याहुः ।
रश्मिः।
स एव वा नवेति सन्देहः स परिशेष इत्यर्थः । सन्देह इति । प्रत्यभिज्ञाविषयविषयके सन्देहे द्वितीय-
कोटिसहिते । कोट्योरेकतरनिश्चये प्रमाणानां शब्दयोगिप्रत्यक्षानुमानानामभावात् । सन्देह एवेति ।
एकतरयोगव्यवच्छेदकैवकारः । स एवेति । सन्देहः । एवकारः पूर्ववत् । अर्धं ज्ञानमिति । सन्देहार्धं
स एवेति ज्ञानम् । तस्मादेव अर्धज्ञानात् । एवेति । कर्मयोग्यव्यवच्छेदकः । गौणत्वात् । किञ्च, नतु
स एवेत्येकविषयकान्निश्चयात् । पूर्वोत्तरीयभावाभावात् । अत इति । आभ्यां सन्देहात् परिशेषरूपात्
निश्चयाभावाच्चेत्यर्थः । मुग्धेति । सुषुप्तिः स एवेत्यैक्यवती कर्मानुस्मृतिशब्दविधिभ्यः सैवेयं दीपमालिके-
तिवत् । अस्य सौषुप्तिकसिद्धान्तस्य । मुग्धदृष्टान्तेन सुषुप्तिः न स एवेत्यैक्यवती। परिशेषात् ।
मुग्धवदिति सत्प्रतिपक्षाद्भङ्गो नेत्यर्थः । किञ्च, अत्रेति । सूत्रे । तेनेति । सत्स्मारकेण सम्पत्तिशब्देन ।
'सता सौम्य तदा संपन्नो भवती'त्यत्र सत्सम्पत्तिरित्यत्र च सम्बन्धायधारणादेकसम्बन्धिज्ञानमपरसम्ब-
न्धिस्मारकमिति सत्स्मारकत्वम् । हेतुचतुष्टये कर्मरूपार्थसम्पत्तिः स एवेत्यर्थसम्पत्तिः सन्देहे । मोक्षे-
र्धसम्पत्तिं दृष्टान्तेनाहुः यथेति । दुःखेति । 'दुःखाभावः सुखं चैव पुरुषार्थद्वयं मत'मिति मोक्षेर्ध-
सम्पत्तिर्दुःखाभावरूपा । असौत्री नात्र दार्ष्टान्तिके सन्दिग्धव्या । मूर्च्छितस्येति । नन्दादिषु यस्स-
कस्यचिन्मुग्धस्य त्रिविधार्थसम्पत्तिः । यदुक्तमिति । श्रीभागवते यदुक्तम् । ननु नन्दादीनां गर्गोप-
दिष्टानां कुतो न 'नारायणसमो गुणै'रित्यस्य विचारो मोहजनक इत्याशङ्क्याहुः अविचार इति ।
विचारस्य न जीवावस्थात्वम् । प्रकरणं तु जीवावस्थानामिति भावः । एवकारो मोहयोगव्यवच्छेदकः ।
अत्रेति । सूत्रद्वये । प्रासङ्गिक आशङ्काविषयस्तस्य परिहारेण । स एवेति । उक्तद्वितीयकोटिकः ।
नत्वन्य इति । प्रथमकोटिकोन्यर्थः । निमित्तेति । मूर्च्छाया मुशलाद्यभिघातो निमित्तम् ।
सुषुप्तौ तु तमः । 'न किञ्चिदवेदिष'मिति तमःकार्याज्ञानकथनात् । इति भेदात् । उपेति । मूर्च्छायां
1638
न तत्र प्राणायनविघातकृता मूर्च्छा विचार्यते । तस्याः प्राणधर्मत्वात् । यथा
बाल्यं शरीरधर्मः । व्यर्थश्च विचारः । जीवावस्था एव हि विचार्यन्ते । केवलसाक्षि-
वादस्तु न ब्रह्मवादः । तस्मादेक एव जीवः खमादिदोषसम्बन्धरहितस्तादृशजन्म-
भाष्यप्रकाशः।
तद् दूषयन्ति न तत्रेत्यादि । तत्रावस्थासु इन्द्रियादिस्थानभूतगोलकाभिघातकृता मूर्च्छा
तु न विचार्यते, तस्याः प्राणानां स्वस्थानपरित्यागेन जायमानतया प्राणधर्मत्वात्, अतो यथा बाल्यं
शरीरधर्मो न विचार्यः, तथेयमपि । किञ्च, अयं व्यर्थो विचारः । यथा भवन्मते नाड्यः पुरीत्तद्वा
सुषुप्तिस्थानमिति विज्ञानेन न किञ्चित्प्रयोजनम्, तथैतज्ज्ञानेनापि न किञ्चित् प्रयोजनम् ।
यत् पुनर्भाभत्याम् , एतस्या अवस्थान्तरत्वे तत्प्रविलायाय यत्नान्तरमास्थेयमित्येतद्विचारप्र-
योजनमुक्तम् । तदपि तदा युज्येत, यदि सूत्राणि संसारव्यवहाराय प्र
युक्तो भगवज्ज्ञानरहितो ज्ञानाधिकारीति सिद्धम् ॥ १० ॥
इति तृतीयाध्याये द्वितीयपादे तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥
भाष्यप्रकाशः।
सुषुप्तिरितीति, यथा संप्रज्ञातासंप्रज्ञातभेदेन योगो द्विविधो भवति, तथा सुषुप्तिरपीति । इमां च
