अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
११० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १२.
द्वितीय'मिति वचनात् । अल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । श्रुत्यविरो-
धार्थमेव हि प्रवृत्तेः । तस्मान्न मतान्तरानुसारेण जडजीवधर्माणां सत्त्वासत्त्वे
परिहर्तुं शक्ये ॥ ११ ॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ १२ ॥
प्रकारान्तरेण समाधानमाशङ्क्य परिहरति । न भवदुक्तो विरोधः सम्भ-
वति । भेदात् । कारणकार्येषु सर्वत्र भेदाङ्गीकारात् । प्रपञ्चविलक्षणं ब्रह्म भिन्नम् ।
प्रपञ्चधर्मवत् ब्रह्म भिन्नम् । तथा अज्ञातं ज्ञातं च । एकस्य भेदस्याङ्गीकारे सर्वमुपपद्यत
इति चेत् । न । प्रत्येकमतद्वचनात् । अभेदवचनात् । 'इयं पृथिवी सर्वेषां भूतानां
मध्वि'ति ब्राह्मणे 'अयमेव स योऽय'मिति सर्वत्राभेदवचनात्, कार्यकारणरूप-
भाष्यप्रकाशः।
मनर्थकमेव स्यात् । अतोल्पकल्पनायामपि श्रुतिविरोधः सिद्धः । न च सोल्पत्वान्न दुष्ट इति युक्तम् ।
श्रुत्यविरोधार्थमेव भगवतो व्यासस्य प्रवृत्तेः । तस्मान्न मतान्तरोक्तरीत्या जडजीवधर्माणां सत्त्वा-
सत्त्वरूपस्योभयलिङ्गविरोधस्य परिहारसिद्धिरित्यर्थः ।
विद्वन्मण्डने तु प्रकरणसिद्धार्थविचारेणैतस्य सिद्धान्तसूत्रत्वमेव सेत्स्यतीत्याशयेन वक्ष्य-
माणरीत्यैतदधिकं व्याख्यातम् । सोपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिकं तन्निर्विशेष-
श्रुतेरित्यपि मतमर्थाद्भिरस्तम् ।
प्रकाराणां भेदनिषेधात्। तस्मान्न भेदाङ्गीकारेण श्रुतयो योजयितुं शक्याः ॥ १२ ॥
भाष्यप्रकाशः।
स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व'मित्येकं वाक्यम् । एवमग्रेऽपि, अब्व्याकाशवाय्वादित्यचन्द्र-
दिग्विद्युत्स्तनयित्नुधर्मसत्यमानुषात्मवाक्यानि । एवं चतुर्दश ।
तत्रायमर्थः । इयं प्रसिद्धा पृथिवी सर्वेषां भूतानां ब्रह्मादितृणस्तम्बान्तानां मधु मध्विव ।
उपकारकं कार्यम्, भूतादृष्टजन्यत्वात् । तथा, अस्यै पृथिव्यै अस्याः पृथिव्याः सर्वाणि भूतानि पूर्वो-
क्तानि मधु मध्विव उपकारकाणि, कारणत्वात् । किञ्च । यश्चायमस्यां पृथिव्यां तेजोमयश्चिन्मात्र-
प्रकाशमयः अमृतमयः अमरणधर्मा पुरुषः, सोऽपि 'तदभिध्यानादेव त्वि'ति न्यायेन पृथिवी-
रूपतया तदुपकारकत्वात् तस्यै मध्विति चकारेण समुच्चीयते । यश्चायमध्यात्मम्, 'अधिशरीरं
शारीरः शरीराभिमानी' त्यन्ये । वस्तुतस्तु 'यः पृथिव्यां तिष्ठ'न्नित्यादिनोक्तोऽन्तर्यामी तेजोमयो-
ऽमृतमयः पुरुषः सोऽपि तेनाभिमानेन प्रकारेण भूतोपकारकत्वाद्भूतानां मध्वित्यपि चकारान्तरेण
समुच्चीयते । अयमेव सः । अयं तेजोमयादिरूपः पुरुष एव सः । मैत्रेयीब्राह्मणान्ते पूर्वग्रन्थ
उक्तो योऽयमात्मा उक्तविधपुरुषरूप इदममृतमानन्दः । इदं ब्रह्माक्षरम् । इदं सर्वं पूर्वोक्तकार्यकार-
णरूपप्रकारात्मकमिति । एवमग्रिमेष्वपि वाक्येषु बोध्यम् ।
सिद्धमाहुः तस्मादित्यादि । एतेषां कार्यादीनां भगवदात्मकत्वनिगमनेन प्रतिवा-
रश्मिः।
एवेति । अन्यत्रादानां द्वितीयाध्यायपादयोर्निराकरणादेवकारः । कार्यकारणरूपभेदात् । छान्दसी
षष्ठीस्थाने चतुर्थीत्याहुः अस्याः पृथिव्या इति । पूर्वोक्तानीति । ब्रह्मादितृणस्तम्बान्तानि ।
कारणत्वादिति। ब्रह्मणः कारणत्वं तृतीयस्कन्धे । तृणस्तम्बान्तानां सत्तारूपाणां कारणत्वमवयवत्वात्।
तदभिध्यानादिति । अयं न्यायः द्वितीयाध्यायतृतीयपादे गतः । पृथिवीति । तस्य तस्य कार्यस्यो-
त्पादनार्थं तदभिध्यानं तत्तदात्मकत्वं तत्तत्कार्यकारणात्मकत्वं तेन तत्कारणवाचकत्वमिति 'तदभि-
ध्यानादेव तु तल्लिङ्गात्स' इति सूत्रांशार्थात् पृथिवीरूपतया तदुपकारकत्वात् तस्य 'तस्माद्वा एतस्मा'दिति
श्रुतिप्रसिद्धस्योषध्यादेः उपकारकत्वात् कारणत्वात् । तस्यै तस्याः पृथिव्या मधु कार्यम् । चकारेण
'यश्चाय'मिति चकारेण । अधुना 'इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु
यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्म१शरीरस्तेजोमयोऽमृतमयः पुरुषोयमेव
स योयमात्मेदममृतमिदं ब्रह्मेद५सर्व'मिति पूर्वकण्डिकां पुरुपान्तां व्याकृत्य भाष्य 'मयमेव स' इत्यंशवि-
वरणेन विवरिष्यन्त आहुः यश्चायमिति । अधिशरीरमित्यव्ययीभावः । आत्मनीत्यध्यात्ममिति ।
भूतोपेति । शरीररूपभूतसोपकारकत्वात्कारणत्वात् । भूतानां मधु कारणम् । भाष्यं विवृण्वन्तिस्म
अयमेवेति । उक्त इति । विज्ञाता । 'विज्ञातारमरे केन विजानीया' दिति श्रुतेः । 'इदममृत'मि-
त्यादित्रयं व्याकुर्वन्तिस्म इदममृतमिति । पूर्वोक्तेति । एतेन कार्यकारणेति भाष्यं व्याकृतम् ।
कार्यादिरूपमग्रे वक्तव्यम् । एवमिति । कार्यकारणरूपप्रकाराणां भेदनिषेध इति बोध्यम् । एतेषामिति ।
कार्यकारणरूपप्रकाराणाम् । भगवदात्मेति । इदं निगमनं मधुब्राह्मणसमाप्तौ 'तदेतद्ब्रह्मापूर्वमनपरम-
नन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतौ तच्छब्दान्निगमनेन । यद्यपि यदेतादृशं ब्रह्म
तदेवैतत्समस्तं जगदिति व्याख्यानम्, तथाप्यारम्भेऽथवैतैर्हेतुभिः साधित'मिदं सर्वं यदयमात्मे'त्यस्यैव
पूर्वप्रतिज्ञातस्य निगमनार्थमिदमिति ग्रन्थान्निगमनं बोध्यम् । प्रतिवाक्यमिति । चतुर्दशवाक्येषु ।
1647
११२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ४ सू० १३ .
