अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1759, कुल 2600 में से
संदर्भ में पढ़ें१०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ३ सू० १०.
बादर्थात् सन्देहोऽवशिष्यते । तस्मात् सन्देहान्मुग्धे अर्धप्रतिपत्तिः ।
भाष्यप्रकाशः।
प्रकृते च स एवायं न वेति सन्देहे एकतरनिश्चयजनकप्रमाणानामभावात् सन्देह एवार्थाभिषेधा-
प्रतियोगित्वेनावशिष्यते। अतः स एव परिशेष इत्यर्थः । सिद्धमाहुः तस्मादित्यादि । उक्तविधात्
परिशेषरूपात्सन्देहान्मुग्धेऽर्धप्रतिपत्तिरर्ध ज्ञानं विचारकस्य, तस्मादेव पूर्वा संपत्तिः, न तु निश्चयात्।
अतो मुग्धदृष्टान्तेन न सौषुप्तिकसिद्धान्तभङ्ग इत्यर्थः । किञ्च, अत्र प्रतिपत्त्यादिपदमनुक्त्वा यत्
संपत्तिपदमुक्तम्, तेन मुग्धे मूर्च्छितेऽर्धसंपत्तिः। यथा नाडीषु सतो नैक्याद् दुःखाभावमात्ररूपार्ध-
संपत्तिः, तथेति बोध्यते । तेन कालीयदमनस्थले मूर्च्छितस्यार्धसंपत्त्या इन्द्रियाणां प्राणानां च
पुनरागमनं यदुक्तम्, तदपि न विरुध्यत इति बोधितम् । अनुस्मृत्या च स एव जीव इत्यपि ।
अविचारस्तु जीवावस्थाभावत्वादेवेति च। एवमत्र प्रासङ्गिकपरिहारेण सुषुप्तेः प्रबुद्धः स एव, न
त्वन्य इति निर्णीतम् ।
अन्ये तु । अस्मिन् सूत्रे मुसलाद्यभिघातजन्यां मूर्च्छा विचारयन्तो, 'जाग्रत्स्वप्नः सुषुप्त'मिति
तिस्रोऽवस्था बृहदारण्यके जीवस्योक्ताः, ताः पूर्वं विचारिताः, उत्क्रान्तिश्चतुर्थी, साऽग्रे विचार-
यिष्यते, इयं तु न जाग्रत्स्वप्नयोरन्तर्भवति, ज्ञानाभावात्, नापि सुषुप्तौ, निमित्तभेदादाकारभेदाच्च,
नापि मरणे, प्राणोष्मणोरुपलम्भात्, अतः परिशेषादियं पञ्चमीत्याहुः ।
रश्मिः।
स एव वा नवेति सन्देहः स परिशेष इत्यर्थः । सन्देह इति । प्रत्यभिज्ञाविषयविषयके सन्देहे द्वितीय-
कोटिसहिते । कोट्योरेकतरनिश्चये प्रमाणानां शब्दयोगिप्रत्यक्षानुमानानामभावात् । सन्देह एवेति ।
एकतरयोगव्यवच्छेदकैवकारः । स एवेति । सन्देहः । एवकारः पूर्ववत् । अर्धं ज्ञानमिति । सन्देहार्धं
स एवेति ज्ञानम् । तस्मादेव अर्धज्ञानात् । एवेति । कर्मयोग्यव्यवच्छेदकः । गौणत्वात् । किञ्च, नतु
स एवेत्येकविषयकान्निश्चयात् । पूर्वोत्तरीयभावाभावात् । अत इति । आभ्यां सन्देहात् परिशेषरूपात्
निश्चयाभावाच्चेत्यर्थः । मुग्धेति । सुषुप्तिः स एवेत्यैक्यवती कर्मानुस्मृतिशब्दविधिभ्यः सैवेयं दीपमालिके-
तिवत् । अस्य सौषुप्तिकसिद्धान्तस्य । मुग्धदृष्टान्तेन सुषुप्तिः न स एवेत्यैक्यवती। परिशेषात् ।
मुग्धवदिति सत्प्रतिपक्षाद्भङ्गो नेत्यर्थः । किञ्च, अत्रेति । सूत्रे । तेनेति । सत्स्मारकेण सम्पत्तिशब्देन ।
'सता सौम्य तदा संपन्नो भवती'त्यत्र सत्सम्पत्तिरित्यत्र च सम्बन्धायधारणादेकसम्बन्धिज्ञानमपरसम्ब-
न्धिस्मारकमिति सत्स्मारकत्वम् । हेतुचतुष्टये कर्मरूपार्थसम्पत्तिः स एवेत्यर्थसम्पत्तिः सन्देहे । मोक्षे-
र्धसम्पत्तिं दृष्टान्तेनाहुः यथेति । दुःखेति । 'दुःखाभावः सुखं चैव पुरुषार्थद्वयं मत'मिति मोक्षेर्ध-
सम्पत्तिर्दुःखाभावरूपा । असौत्री नात्र दार्ष्टान्तिके सन्दिग्धव्या । मूर्च्छितस्येति । नन्दादिषु यस्स-
कस्यचिन्मुग्धस्य त्रिविधार्थसम्पत्तिः । यदुक्तमिति । श्रीभागवते यदुक्तम् । ननु नन्दादीनां गर्गोप-
दिष्टानां कुतो न 'नारायणसमो गुणै'रित्यस्य विचारो मोहजनक इत्याशङ्क्याहुः अविचार इति ।
विचारस्य न जीवावस्थात्वम् । प्रकरणं तु जीवावस्थानामिति भावः । एवकारो मोहयोगव्यवच्छेदकः ।
अत्रेति । सूत्रद्वये । प्रासङ्गिक आशङ्काविषयस्तस्य परिहारेण । स एवेति । उक्तद्वितीयकोटिकः ।
नत्वन्य इति । प्रथमकोटिकोन्यर्थः । निमित्तेति । मूर्च्छाया मुशलाद्यभिघातो निमित्तम् ।
सुषुप्तौ तु तमः । 'न किञ्चिदवेदिष'मिति तमःकार्याज्ञानकथनात् । इति भेदात् । उपेति । मूर्च्छायां
1638