ब्रह्मव्यर्षसंपत्तिरूपां सुषुप्तिमधिकृत्य, 'आनन्दभुक् चेतोमुखः प्राज्ञः' 'जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चं
यत् प्रकाशते' इत्यादिश्रुतयः प्रवृत्ता इत्याह ।
तन्न । श्रुतीनां या प्रवृत्तिः, सा नाडीषु सुषुप्तिमादायाप्युपपद्यमाना न मोहावस्थामपेक्षत इति न
श्रुतिम्यस्तत्रान्तर्भावः शक्यवचनः । सुखदुःखमोहानुस्यूतीनां रोमहर्षवेपथुवैकल्यादीनां च दर्शनेन
सुषुप्तेः सकाशाद्भेदस्य स्वयमेवाङ्गीकारात् तस्याः सुषुप्तावन्तर्भावेऽपि हेत्वभावः । नचायोगिनां
जीवदशायां बृहदारण्यकेऽवस्थात्रयस्यैवोक्तत्वाज्जाग्रत्स्वप्नयोर्वैलक्षण्ये परिशेषात् सुषुप्तावन्तर्भाव इति
युक्तम् । परिशेषस्य मरणार्थसंपत्तावपि तौल्यात् । नच पुनरुत्थानान्न मरणेऽन्तर्भाव इति वाच्यम् ।
नामभ्रान्त्या यमदूतनीतानामपि पुनरुत्थानात् । षष्ठस्कन्धे चित्रकेतुसुतस्य पुराणान्तरेषु सावित्री-
पत्युः सत्यवतश्च पुनरुत्थानकथनाच्च ।
अतो मरणं सर्वप्राणदेहसंबन्धोपरतिः, मूर्च्छा तु सूक्ष्मप्राणदेहसंबन्धावस्थितिरिति रामानु-
जाचार्योक्तमेवात्र युक्तम् । परमेतद्विचारस्यात्र प्रयोजनं तैरपि नोक्तम् ।
माध्वास्तु भिक्षुवदेवाङ्गीकुर्वन्ति ॥ १० ॥ इति तृतीयमतः प्रबोध इत्य-
धिकरणम् ॥ ३ ॥
रश्मिः।
सम्प्रज्ञातेति । सबीजनिर्बीजसमाधिः । 'परो हि योगो मनसः समाधि'रिति वाक्यात् । तत्र शब्दार्थ-
ज्ञानविकल्पै संकीर्णा सवितर्का समापत्तिः । तत्रेति । समापत्त्योर्मध्ये । स्मृतिपरिशुद्धौ स्वरूपशून्येवा-
र्थमात्रनिर्भासा निर्वितर्केति तयोर्लक्षणे । इमामिति । सम्प्रज्ञातसमाधिवदस्पष्टज्ञानरूपाम् । आन-
न्दभुगिति । सुखमहमस्वाप्समित्यर्थे सुखलेनानन्दभुक् मनोबुद्धिचेतस्सु सुषुप्तिश्रेतोमुखः चेतउपाया
चेतःकरणा । प्राज्ञस्तु सुषुप्तिसाक्षी । यदिति । यदव्ययं प्रकाशते । अत्र यदव्ययं प्राज्ञः । इत्यादीति ।
आदिना 'यत्र न कंचन कामं कामयते न स्वप्नं पश्यती'ति । वितण्डां वारयन्ति स्म न मोहेति ।
मूर्च्छावस्थां नापेक्षते । तत्रान्तरिति । अवस्थात्रये मूर्छान्तर्भावः । रोमेति । आदिना स्वेदः ।
स्वयमिति । भगवता भिक्षुणैव । नान्येन युक्तिं सहपक्षकेण । तस्या मूर्छायाः । एवेति । अन्याव-
स्थाव्यवच्छेदकः । मूर्च्छा सुषुप्त्यन्तर्भूता । अवस्थात्रयबोधकबृहदारण्यकात् । जाग्रत्स्वप्नवैलक्षण्यप-
रिशेषवत् इत्यनुमानमाहुः नचायोगिनामिति । अयं हेतुः हेतुतावच्छेदकलाघवे उक्तो हेतुः ।
परिशेषादिति । शङ्कराचार्यजाग्रत्स्वप्नवदिति स्फुटम् । अतः सन्देहात् सुषुप्तौ खमवज्जाग्रतोप्यन्त-
र्भावः । अयं दृष्टान्तः । सुषुप्तावित्यादिसाध्यम् । स्मरणादिति सौत्रात्स्मरणालम्भानात् संशयार्थ-
सम्पत्तावपि । तौल्यादिति । एककोटिकस्य । एवं कृते मूर्च्छाया मरणेन्तर्भावः वैद्यके प्रसिद्धः ।
'मूर्च्छायां चतस्रो गुटिकाः संजीविन्या देया' इति । जीवनसंभावनाकर्त्री संजीविनीति । तत्र शङ्कते
न चेति । यमेति । नृगाजामिलप्रभृतीनाम् । पुनरुत्थानेति । मृतस्य । एवात्रेति । मूर्च्छाविषये-
ऽन्ययोगव्यवच्छेदः क्रियते । रामानुजाचार्यवचनात् । तद्युक्तम् । एवेति । अन्यप्रकारयोगव्यव-
च्छेदकः ॥ १० ॥ इति तृतीयमतः प्रबोध इत्यधिकरणम् ॥ ३ ॥
न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ (३. २. ४.)