अपिचैवमेके ॥ १३ ॥
भेदाङ्गीकारे बाधकत्वात् । अपिच एवमेवाभेदमेव भेदनिषेधेनैके शाखिनो
वदन्ति । 'मनसैवेदमाप्तव्यम्, नेह नानास्ति किञ्चन, मृत्योः स मृत्युमाप्नोति
य इह नानेव पश्यती'ति भेददर्शननिन्दावचनात् । तस्मान्न भेदाङ्गीकारः कर्तुं
शक्यः । इवशब्दो 'बहु स्या'मिति व्यावृत्त्यर्थः । तस्मादुपनिषत्सु सर्वप्रकारो-
ऽविरोधः सिद्धः ॥ १३ ॥
इति तृतीयाध्याये द्वितीयपादे चतुर्थमुभयलिङ्गमधिकरणम् ॥ ४ ॥
भाष्यप्रकाशः ।
क्यमभेदस्य बोधनात् । तथाच तत्तद्वाक्येषु तत्तद्धर्मश्रावणेपि ब्रह्मण ऐक्यात् सर्वत्र सर्वं कार्यं
सर्वं कारणं सर्वाणि रूपाणि सर्वे प्रकाराः सन्तीति विरोधात्तादवस्थ्यान्न भेदाङ्गीकारेण श्रुतयो
[
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११३
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ (३-२-५.)
एकदेशिमतेन समाधानमाह । कथमत्र सन्देहः, विरोधो वा जडजीवध-
भाष्यप्रकाशः।
वयवत्वेन वा अतिरिक्ततया वेदनविषयं भवति, तत् ब्रह्मैव, न तु तदतिरिक्तम् । विलक्षणप्रती-
तिविषयस्य कथमपृथक्त्वमित्याशङ्कावारणाय अर्थान्तरकल्पनैनास्य भेदपरत्ववारणाय च भेदाङ्गी-
कारे बाधकमाह मृत्योः स इत्यादि । इवशब्धं विनापि भेददर्शननिन्दासिद्धेस्तद्वैयर्थ्यं स्यादिति
तत्प्रयोजनमाहुः इवेत्यादि । तथाच घटपटवत् घटान्तरवत् तरुकुसुमवच्च तत्त्वतो नानेव नाना
पश्यति तस्य दोषः, न त्वैच्छिकं विलक्षणप्रतीत्युत्पादकं यः पश्यति, तस्य दोषः । तादृशस्य
श्रौतत्वेन वास्तवत्वादिति बोधनं प्रयोजनमित्यर्थः । सिद्धमाहुः तस्मादित्यादि । यस्मादुपनिषत्सु
सर्वत्रोभयलिङ्गमुच्यते, भेदश्च सर्वप्रकारेण निषिध्यते, तस्मात् तथेति श्रुतीनामबोधकत्वमेव प्रस-
क्तमित्यर्थः । एवमत्राधिकरणे आक्षेपसङ्गत्या विरोधः साधितः ॥ १३ ॥ इति चतुर्थ-
मुभयलिङ्गाधिकरणम् ॥ ४ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ सङ्गतिं वदन्तोधिकरणमवतारयन्ति
एकदेशीत्यादि । अयं ह्येकदेशी ब्रह्मण एकदेशेन जगत्समवायित्वं तदतिरिक्तस्य जगद्वैलक्षण्यं
स्वरूपतः सधर्मकत्वं स्वेच्छया व्यवहार्यत्वं ज्ञानात्मकं ब्रह्मण आकारं च मन्वानो ज्ञानाकारस्य
ब्रह्मणः प्रपञ्चे प्रतिबिम्बवेन लौकिकधर्मवत्त्वभानं मनुते । तन्मतेन विरोधसमाधानमाहेत्यर्थः ।
अस्याग्रे किञ्चिदंशेनादरणीयत्वादादावेवन्मतेन कथनम् । तत्रैकदेशी स्वमतं व्युत्पादयितुं पूर्वा-
धिकरणसन्देहं सिद्धान्तं चाक्षिपन्ननुयुङ्क्ते कथमित्यादि । अत्रोभयलिङ्गवाक्यश्रवणे किमापाततः
रश्मिः।
व्यवच्छेदः । मनसा मानसीसेवानिविष्टेन । ब्रह्मैवेति । 'एकमेवाद्वितीय'मिति श्रुतेर्ब्रह्म, नतु
तदतिरिक्तमित्येवकारार्थः । सात्त्विकज्ञानविषयत्वेन तत्स्मृत्युपष्टम्भात् । विलक्षणेति । प्रतीतिशब्देन
शब्दात्पाबल्यम् । अर्थान्तरेति । अर्थः भेदपक्षे नानेव यत्किञ्चिद्भेदद्रष्टुः निन्दाश्रावणात्,
किं पुनर्भेदद्रष्टुरित्येकः । द्वितीयस्तु 'य इह नानेव पश्यति' भेदमिव पश्यति किं पुनर्भेदमिति ।
तदुभयादन्योऽर्थोऽर्थान्तरम् । यथा 'य इह स्वप्ने' नानेव भातं ब्रह्म पश्यति 'अविभक्तं च भूतेषु
विभक्तमिव च स्थित'मिति ब्रह्मप्रकरणीयगीतावाक्याद्ब्रह्म तादृक् 'स मृत्योर्मृत्युमाप्नोति' । तथाच
स्वप्नाध्याये आत्मदर्शनस्य मृत्युजनकत्वमुक्तम् । एवमर्थान्तरकल्पनेनेत्यर्थः । भेदाङ्गीकार इति ।
'बहु स्या'मितीच्छात्तः पूर्वं नानेव भाते भेदाङ्गीकारे । तत्प्रयोजनमिति । ब्रह्मस्वरूपे इवार्थसाधनं
गीतानुरोधेन फलम् । तत्त्वत इत्यादि । इच्छातोपि पूर्वम् । नानेव वर्तमानं नाना तत्र भेदं पश्यति ।
विलक्षणेति । नाना, भेदमिति यावत् । तादृशस्येति । ऐच्छिकभेदस्य । अतएव भेदाभेदवादः ।
तादृशस्य नानेव भानस्येति वार्थः । श्रौतत्वं तु मुखपद्माद्विनिःसृतत्वेन वेदत्वाद्गीतायाः । तथेति ।
जीवपरत्वेन प्रतीतानां विरोधादपि तथा । एवेति । उभयलिङ्गवत्त्वस्य वक्ष्यमाणत्वेनानिष्यतेस्तथा ।