इदानीं विषयनिर्धारणार्थं ब्रह्मस्वरूपं विचार्यते । तत्र प्रथममन्योन्यविरुद्ध-
वाक्यानां निर्णयः क्रियते । तदर्थमेतावत् सिद्धम् । समन्वयाविरोधाभ्यामेकमेव
ब्रह्म प्रतिपाद्यत इति । तत्र यथा कार्यविरोधः परिहृतः, एवं ब्रह्मधर्मविरोधोपि
परिहरणीयः । अन्यथा अबोधकता स्यात् । तत्र स्वगतधर्माणामविरुद्धनामग्रिम-
पादे विचारः । जडजीवधर्मत्वेन प्रतीतानामत्र विचारः क्रियते ।
भाष्यप्रकाशः ।
न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ प्रस्तूयमानस्य ग्रन्थस्य सङ्गतिं वदन्तः
प्रयोजनमाहुः इदानीमित्यादि । ज्ञानाधिकारिविचरोत्तरं ज्ञानविषयनिर्धारो युक्त इति तदर्थ-
मवसरसङ्गत्या ब्रह्मणो विवक्षितज्ञानविषयस्य स्वरूपं पादशेषेणाग्रिमपादेन च विचार्यत इत्यर्थः ।
एतेन विचारेणोपनिषदां ब्रह्मबोधकताप्रकारो ज्ञातो भविष्यतीति तदर्थोऽयं विचार इति बोधितम् ।
नन्वस्मिन्नधिकरणे वाक्यविचारो दृश्यते, न तु स्वरूपस्येत्याशङ्क्य एतदधिकरणप्रयोजनमाहुः
तत्र प्रथममित्यादि । प्रथममिति । स्वरूपविचारात् पूर्वम् । ननु ब्रह्मस्वरूपनिर्णयः प्रथमाध्याये
कृतः, विरुद्धवाक्यनिर्णयश्च द्वितीयाध्याय इति किं पुनस्तन्निर्धारणादिनेत्यत आहुः तदर्थ-
मित्यादि । तदर्थमिति । स्वरूपनिर्धारणार्थम् । तथाच कार्यमन्यस्य न भवति, किन्तु सर्वं ब्रह्मण
एव कार्यमिति तत्र निर्धारात् सर्वत्र वेदान्तेष्वेकमेव ब्रह्म प्रतिपाद्यत इत्येतावत् सिद्धम् ।
द्वितीयोक्तो विरोधपरिहारोपि तद्विषयनिर्धारणार्थत्वेनैव फलितः, न तु ब्रह्मस्वरूपनिर्धारणार्थत्वेन,
ब्रह्मधर्मविरोधस्यापरिहृतत्वात् । अतस्तत्र यथा कार्ये अन्यजन्यत्वकृतो विरोधः कारणैक्य-
निर्धारार्थं परिहृतः, एवं कारणभूतब्रह्मस्वरूपनिर्धारणार्थं ब्रह्मधर्मविरोधोपि परिहरणीयः । अन्यथा
सधर्मकं निर्धर्मकं वा, जीववत् सदोषं वा, यावद्दोषरहितं वेत्यादिसन्देहानपायादबोधकता वाक्यानां
स्यात् । अतस्तन्निवृत्त्यर्थमिदं निर्धारणमित्यर्थः ।
एवं विचारावश्यकत्वं प्रतिपाद्य तत्रावान्तरविषयं विभजन्ते तत्र स्वगतेत्यादि ।
अविरुद्धानामिति । परस्परविरुद्धत्वेपि भगवदीयत्वेन प्रतीततया स्वरूपाविरुद्धानाम् ।
रश्मिः ।
न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि ॥ ११ ॥ अवसरेति । समन्वयेऽविरोधेन
स्थिरीकृते विषयनिर्धारः प्रसङ्गसङ्गत्या युक्तः, परन्तु अनधिकारिहृदये न स्फुरतीति प्रतिबन्धकीभूताधि-
कारिचिन्तानिवृत्तौ सत्यामवश्यवक्तव्यत्वमवसर उक्तः । आवृत्तौ गौरवमित्यवसरसङ्गत्या । विव-
क्षितेति । परम्परासम्बद्धधर्मिसाक्षात्सम्बद्धधर्मिविषयकज्ञानविषयस्य । ब्रह्मण एवेति । एवकारेण
सांख्यादिष्टत्युपरुन्धप्रधानादिव्यवच्छेदः । तत्रेति । प्रथमद्वितीयाध्याययोः । तत्र यथेति भाष्यं
विवरीतुमाहुः द्वितीयोक्त इति । तद्विषयेति । वाक्यविषयनिर्धारार्थत्वेन । एवेति । ब्रह्मस्वरूपनि-