आक्षेपेति । अबोधकत्वमाक्षेप्यमिति विरोधाग्रे तन्निराकरणयोराक्षेपसङ्गत्येत्यर्थः ॥ १३ ॥ इति
चतुर्थमुभयलिङ्गाधिकरणम् ॥ ४ ॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ १४ ॥ सङ्गनियमिति । आक्षेपसङ्गतिं समाधान-
पदेन वदन्तः । आक्षेप्यविरोधसमाधानात् । मुख्यसिद्धान्तं त्यक्त्वैकदेशिमतकथने बीजमाहुः अस्याग्र
इति । एकदेशिमतस्य । अनुयुक्त इति । अत्रैकदेशी जैमिन्यादीनां सूत्राणामन्यतमो नोदयति
१. विरोधे । २. अविरोध आक्षेप्यः ।
ब्र० सू० २० १५
1649
११४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४.
र्माणां विधिनिषेधयोः । जडजीवयोर्हि जडजीवधर्मा भवन्ति । अन्यत्र तूपदिश्य-
माना उपासनार्था भवन्ति । ननूक्तो भेदाभावः । सत्यम् । तथापि कार्यकारणां-
शाभावकृतस्य भगवद्विहारार्थं जातस्य भेदस्य निषेद्धुमशक्यत्वात् । तस्मात्
ब्रह्मणि जडजीवधर्माणां निषेधो युक्तः । उपचारात्तु सर्वकर्मादयः ।
विपरीतं किं न स्यात्, अत आह । अरूपवदेव । रूप्यते निरूप्यते व्यव-
ह्रियत इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवत् विश्वम् । ब्रह्म तु
भाष्यप्रकाशः।
सन्देहः, उत ब्रह्मणि जडजीवधर्माणां विधिनिषेधयोर्विरोधनिर्धारात् । विरोधश्च किमुभयलिङ्ग-
श्रवणात्, उतोभयलिङ्गवतोर्भेदनिश्चयादिति । तत्र सन्देहे द्वितीयं हेतुं निरस्यति जडजीवयो-
रित्यादि । तथाच द्वितीयस्य हेतोरभावात् ततः सन्देहो न युक्त इत्यर्थः । सन्देहे द्वितीयं हेतुं
निरस्य स्वमतं साधयितुं विरोधद्वितीयहेतुमुज्जीवयति नन्वित्यादि । तथापीति । उक्तत्वेपि ।
तथाच तादृशस्यापि निषेधे 'बहु स्या'मित्यादेः 'स वै नैव रेम' इत्यादेश्च पीडया सृष्टिदशायां
भेदाभावस्यैवाशक्यवचनत्वात् द्वितीय एव हेतुरवश्यमभ्युपेय इति तादृग्वाक्यश्रवणादापातत एव
सन्देहः, उभयलिङ्गवतोर्भेदनिश्चयादेव च विरोध इत्यर्थः । तेन सिद्धं स्वसिद्धान्तमाह तस्मादित्यादि ।
एवमेकदेशिसिद्धान्तेन समाधानं सङ्क्षेपतो निरूप्य, तदेव विशेषतो वक्तुं सूत्रमवतारयन्ति
विपरीतमित्यादि । ब्रह्मण उपादानकारणत्वं पूर्वं सिद्धम् । अतः कारणधर्मा एव सर्वकर्मादयः
कार्ये प्रतीयन्ते, सुवर्णरूपादय इव कटकादिषु, अतस्ते युक्त्या श्रुत्या च तत्र सिद्धा इत्यनेकप्रमाण-
सिद्धत्वाद् विधिपक्षोपि युक्त इति स एव कुतो न स्यात्, विरोधपक्ष एव वा कुतो न स्यादित्याश-
रश्मिः।
सेत्यर्थः । अग्रेत्यस्य व्याख्यानमुभयेति । जीवब्रह्मलिङ्गवाक्यश्रवणे । आपाततो निर्धारं विना ।
जीवधर्मा ब्रह्मधर्मा वेति सन्देहः । एवं पूर्वाधिकरणसन्देहमुक्त्वा विरोधमाहुः सिद्धान्तरूपम् ।
विरोधश्चेति । उभयलिङ्गवतोर्ब्रह्मजीवयोः । 'न भेदा'दिति सूत्रे भेदस्य निश्चयादाशङ्कांशे । तथाच
भाष्यार्थ एवम् । विरोधो वा जडजीवधर्मसम्बन्धिनोः सर्वकर्मादिवाक्यस्थूलादिवाक्यगतविधिनिषे-
धयोः श्रवणादिति । निरस्यतीति । एकदेशी । तत इति । हेत्वभावात्सन्देहो न युक्तः । एतेन पूर्वाधि-
करणसन्देह आक्षिप्त इत्याक्षेपसङ्गतिरुक्ता । उज्जीवयतीति । शङ्कामुखेन प्रतिपादयति ।
उक्तत्वेपीति । 'प्रत्येकमदूषणा'दिति हेतुनोक्तत्वेपि । तादृशस्येति । क्रीडोपयोगिभेदस्येत्यर्थः ।
तेनैकदेशी जैमिनिः शिष्य इत्युक्तम् । पूर्वतन्त्रे भेदस्य द्वितीयाध्याय्यार्थत्वात् । तादृशस्येति । एवेति ।
भेदव्यवच्छेदकः । द्वितीय एवेति । उभयलिङ्गवतोर्भेदरूपः । एवकारः प्रथमहेतुव्यवच्छेदकः ।
आपातत एवेति । एवकारो ब्रह्मणि जडजीवधर्माणां विरोधनिर्धाररूपद्वितीयहेतुव्यवच्छेदकः । एवेति ।
उभयलिङ्गश्रवणरूपहेतुव्यवच्छेदकः । विरोध इति । सिद्धान्तः । तस्मादित्यादीति । भाष्ये ।
निषेध इति । अस्थूलादिश्रुतिषु निषेधः । उपचारादंशांशिभावसम्बन्धरूपात्तु सर्वकर्मसर्वकामादयो
ब्रह्मणि जीवधर्मा इत्यर्थः । प्रकृते । तदेवेति । अन्ययोगव्यवच्छेदक एवकारः । पूर्वमिति । द्वितीयाध्याये
समन्वयाधिकरणोक्तं उपादानकारणत्वं मतान्तरनिरासेन सिद्धम् । एवेति । कार्यधर्मयोगव्यवच्छेदक