र्धारार्थत्वव्यवच्छेदकः । ब्रह्मधर्मेति । द्वितीयाध्याये तथा । विवृण्वन्ति स्म अतस्तत्रेति । तत्र द्विती-
याध्याये ब्रह्मणि ब्रह्मत्वेन सहावस्थानलक्षणो हि कार्यस्य विरोधः ब्रह्मरूपकारणैक्यनिर्धारार्थ प्रधानादि-
कारणवादनिरासेन परिहृतः । एवमितिभाष्यं विवृण्वन्ति स्म एवं कारणेति । ब्रह्मधर्मेति । रूपमरूपं
चेति ब्रह्मधर्मयोर्विरोधः सहानवस्थानलक्षणः । अन्यथेति भाष्यं विवृण्वन्ति स्म अन्यथेति । इत्या-
दीति । आदिना रूपमरूपं चेति सन्देहः तेषामनपायात् । तत्तद्धर्मप्रकारकबोधकता तत्तत्प्रतियोगिता-
ब्र० सू० २० १४ 1641
१०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० ११.
तत्र क्वचिज्जडजीवधर्मा भगवति बोध्यन्ते, क्वचिन्निषिध्यन्ते । यथा 'सर्व-
कर्मा सर्वकामः' ।
नचैते जीवधर्मा एव न भवन्तीति वाच्यम् । उच्चावचकर्मणां कामानां च
जीवगतत्वप्रतीतेः । 'नेतरोऽनुपपत्ते'रिति सर्वत्र बैलक्षण्यस्योक्तत्वात् । कार्यवि-
शेषधर्माणां कारणे वक्तुमशक्यत्वात् । नच कारणधर्मा एव सर्वे कार्ये अंशो वा
प्रतीयन्त इति वाच्यम् । 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्ष-
ण्यस्योक्तत्वात् ।
अत्र केचिदविरोधमेवमाहुः । सर्वत्र कारणत्वात् भगवानस्ति । ततश्च अस्थूले
अस्थूलः, अनणावणुः, उच्चावचकर्तृषूच्चावचकर्ता, उच्चावचकामे उच्चावचकामः,
पृथिव्यां सर्वगन्धः, जलादावगन्धः । एवं रसादिषु । एवं स्थानतः परस्योभय-
लिङ्गत्वमुपपद्यते ।
भाष्यप्रकाशः ।
एवं विषयं विभज्य प्रस्तुताधिकरणविषयादिकमाहुः तत्र क्वचिदित्यादि, निषिध्यन्त
इति । अस्थूलादिवाक्येषु निषिध्यन्ते । तथाच विरुद्धवाक्यद्वयदर्शनात् संशयः । किमुभयलिङ्गं
ब्रह्म, अन्यतरलिङ्गं वेति ।
पूर्वपक्षमाहुः नचेत्यादि । प्रकरणावरुद्धत्वाच्चेति न वाच्यमित्यर्थः । तत्र हेतुः उच्चावचे-
त्यादि । प्रतीतेरिति । प्रत्यक्षादेव प्रतीयमानत्वात् । नच श्रुत्यपेक्षया लौकिकप्रमाणस्य निर्बलत्वात्
तस्य भ्रान्तत्वमिति वाच्यम् । 'नेतरोऽनुपपत्ते'रित्यादिसूत्रेषु सर्वत्र जीववैलक्षण्यस्योक्तत्वात्
सर्वकामत्वादीनां ब्रह्मधर्मत्वे जीवसारूप्यापत्त्या शास्त्रस्यापि विरोधात् । कार्यकारणव्यवहार-
मङ्गापच्या कार्यविशेषधर्माणां कारणे वक्तुमशक्यत्वात् । शेषं स्फुटम् । तथाच धर्मविधेरुपासनार्थ-
तयोपचारादपि नेतुं शक्यत्वाभिषेद्यस्य तु प्रयोजनान्तरशून्यतया स्वरूपबोधनमात्रफलकत्वेनान्यथा
नेतुमशक्यत्त्वान्निर्विशेषलिङ्गमेव प्रतिपत्तव्यमिति प्राप्तम् ।
तत्र सूत्रं व्याकुर्वन्ति अत्रेत्यादि ।
रश्मिः ।
कामावो वाक्यानां स्यादित्यर्थः । प्रकरणेति । ब्रह्मप्रकरणावरुद्धत्वात् । एवेति । अनुमानयोग्य-
वच्छेदकः । न चेतिभाष्यं विवरीतुमाहुः नच श्रुतीति । तस्येति । अंशांशिनोरभेदे सति वैलक्षण्यस्य
अप्रप्तेयुः । विवृण्वन्ति स्म नेतरेति । आनन्दमयाधिकरणे व्याकृतानि । सर्वत्रेति । जीवे जडे च ।
शास्त्रस्येति । 'नेतरोऽनुपपत्ते'रित्यादेः । कार्येतिभाष्यं विवृण्वन्ति स्म कार्येति । कार्यविशेषेति ।
सर्वकर्मसर्वकामादीनाम् । पूर्णत्वेन तत्राभावात्, नतु कार्यत्वादीनाम् । 'अजायमानो बहुधा विजायते'
इति प्राकटरूपामुल्यत्तिमादायांशतस्तेषां सत्त्वात् । स्फुटमिति । एवेति । नैयायिकप्रवादादेवकारः ।
अंश इति । 'यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे जीवाः सर्व आत्मान' इति
पृथगुपदेशात् । प्रापञ्चिकेति । नञः पर्युदासार्थत्वात्तथा । एवं शेषं स्फुटमित्यर्थः । पर्युदासः
सदृग्राही । अस्य पूर्वपक्षत्वं स्फुटयन्ति स्म तथाच धर्मेति । धर्मविधेरिति । 'सर्वकर्मा सर्वकाम'
इति भाष्योक्तोभयक्रोडीकारेण यो धर्मविधिः 'ज्योतिष्टोमेन स्वर्गकामो यजेते'ति धर्मैकदेशधर्मविधेः ।
'धर्मं चरे'ति विधेर्वा । सर्वकर्मत्वेन सर्वकामत्वेन ब्रह्मोपासनार्थतया सामान्यविशेषभावसम्बन्धरूपोपचा-
राच्छक्यसम्बन्धात् । शक्यसम्बन्धो लक्षणा । एवेति । आरोपापवादसङ्गतिसत्त्वादेवकारः । तत्रेति ।
1642
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०७
अथवा । कारण एव रूपमरूपं चावच्छेदभेदेन अचिन्त्यसामर्थ्याद्वा ।
अन्यथा असतः सज्जननप्रसङ्ग इति अपिना संगृहीत इति ।
एतदुभयमपि न । कुतः । सर्वत्र हि । सर्वत्रैतादृशं रूपं भगवत उपदि-
श्यते । हि युक्तोऽयमर्थः । भगवत्स्वरूपप्रतिपादकानि हि एतानि वाक्यानि,
भाष्यप्रकाशः।
केचित् ब्रह्मवादैकदेशिन ऋषयो वक्ष्यमाणरीत्योभयलिङ्गाविरोधं व्युत्पादयन्ति । 'यतो वा
इमानि' 'सदेव सौम्ये'त्यादिभिर्भगवत उपादानत्वस्य सिद्धत्वात् सर्वत्रोपादेये कार्ये भगवानस्तीत्य-
विवादम् । ततश्च यथा पार्थिवकारणभूता पृथिवी घटपटस्तम्भादिषु कार्येषु निमित्तवशात् तत्तद्रूपतां
धत्ते, तथा भगवानप्यस्थूलादिषु द्रव्येषु, रसादिषु च गुणेषु, तत्तद्रूपतां धत्ते इत्येवं स्थानधर्मरूपं
तत्तल्लिङ्गं परस्मिन् भासत इति परस्योभयलिङ्गत्वमुपपद्यत इत्येकं मतम् ।
अथवेत्यादिनोक्तं द्वितीयं मतम् । अवच्छेदभेदेनेति । अवच्छिद्यत इत्यवच्छेदः
प्रदेशस्तेन । तत्र युक्तिस्त्वचिन्त्यसामर्थ्यम् । भाष्ये वाशब्दो वाक्यालङ्कारे । पूर्वोक्तरीत्यान्यथा-
ङ्गीकारे तु स्थानस्य कार्यत्वात् स स धर्मस्तत्र तत्र स्थाने कुत आगत इति विमर्शे कारणस्य
तद्धर्मवत्त्वाभावेन कार्ये तस्यासतः सत्ता स्यात् । तस्मात् तद्विहायैवं तत्तदवच्छेदभेदेनाचिन्त्य-
सामर्थ्यादुभयलिङ्गत्वमुपपादनीयमिति । तदिदमपिना संगृहीतम् ।
एवं स्थानतोपीतिपदद्वयेन तदुभयमनुवदन्निषेधति नेत्यनेन । तत्र हेतुः सर्वत्रेति । तं
व्याकुर्वन्ति सर्वत्रेत्यादि । ननु तत्तद्वाक्येषु तत्तल्लिङ्गताया एव श्रवणात् सर्वत्रैतादृशरूपोपदेशस्य
चाश्रवणात् कथं युक्तत्वमित्याकाङ्क्षायां तद्व्याकुर्वन्ति भगवदित्यादि । एतानीति । सर्वकर्म-
त्वास्थूलत्वादिवोधकानि ।