एवकारः । तत्रेति । ब्रह्मणि सिद्धाः । अतो नोपचार इति भावः । विरोधेति । पूर्वाधिकरणसि-
1650
[Header: भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११५]
तद्विलक्षणम् । कार्यकारणांशांशिनोर्वैलक्षण्यस्य युक्तत्वात् । नन्ववैलक्षण्यमपि
युक्तम्, कारणत्वात्, अत आह । तत्प्रधानत्वात् । तस्य ब्रह्मणः प्रधानत्वा-
न्मुख्यत्वात् । यत्र हि यत् प्रतिपाद्यते, तत्र तस्य मुख्यत्वम् । ब्रह्मप्रतिपादने
ब्रह्मधर्माणांमेव मुख्यत्वम्, नान्यधर्मांणाम् । यथा प्रशासनस्य मुख्यत्वम्, तथा
'सर्वकर्मे'ति लौकिककर्मानुवादेन भगवत्सम्बन्धे स्पष्टमेवामुख्यत्वम् । विशि-
[Section: भाष्यप्रकाशः ।]
ज्ञायामेकदेशिमतेन समाधिं वक्तुं ब्रह्मणः प्रपञ्चवैलक्षण्यं तत्समवायित्वादिकं चाहेत्यर्थः ।
तेन सर्वकर्मत्वादयो धर्माः पाणिपादादयश्च ब्रह्मणि सन्ति न वेति सन्देहः । उभयविधवाक्य-
श्रवणं सन्देहबीजम् । सन्तीति पूर्वः पक्षः । न सन्तीति तन्मते समाधानमिति बोधितम् ।
समाधानव्युत्पादनाय सूत्रं व्याकुर्वन्ति रूप्यत इत्यादि । हेतुं व्युत्पादयन्ति यथेत्यादि । तथेति ।
वैधर्म्ये दृष्टान्तः । भगवत्सम्बन्ध इति । विधीयमान इति शेषः । तथाच तत्र 'होतद्वै तदक्षर'-
मिति ब्रह्मैवोपक्रम्य प्रशासनसोक्तत्वात् तस्य मुख्यत्वम्, अत्र तु 'मनोमयः प्राणशरीर' इति
शरीरविशिष्टमुपक्रम्य पठितत्वात् तथेत्यर्थः । नन्वत्र नै केवलोनुवादः, किन्तु लौकिकधर्मतुल्य-
[Section: रश्मिः ।]
द्धान्तपक्षः । एवकार एकदेशिमतयोगव्यवच्छेदकः । उभयेति । सर्वकर्मास्थूलादिरूपविधिनिषेध(द्वि)-
विधवाक्यश्रवणम् । समाधीति । पूर्वपक्षस्तु सर्वकर्मत्वादयो धर्मा ब्रह्मणि सन्तीति सिद्धान्तेन
सेत्स्यति । भाष्ये । युक्तमिति । घटकपालद्वयोर्मृत्त्वेनावैलक्षण्यमपि युक्तम् । तस्येति । घट
इत्युक्ते घटस्य मुख्यत्वं यथा । ब्रह्मणोऽधोक्षजत्वाद्ब्रह्मत्यनुक्त्वा धर्मपर्यन्तानुधावनम् । ब्रह्मधर्मा
अस्थूलादयस्तेषाम् । अन्यधर्मा जीवधर्मत्वेन प्रतीताः सर्वकर्मादयस्तेषाम् । एवकारव्यवच्छेद्यमाहुः-
नान्येति । एवकारेण न ब्रह्म व्यवच्छेद्यमधोक्षजत्वात् । प्रकृते । व्युत्पादयन्तीति । दृष्टान्तेन
स्पष्टयन्ति । यथेत्यादीति । प्रशासनस्येत्यादि । मधुब्राह्मणान्त उक्तस्य । 'तदेतद्ब्रह्मापूर्वमनपर-
मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मिति श्रुतिः । यद्वा । प्रशासनं 'अथ ह
वाचक्नव्युवाचे'त्यारम्भकेऽक्षरब्राह्मणोक्तं प्रशासनं तस्येत्यर्थः । 'एतस्य वा अक्षरस्य प्रशासने गार्गि
द्यावापृथिवी विधृते तिष्ठत' इति श्रुतिः । भाष्ये । लौकिकेति । जीवधर्मत्वेन प्रतीतकर्मणामनुवादेन
सिद्धकथनेन । स्पष्टमेवेति । एवकार आरोपापवादसङ्गतेरपि । अमुख्यत्वमौपचारिकत्वम् । जीवधर्मत्वेन
प्रतीतधर्मविरोधपरिहारोत्र निरूप्यत इति सर्वत्वविशिष्टकर्मणामजीवधर्मत्वेन निरूपणविरोधामाशङ्क्य
समादधुः विशिष्टेति । सर्वत्वविशिष्टकर्मबोधनेपि । प्रसिद्धसिद्धकथकत्वात् । प्रसिद्धातिरिक्तकर्म-
कल्पनायाम् । प्रमाणेति । 'सर्वे ब्राह्मणा भोजयितव्या' इति दृष्टान्तसहितशब्दप्रमाणवद्विलक्षणप्र-
माणाभावात् । ननु सर्वकर्मणां सर्वकामानां प्रारब्धसञ्चितादिरूपत्वात्पशुपुत्रादिविषयत्वाच्च कथमविरोध
ईश्वरपरत्वेनेत्यत आरोपेणेत्याह यथाकथञ्चिदिति । उपासनायां बोध्यम् । एतेन पादायों जीवस्य
मुक्तियोग्यता सापि स्मारिता । एवकारो 'वाचं धेनुमुपासीते'त्यादौ तथा दर्शनात् । एवेति । ननु
सर्वकर्मत्वादीन् छान्दसाननूद्य । निषेधार्थं सर्वकर्मत्वादिवैशिष्ट्यबोधनमुचितम् । प्रक्षालनपङ्कन्यायेन
प्रतिपादनवैयर्थ्यापातात् । तथेति । वैधर्म्य इति । दृष्टान्ते मुख्यत्वपदम्, दार्ष्टान्तिकेऽमुख्यत्वपदमिति
साधर्म्ये दृष्टान्तवैषम्यमाशङ्क्योक्तम् । उक्तार्थसिद्धमाहुः तथाचेति । 'अथ ह वाचक्नव्युवाचे'त्यारम्भकेऽ-
[Footer: १. समाधि । २. नानुवाद इति मूले पाठः । 1651]
११६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १४.
दृष्टबोधनेऽपि सर्वशब्दस्य प्रसिद्धानुवादकत्वादतिरिक्तकल्पनायां गौरवात् प्रमाणा-
भावाच्च यथाकथञ्चित्तद्धर्मवत्त्वेन ज्ञानस्यैवोपयोगाल्लोकधर्मानैवानूद्य विशिष्टबो-
धनमुचितम् । अरूपमिति वक्तव्ये अरूपवदिति वचनम्, भिन्नधर्माणामेवैवं
निर्णयः, न तु प्रशासनवद्भगवद्धर्माणाम् । तस्मात् कार्यवत् तद्धर्माणामपि
कार्यत्वात् भगवत्त्वम्, न भगवद्धर्मत्वमिति सिद्धम् ॥ १४ ॥
भाष्यप्रकाशः।
धर्मवत्तया ब्रह्मणो बोध्यत इत्यवयुत्यानुवादाच्चैतेषामप्यमुख्यत्वम्, अत आहुः विशिष्टेत्यादि । मास्तु
सर्वकर्मादिशब्दानामनुवादकत्वम्, तथापि के सर्व इत्याकाङ्क्षायां ये लोकप्रसिद्धास्तानेव सर्वपदेना-
नूद्य, 'कुन्त्या हि सदृशौ पादौ दृष्ट्वा कर्णस्य धीमत' इतिवत् सर्वेषामिव कर्माणि यस्येति तत्तुल्या-
नामतिरिक्तानां विधानं समासेऽङ्गीकार्यम्, तथा सति गौरवात्, सर्वकर्मादिश्रुतेर्वादकवलितत्वाद्
तदतिरिक्तस्यैतद्धर्मविधायकप्रमाणस्याभावाच्चातिरिक्तकल्पनामकृत्या यथाकथञ्चित् तद्धर्मवत्त्वेन
ज्ञानस्यैवोपासनायामुपयोगाल्लोकधर्मानैवानूद्योपचारेण शरीरधर्मविशिष्टबोधनं युक्तमित्यर्थः। ननु
यदि सर्वकर्माद्यभावेन सर्वव्यवहारातीततया जगद्वैलक्षण्यं सूत्रकृतोऽभिप्रेतं स्यात्, तदा अरूपमि-
त्येव वदेत्, नत्वरूपवदिति, वदति त्वेवम्, अतोऽतिरिक्तधर्मकल्पनैव युक्तेत्यत आहुः अरूप-
मित्यादि । एवं निर्णय इति । औपचारिकत्वनिर्णयः । तथाच लोकवैलक्षण्येन लौकिक-
व्यवहारातीतत्वमेवाभिप्रेतम्, न तु यावद्व्यवहारातीतत्वम्, अस्थूलादिवाक्य एव प्रशासन-
श्रावणेन तथा निश्चयादिति बोधनाय तथा कथनम्, अतो नानेनातिरिक्तधर्मकल्पनसिद्धिारि-
रश्मिः।
क्षत्रब्राह्मणे श्रुतिरियम् । मुख्यत्वमिति । ब्रह्मरूपत्वान्निन्दितस्यापि मुख्यत्वं प्रकाशाश्रयन्यायेन ।
अत्र त्विति । छान्दोग्यीयपञ्चमप्रपाठके तु । पठितत्वादिति । 'सर्वकर्मा सर्वकाम' इत्यादेः
पठितत्वात् । तथेति । अमुख्यत्वमौपचारिकत्वम् । अनुवाद इति । जीवधर्माणां सिद्धानां कथनम्।
अवयुत्येति । लौकिकधर्मान् तुल्यत्वेन रूपेणालौकिकधर्मेषु मिश्रीकृत्य । एतेषामिति । सर्वकर्मत्वा-
दीनाम् । अमुख्यत्वमिति । औपचारिकत्वम् । ननु शक्यस्य तौल्यसम्बन्धरूपा लक्षणा कुतो
नेति चेत् । न । तथा सति लौकिकधर्मपदप्रयोगः स्यात्, अलौकिकधर्मेषु, तीरे गङ्गापदप्रयोगवत् ।
अतो नौपचारिकत्वमिति । अनुवादकत्वमिति । जीवे सिद्धानां कथकत्वमीश्वरे । मास्त्विति ।
पूर्वोक्तावयुत्यानुवादकत्वमस्तु । यथाकथञ्चिदिति भाष्यं विवृण्वन्ति स्म यथाकथञ्चिदिति ।
उपचारेणेति । तेषामुपचारेणालौकिकान् हित्वा लौकिकानेवारोप्यापवादार्थं तैर्धर्मैः शरीरविशिष्टबोधन-
मित्यर्थः । अतिरिक्तेति । आरोप्यातिरिक्त नित्यधर्मकल्पना । एवकार आरोप्यधर्मयोगं व्यवच्छिनत्ति ।
अरूपमित्यादीति । रूपं सर्वव्यवहारविषयत्वम्, अरूपं सर्वलौकिकव्यवहारातीतत्वम् । इति वक्तव्ये
रूपवद्विश्ववैलक्षण्यायारूपवदितिवचनम्, भिन्नधर्माणां विश्वगतानामेव, नतु भगवद्गतानामिति वक्ष्यन्ति ।
एवं आरोप्यत्वेन निर्णयः । एवकारव्यवच्छेद्यमाहुः नत्विति । तद्धर्माणामिति । कार्यधर्माणाम् ।
नेति । नञा भेदोक्तेर्नेति । भेद एव विलक्षणशब्देनोच्यते, ब्रह्म तु तद्विलक्षणमिति भाष्ये । तदेतदाहुः
तथाचेति । पूर्वोक्तविश्ववैलक्षण्येन । एवेति । अरूपवदित्यत्र नञा भेदप्रत्ययानाद्विलक्षणं न
भेदातिरिक्तमिति भेदातिरिक्तविलक्षणयोगव्यवच्छेदकैवकारः । अन्यमप्येवकारव्यावर्त्यमाहुः नत्विति ।
एको वाच्यः, एकस्तात्पर्यविषयः । अत्र हेतुमाहुः अस्थूलादीति । तथेति । लौकिकव्यवहारातीतत्वम्,