तथाहि । सर्वकर्मत्वादिवाक्यं तावत् , 'अथ खलु क्रतुमयः पुरुष' इति क्रतूपदेशं प्रकृत्य
शाण्डिल्यविद्यायाम्, 'एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्य संभवितासी'त्युपसंहारे
रश्मिः।
एवं पूर्वपक्षे सिद्धान्तसूत्रं व्याकुर्वन्ति अस्तीति । कार्यरूपतया तदाधेयतया च । तेन 'तद्रूपं
तत्र च स्थितं साकारव्यापकत्वाचे'त्युक्तेषु द्वयं द्रव्ये, साकारव्यापकं तु गुणे द्रव्येपीत्याशयेनाहुः
अस्थूलादिष्विति । अस्थूलादिषु स्थानेषु रसादिषु च स्थानेषु । अथवेत्यादिनेति । पूर्वत्र कारणरूपस्य
ब्रह्मणः कार्यस्थानत उभयलिङ्गमूक्तम् । अधुना कारणस्थानत उभयलिङ्गमाहुः अथवेति । एवकारेण
कार्यरूपव्यवच्छेदः । .रूपं मूर्तं अरूपममूर्तम् । मूर्तामूर्तब्राह्मणेन । अन्यथेति भाष्यं विवृण्वन्ति स्म
अन्यथेति । अस्मात्प्रकारादन्यप्रकारस्य । अन्यथेत्यस्मात्षष्ठ्या लुक् । तद्विहायेति । पूर्वपक्षं
विहाय । अत्रेति । पृथिवीदेशेन रूपं वायुदेशेनारूपमिति देशभेदरूपावच्छेदभेदेन । पदद्वयेनेति ।
नन्वेकमपि न पदं 'अव्ययादाप्सुप' इति 'सुब्लुकि लुकालुप्तत्वे नलुमताङ्गस्ये'त्यस्य प्राप्त्या कथं 'सुप्तिङन्त'-
मित्यनेन पदत्वमिति चेत् । न । शब्दलक्षकलक्ष्यान्तेर्जोधर्मत्वात् । तदुभयमिति । पक्षद्वयम् । एतेनैत-
दुभयमिति भाष्यं विवृतम् । तत्तल्लिङ्गताया इति । 'सर्वकर्मा सर्वकाम' इत्यादिषु सर्वकर्मत्वादिनो
तत्तज्जीवादिषु तत्तच्छन्दस्य सामर्थ्यं शक्त्यादि तस्य समूहस्यैव श्रावणात् । एवकारः शक्यार्थव्यवच्छे-
दकः । अर्थपदशक्त्यादिज्ञानानन्तरं गुरूपदेशादिसहकारणसाध्यत्वात् । तत्तल्लिङ्गसमूहस्तत्तल्लिङ्गता
तस्या इत्यर्थः। शब्दरूपमङ्गीकृत्य यत्किञ्चिच्छब्दं वाङ्गीकृत्याह सर्वत्रेति । युक्तत्वमिति । भगवदुपदेशरू-
1643
न त्वनुवादकानि । वैयर्थ्यापत्तेः ।
अचिन्त्यत्वे ज्ञानानुदयः । 'तमेव विदित्वातिमृत्युमेति' 'भक्त्या माम-
भाष्यप्रकाशः ।
तत्क्रतुविषयं ब्रह्मैव बोधयति । क्रतुश्चात्र नोपासना । शब्दान्तरात् । अन्यथा तद्वैयर्थ्यप्रसङ्गात् ।
किन्तु मननम् । एवमन्यान्यपि वाक्यानि 'अणोरणीया'नित्यादीनि जीवव्यतिरिक्तमात्मानं
विषयीकुर्वन्तीत्यस्थूलादिवाक्यवत् प्रमाणान्तरानवगतभगवत्स्वरूपप्रतिपादकानि, न त्वनुवादकानि ।
यदि हि तेषां स्थानगतधर्मानुवादकत्वं स्यात्, तदा तद्ब्रह्मज्ञानाभावात् तेषां वैयर्थ्यमेव स्यात् । न
ह्यौपाधिकानां धर्माणां तद्वत्तया ब्रह्मणो वा ज्ञानं मुक्त्यर्थमिति वक्तुं शक्यम् । तथा सति
दर्शनान्तरीयज्ञानादपि सा स्यात् । ततश्च शास्त्रवैयर्थ्यापत्तिः । नापि यथाकथञ्चिच्छाखाचन्द्र-
न्यायेन ब्रह्मप्रतिपत्त्यर्थम् । तथा सति परस्परविरुद्धान् धर्मान्न बोधयेयुः । प्रतिपत्तिजननप्रति-
बन्धकत्वात् । किञ्च । अस्मिन् वाक्येऽनुवादकत्वं संभवत्यपि न । 'ज्यायानाकाशा'दित्युक्तेः । न हि
लोके आकाशाज्ज्यायः किञ्चिदस्ति स्थानम्, येन तद्वशाद्ब्रह्मणि तदनूद्येत । दिक्कालात्मनां
तत्समत्वात् । एवं सांख्यादिदृष्ट्या प्रकृत्यादिग्रहणेपि ततो नान्यस्य ज्यायस्त्वम् । ज्यायस्त्वं चात्र
परिमाणादेव विवक्षितं ज्ञायते । अग्रे 'अणीयान् व्रीहे'रिति श्रावणात् । अतस्तत्प्रतिपादकत्वमेवात्र
मन्तव्यम् । तथा सर्वकर्मत्त्वादिप्रतिपादकत्वमपि, निरङ्कुशानां तेषामन्यत्राभावादिति । तस्मान्नात्र
स्थानप्रयुक्तानुवादकत्वम् ।
एवं द्वितीयेपि मते, सामर्थ्यस्याचिन्त्यतया तस्याज्ञानात् तद्गतो ब्रह्मणोप्यज्ञानापत्तिः ।
रश्मिः ।
पार्थस्य युक्तत्वम् । तद्ध्येति । ब्रह्मैवेति । अन्तर्हृदय इति लिङ्गादेवकारः । तद्वैयर्थ्येति । शब्दा-
न्तरवैयर्थ्यप्रसङ्गात् । विषयीति । विरुद्धसर्वधर्माश्रयत्वेन विषयीकुर्वन्ति । अनधिगतार्थगन्तृत्वप्रमाणा-
दन्यत् प्रमाणं प्रमाणान्तरं तदनवगतं यद्ब्रह्मस्वरूपं विरुद्धधर्माश्रयं तस्य प्रतिपादकानि । हेतुभाष्यं
विवृण्वन्ति स्म यदी त्यादि । ब्रह्मेति । किन्तु स्थानगतधर्मज्ञानात् । तेषां ब्रह्मज्ञानांशे वैयर्थ्यम् ।
एवेति । अवैयर्थ्ययोग्यव्यवच्छेदकः । नहीति । उपाधिः अस्थूलादिः स्थानं अस्थूलादेः । पृथिवीस्थानं
सर्वगन्धस्य । जलादिस्थानमगन्धस्य । तादृशधर्माणामौपाधिकानाम् । तादृशधर्मवत्तया तादृशास्थूलाद्यौ-
पाधिकस्थूलादिमत्तया पृथिव्याद्यौपाधिकसर्वगन्धादिमत्तया वा ब्रह्मणो वा ज्ञानम् । दर्शनेति ।
मायावच्छिन्नं चैतन्यमीश्वरः इति ज्ञानात् । सांख्यदर्शनेऽसङ्गोपाधिका सङ्गपुरुषज्ञानात् । शास्त्रेति ।
अविरोधाध्यायसहकृतोक्तोपपादकवेदान्तशास्त्रवैयर्थ्यापत्तिः । यथाकथमिति । औपाधिकेनापि प्रकारेण ।
अस्यां स्थूलायां शाखायां चन्द्र इति न्यायेन । शाखाद्रष्टारं चन्द्राद्रष्टारं प्रत्युक्तिः सूक्ष्मप्रतिपत्त्यर्था ।
प्रतिपत्तीति । नच विरुद्धधर्माश्रयत्वेन प्रतिपत्तिः । अन्यैरनङ्गीकारात् । तद्वशादिति ।
स्थानवशात् । तदनूद्येतेति ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १०९
भिजानाति यावान् यश्चास्मि याहशः, ततो मां तत्त्वतो ज्ञात्वा विशते तदन-
न्तर'मिति ज्ञानानन्तरमेव सायुज्यप्राप्तेः । न च 'यस्यामतं तस्य मतं मतं
यस्य न वेद सः, अविज्ञातं विजानतां विज्ञातमविजानता'मिति वाच्यम् ।
शास्त्रानारम्भप्रसङ्गात् । अयं च विरोधः परिहरणीयः । सर्वे हि विरोधा
अत्र चिन्त्यन्ते । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधः । अनुवा-
दकत्वेन वैयर्थ्यापत्तेः । न च भगवति भेदोऽस्ति । प्रत्यारम्भ'मेकमेवा-
भाष्यप्रकाशः ।
ततश्च 'तमेवे'त्यादिश्रुत्युक्तसाधनाभावान्मोक्षस्याप्यप्राप्त्यापत्तिः । भक्त्याभिज्ञानादेरपि बाधापत्तिः
स्यात् । नच 'यस्यामत'मित्यादावमतस्य मतत्वश्रावणादचिन्त्यत्वेनामतत्वेपि सुखेन ज्ञानोदयसंभव