नतु सर्वव्यवहारातीतत्वमिति निश्चयात् । तथेति । मतुबन्तरूपवत्पदकथनम् । अनेनेति । अरू-
१. धर्मवत्त्वेन । २. वैशिष्ट्यबोधनम् ।
1652
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥
ननु सर्वव्यवहारातीते शास्त्रवैफल्यम्, 'मनसैवेदमाप्तव्य'मिति विरोधश्च न
परिहृतः, 'तं त्वौपनिषदं पुरुषं पृच्छामि' 'यतो वाचो निवर्तन्त' इति चेत्यत
आह । प्रकाशवत् । यथा सौरः प्रकाशो व्यवहार्योऽव्यवहार्यश्च, न हि स्वतः
सम्पादयितुं शक्यते, स्थापयितुं वा, आगते तु सूर्ये मेघाद्यभावे च सान्निध्यमा-
त्रेण व्यवहारः कर्तुं शक्यते, तथा लौकिकवाङ्मनोभिर्न शक्यते व्यवहर्तुम्,
ईश्वरसन्निधाने तु शक्यत इति द्वयमाह श्रुतिः । कुत एतदवगम्यते । तत्राह ।
अवैयर्थ्यात् । अन्यथा शास्त्रं व्यर्थ स्यात् । चकाराद्धर्माणं तथात्वविरोधः परि-
हृतः । 'आसीनो दूरं व्रजति' 'अपाणिपादो जवनो ग्रहीता पश्यत्यचक्षुः स शृणो-
भाष्यप्रकाशः।
त्यर्थः । तेन सिद्धमाह तस्मादित्यादि । कार्यवदिति । प्रपञ्चवत् । न भगवद्धर्मत्वमिति । न
नित्यभगवद्धर्मत्वम् ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५॥ सूत्रमवतारयन्ति नन्वित्यादि । सर्वकर्मत्वादीनामौपचारि-
कत्वात् प्रशासितृत्वादीनां चालौकिकत्वेन सम्यग्बुद्धावनारोहात् सर्वव्यवहारातीते ब्रह्मप्यङ्गीकारे
कृते ज्ञेयत्वेनापि व्यवहारस्यासम्भवाज्ज्ञानार्थस्य विचारशास्त्रस्य वैफल्यम् । 'मनसैवैतदाप्तव्य'मिति
विरोध इति । सर्वव्यवहारातीतस्य मनोविषयत्वाभावेन, तथा एतस्याः श्रुतेः 'अप्राप्य मनसा
सहे'त्यनेन च सह विरोधो न परिहृत इत्यर्थः । अस्मिन् सूत्रे प्रकाशवदिति न मतुप्, किन्तु
तृतीयान्ताद्वतिः । पूर्वसूत्रादेकदेशभूतमपि तत्पदमनुवर्तते । तत् ब्रह्म प्रकाशेन तुल्यम् । तत्र कथं
तुल्यमित्याकाङ्क्षायां सूत्रं व्याकुर्वन्ति यथेत्यादि । व्यवहार्यत्वाव्यवहार्यत्वे व्युत्पादयति-
नहीत्यादि । स्थापयितुमिति । आयातो यथा नापयाति तथा निरोद्धुम् । सन्निधाने तु
शक्यत इति । उपासनादिसाधनेनेश्वरसन्निधाने प्रतिबन्धकाभावाच्छक्यते । द्वयमिति । मनसा
वाचा चावाप्यमनाप्यं चेति द्वयम् । शास्त्रमिति । मनसैवैतत्, तापनीयरूपम्, ज्ञानफलबोधकं
'तमेवे'त्यादिरूपं चेत्यादिकं उभयबोधकं शास्त्रम् । प्रकाशतुल्यत्वसङ्ग्राहकचकारसूचितं धर्माणं
लौकिकत्वादिविरोधपरिहारं व्याकुर्वन्ति आसीन इत्यादि । अलौकिका इति । लोकविरुद्धाः ।
रश्मिः।
षवत्पदेन । अतिरिक्ताः धर्मा वैदिकाः तेषां कल्पनस्य सिद्धिरारोपार्थम् । नित्येति । साक्षात् ।
साक्षाद्धर्मा नित्यभगवद्धर्माः ॥ १४ ॥
प्रकाशवच्चावैयर्थ्यात् ॥ १५ ॥ बुद्धाविति । यथा बालस्य शृङ्गममितोयादिभ्यो
वारितस्य बुद्धौ वारणादेरनाहरूढत् । मनसेति भाष्यं विवृण्वन्ति स्म मनसैवेति । इति चेति
भाष्यीयचकारार्थमाहुः एतस्या इति । सन्निधाने तु शक्यत इति । ईश्वरसन्निधानं हृदि 'प्रविष्टः
कर्णरन्ध्रेणे'तिवाक्यात् । फलप्रकरणे प्रसिद्धम् । व्रजभक्तेषु ईश्वरसन्निधानं भगवद्वाक्यपूर्वपक्षीकरणसमये ।
प्रतिबन्धकेति । अलौकिके तु लौकिकत्वरूपप्रतिबन्धकाभावात् । तापनीयेति । 'तद्विष्णोः
परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम्' । एवंरूपं शास्त्रम् । अत्र मनश्चक्षुषोः करणत्ववि-
रोधः । तमेवेति । 'तमेव विदित्वातिमृत्युमेती'ति । किञ्चादिना 'यतो वाच' इत्यपि । अत आहुः
उभयेति । मनश्चक्षूरूपकरणबोधकम् । मनसा वाचा चावाप्यमनाप्यं चेति बोधकम् । धर्माणाम-
1653
११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १६.