इति वाच्यम् । तथा सति विचारशून्यानामपि ज्ञानसंभवेन विचारशास्त्रस्य वेदान्तरूपशास्त्रस्य
वानारम्भप्रसङ्गात् । किञ्च । एतद्वाक्योक्तम॑मततायां मतत्वं तदा बुद्धिगोचरीभवेत्, यदास्य बोधन-
प्रकारोवगम्येत, स एव तु नावगम्यते । वदतो व्याघातात् । अतोयमपि विरोधः परिहरणीयः ।
यतः सर्वे विरोधा अत्र चिन्त्यन्ते । अतो यावदस्य बोधनप्रकारो न व्युत्पादितः, तावत्पर्यन्तम-
बोधकत्वाभानेन ज्ञानं वक्तुं शक्यम् । किञ्च । नापि तत्तदुपादानभूतप्रदेशविशेषेणाविरोधो
युज्यते । तादृशत्वस्य पृथिव्यादौ दर्शनात् वाक्यस्य लोकसिद्धानुवादकत्वेन वैयर्थ्यापत्तेः । नच
पृथिव्यादीनां सांशत्वादंशभेदेन तथात्वम्, भगवतस्तु निरंशत्वात् प्रदेशभेदेनोपगम्यत इत्यनु-
वादकत्वाभावान्न वैयर्थ्यमिति वाच्यम् । यदि भगवति स्वगतभेदो भवेत्, तदा पत्रपुष्पादीनामिव,
तदैवमुपगन्तुं शक्येत । स तु नास्ति । प्रत्यारम्भं यत्र यत्र ब्रह्म निरूपणमारभ्यते, तत्र तत्र
'एकमेवाद्वितीय'मिति वचनात् । यदि सर्वत्रैकरूपता न स्यात्, तदा प्रत्यारम्भं तथा कथन-
रश्मिः ।
किन्तु ब्रह्मप्रतिपादकत्वम् । अचिन्त्यत्व इति भाष्यं विवृण्वन्ति स्म एवं द्वितीय इति । तमेवेति-
भाष्यं विवृण्वन्ति स्म ततश्चेति । बाधेति । ज्ञानाभावेऽभिज्ञानबाधः । अभित इत्यस्य ज्ञानधर्मत्वात् ।
भाष्ये ज्ञानानन्तरमिति 'विदित्त्वे'ति क्त्वान्तार्थः । क्रमादेवकारः । अन्यथा 'अतिमृत्युमेति
विदित्वे'त्यपि वदेत् । नचेतिभाष्यं विवृण्वन्ति स्म नचेति । शास्त्रेतिभाष्यं विवृण्वन्ति स्म तथा
सतीति । विचारेति । मतपदोक्तं मननं विचारस्तच्छून्यानाम् । अयं चेति भाष्यं विवरीतुमाहुः
किञ्च एतदिति । वाक्योक्तेति । ममेदं मतमिति ममतायां श्रुतिनिष्ठायाम् । अवगम्येतेति ।
अधोक्षजव्यतिरिक्तप्रकारः सर्वेषामाचार्याणां नूतनमार्गप्रवर्तकत्वात्तन्मध्ये कस्यचिन्मार्गत्त्वेन ज्ञायेत सर्वैः ।
वदत इति । मतममतमिति वदतो व्याघातः 'मम माता वन्ध्ये'ति वाक्यवत् । विवृण्वन्ति स्म अतोयम-
पीति । यतो हीतिभाष्यं विवृण्वन्ति स्म यत इति । अत्रेति पूर्वपादे । उत्तरत्र च पादे । अस्येति
विरोधस्य । बोधनप्रकारो विरुद्धसर्वधर्माधारत्वलक्षणः । विरोधस्य ज्ञानावरोधकत्वात् । नापीतिभाष्यं
विवृण्वन्तिस्म किञ्चेति । तत्तदुपादानेति । यथोद्भूतगन्धोपादानपृथिवीभूतप्रदेशरूपविशेषेण पाषा-
णभूतप्रदेशेन चाविरोधो गन्धतदभावयोः । वैयर्थ्येति । लोकेऽनधिगतार्थगन्तृत्वाभावेनाप्रामाण्यात्तथा ।
न चेतिभाष्यं विवरीतुमाहुः न चेति । विवृण्वन्ति स्म भगवत इति । इत्यन्विति । इति उक्त-
प्रकारेण लोकेऽंशभेदात्तदनुवादमादाय प्रमाणलक्षणोपपत्तेरनुवादकत्वाभावादित्यर्थः । स्वगतेति ।
गीताष्टादशाध्यायोक्तसात्त्विकज्ञाननष्टस्वगतभेदो भवेत् । प्रत्यारम्भमिति भाष्यं विवृण्वन्ति स्म प्रत्या-
१. अमततायामित्यत्र ममतायामिति पाठो रश्मौ । २. सर्वे हीत्यत्र यतो हीति रश्मौ पाठः स्यात् ।
1645