त्यकर्ण' इत्यादावलौकिका भगवद्धर्मा उच्यन्ते । अकारणककार्यवचनात् तद्ध-
र्माणां चाकार्यत्वं बोधयति । तस्मादव्यवहार्येऽपि न शास्त्रवैफल्यम् ॥ १५ ॥
आह च तन्मात्रम् ॥ १६ ॥
किञ्चिदाशङ्क परिहरति । नन्वलौकिकानीन्द्रियाणि विरोधाभावाय कथं न
कल्प्यन्ते, अन्यथा अकारणककार्यत्वम्, तस्य च नित्यत्वमलौकिकत्वम्, ततश्च
'पश्यत्यचक्षु'रिति विरोध इत्याशङ्क परिहरति । आह च श्रुतिः स्वयमेव
तन्मात्रं प्रज्ञानघनमात्रम् । 'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन
एवं वा अरे अयमात्मानन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एवे'ति स्वरूपातिरिक्ताना-
मिन्द्रियाणामभावात् । नच क्रियाभावोऽपि । वेदविरोधेन तथा कल्पयितुम
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार प्रतिलेखन (transcription) दिया गया है:
भाष्यप्रकाश-रश्मि-परिबृंहितम् । १११
ल्पना, किन्तु सर्वाकारस्वरूपं वस्त्वेव तादृशमिति मन्तव्यम् । कृत्स्नवचनात् ।
चकारात् 'सर्वेन्द्रियविवर्जित'मिति स्मृतिरपि । तस्मात्सेन्द्रियकल्पनया
अविरोधः ॥ १६ ॥
दर्शयति चाथोपि स्मर्यते ॥ १७ ॥
पुनः प्रकारान्तरेण विरोधमाशङ्क्य परिहरति । ननु ब्रह्म जगत्कारणमिति
सिद्धम्, तच्च समवायि निमित्तं चेति च, कारणधर्मा एव हि कार्ये भवन्ति, अस-
म्भावनायां त्वन्यथा कल्पनम्, कामादयो धर्माश्च श्रुतौ विहिताः, ते ब्रह्मण एव
भवितुं युक्ताः, निषेधिकार्पि श्रुतिः, न हि वेदवादिनामणुमात्रमप्यन्यथा कल्पन-
मुचितमित्याशङ्क्य परिहरति ।
भाष्यप्रकाशः ।
मेव प्राणो भवती'त्यादेः समुच्चायकः । विषयवाक्यसिद्धमर्थं निगमयन्ति अत इत्यादि । अकृ-
त्स्नत्वबुद्ध्युत्पादकप्रकारसत्त्व एव तन्निवारकस्य कृत्स्नपदस्य सार्थक्यसिद्धेस्तद्वचनात् तथेत्यर्थः ।
सिद्धमाहुः तस्मादित्यादि । क्रियाणाम् केवलज्ञानात्मकैन स्वरूपेणैव सिद्धत्वान्न तदनुरोधेनापि
तथेत्यर्थः ॥ १६ ॥
दर्शयति चाथोपि स्मर्यते ॥१७॥ पुनरित्यादिना सूत्रमवतार्य तद्विभजन्ति नन्वित्यादि
। असम्भावनायां त्वन्यथा कल्पनमिति । कार्यासाधारणधर्माणां कार्यत्ववत् कारणे
असम्भावनायां तु विवर्तवादस्य वा असतः सत्ताया वा आश्रयणेन श्रुतिविरुद्धं कल्पनम् ।
इत्याशङ्केति । एवं प्रकारेण विरोधमाशङ्क्य ।
रश्मिः ।
विनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्य' इत्यनया श्रावणेन । पूर्वश्रुतौ श्वासो-
च्छ्वासः वेदशब्दजन्यजगतः स्थापनम् । 'कार्यवत्तद्धर्माणा'मित्युक्तभाष्ये कार्यप्रसङ्गे तद्धर्माणांमुक्तेर्जगत्स्था-
पनमुक्तम् । द्वितीयायां भूतसमुत्थानादिकं स्पष्टम् । छान्दोग्यीयात्मोपदेशानुसारेण सर्वभूतसमुत्थानम्,
नतु ताम्बूलपूगीफलादिजन्यमदशक्तिवदित्याहुः उक्तत्वादिति । तथाच निलीनप्राणादेराविर्भावः, नतु
तत्रासत्त्वाया मदशक्तेरित्यर्थः । 'नासतो विद्यते भाव' इति वाक्यात् । विषयेति । विषयवाक्यं 'स यथा
सैन्धवे'त्युक्तम् । तत्सिद्धमर्थम् । अत इति शब्देन पञ्चम्यन्तेन घटितं भाष्यमिति निगमयन्तीत्युक्तम् ।
तस्मात्पर्वतो वह्निमानितिवत् । सर्वाकारत्वसमर्थनायाहुः अकृत्स्नत्वेति । तादृशप्रकारः प्रज्ञानस्य गुण-
त्वप्रकारः । तद्वचनेति । कृत्स्नपदवचनात् । तथा प्रज्ञानघनत्वेन गुणगुणिसर्वाकारस्वरूपं वस्त्वेव,
न तु मिश्रम् । तादृशमित्यर्थः । क्रियाणामिति । 'प्राणन्नेवे'त्यादौ प्राणेन्द्रियानुकूलक्रियाणाम् । स्वरूपेण
स्वसत्ता रूपेण । एवकारोऽसतः सत्ताव्यवच्छेदकः । तदन्विति । अलौकिकेन्द्रियकल्पनानुरोधेनापि
तथा अविरोध इत्यर्थः ॥ १६ ॥
दर्शयति चाथोपि स्मर्यते ॥ १७॥ नन्वित्यादीति । विरोधमिति । कामाकामपोषकश्रुति-
विरोधम् । कार्येति । कार्यासाधारणधर्माः अनित्ये जननदाससाधनकर्तृत्वापहतपाप्मत्वानि तेषाम् । कार्य-
त्वेति । षष्ठ्यन्तादितिः । श्रुतीति । 'यतो वा इमानी'ति श्रुतिविरुद्धम् । भाष्ये । कामादय इति । शारी-
रकब्राह्मणे 'काममय एवायं पुरुषः यथाक्रतुर्भवति, तत्कर्म कुरुत' इति श्रुतौ तत्कर्म । 'तदभिसम्पद्यत' इति
श्रुतौ तत्कर्मसम्पन्नः । एवं विहिताः । अत्र भवतीति लेडन्तं पदमिति । एवेति । न तु जीवस्येत्यर्थः । युक्ता
इति । नैयायिका अपि कारणधर्माः कार्यधर्मानारभन्त इत्याहुः निषेधिकेति । 'अथा कामयमानो योऽकामो
निष्काम आत्मकाम आप्तकामो भवती'ति । ज्योतिर्ब्राह्मणेपि 'अथ सुप्तो यत्र न कंचन कामं कामयते न
1655
१२० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७.
दर्शयति श्रुतिरेव जडजीवधर्माणां भगवत्यभाव इति । 'द्वे वा व
ब्रह्मणो रूपे' इत्युपक्रम्य, द्वेधा पञ्चभूतान्युक्त्वा, 'अथात आदेशो नेति
नेती'त्याह । इतिशब्दः प्रकारवाची । ब्रह्म पञ्चमहाभूतानि भवति, न
त्वेवं प्रकारकम् । तत् साधयति । न । न भवत्येव ब्रह्म तादृशम् । हि युक्तोऽयमर्थः ।
'एतस्माज्जात'मिति । न हि कार्यकारणयोरेकः प्रकारो भवति । अतो 'नेती'ति
प्रकारनिषेधोपसंहारः, न तु समवायित्वमात्रत्वम्, किन्तु 'अन्यत् परमस्ति' इति
भाष्यप्रकाशः।
परिहारं वदन्तो दर्शयतिपदसूचितं विषयवाक्यमुपन्यस्य व्याकुर्वन्ति द्वे इत्यादि ।
इदं बृहदारण्यके मूर्तामूर्तब्राह्मणे । तत्र 'द्वे वा व ब्रह्मणो रूपे' इत्युपक्रम्य अधिदैवता-
ध्यात्मभेदेन द्व
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२१
रूपं निरूप्य, नाम निरूपयति । 'सत्यस्य सत्य'मिति । तेन प्रपञ्चातिरिक्तब्रह्मणो
भाष्यप्रकाशः।
किन्त्वन्यत् परमस्तीति । तथाच द्वितीयेन नेतीत्यनेन एतावन्मात्रनिषेधोपसंहारः । तथाचात्र न
सर्वन्निषेधः, नापि रूपद्वयनिषेधः, नापि भूतवासनाराश्योर्निषेधः, न वा तत्स्थापनमात्रम्, निषेध-
पक्षेषु व्युत्पादनपूर्वकप्रतिपादनवैयर्थ्यापातात्, स्थापनमात्रपक्षे निषेधस्य प्रक्रमान्तरस्य च वैयर्थ्य-
प्रसङ्गात्, अतः प्रकारैतावत्त्वयोरेव निषेध इत्यर्थः ।
एतदेव निगमयितुमाहुः इतीत्यादि । इत्येवं अरूपत्ववारणाय रूपं निरूप्यानामत्ववार-
णाय नाम निरूपयति 'सत्यस्य सत्य'मिति । तत्र व्याख्येयवाक्य इव व्याख्यानवाक्येपि एवं
शङ्का स्यात् । हि निश्चयेन । न एतस्मात् किन्त्वाविद्यकमिति हेतोर्नेति इति, इदं ब्रह्म न भवती-
त्युच्यते, किन्त्वन्यत् परं ब्रह्मास्तीति । यद्वा । हि यस्माद्धेतोर्नेति नेतीति वीप्सया मूर्तामूर्ते तद्वा-
सनात्मिकामविद्यां तत्कार्यादि च सर्वं निषिध्य सर्वन्निषेधावधित्वेन तत्साक्षित्वेन च ब्रह्मैव
निर्दिष्टं इति, कृत्वा, नेति नेतीत्येतस्मात् परं उत्कृष्टं ब्रह्मणो निर्देशनं अन्यन्नास्तीति । अथवा ।
न ह्येतस्माद्ब्रह्मणो व्यतिरिक्तमस्तीति नेतीत्युच्यते, न पुनः स्वयमेव नास्तीत्यर्थः । तच्च दर्श-
यति, अन्यत् परमनिषिद्धं ब्रह्मास्तीति त्रिधापि अक्षरयोजना सम्भाव्यते । अतः को वा व्याख्यान-
वाक्यार्थ इति, तत्सन्देहं निराकर्तुं नाम निर्वक्ति । 'प्राणा वै सत्यं तेषामेष सत्य'मिति । प्राण-
न्तीति प्राणाः पूर्वोक्ता अपरब्रह्मरूपाः तत्कार्यत्वात् । सत्यम् । नाविद्यकाः ब्रह्मविवर्तभूताः । तत्र
रश्मिः।
वरणेनैव विवृण्वन्तोऽन्यमाहुः भिन्नेति । एतावत्तेति । पञ्चमहाभूतमात्रतानिषेधोपसंहारः । तथाच
इति नाम पञ्चमहाभूतप्रकारेण ब्रह्म नेति द्वितीयेनेतीत्यस्यार्थः, किन्त्वन्यत्तत्समवायि परमस्ति तत इति
भावः । नचेति । नन्द्वयेन मूर्तामूर्तस्थापनमात्रम् । व्युत्पादनेति । निषेधस्य व्युत्पादनेत्यादिः ।
व्युत्पादनं व्युत्पत्तिः । सा च नश्यतीति नञ् । नच भावे वा डभू डौ । प्रतिपादनं 'किं द्वौ नञा'-
वित्यादिनोक्तपक्षाणाम् । मूर्तामूर्ते नेति न, किन्तु इति उक्तप्रकारेण । नैयायिकानां प्रसिद्धमिति ।
निषेधवीप्सया निषेधादरात्सर्वं निषिद्धम् । नो चेदुपसंहारे न भवेत् । किंवा रूपद्वयनिषेधद्वयमिति
यथासंख्यमन्वयः । व्याकरणात् । पूर्वप्रतिषेधो भूतराशिं आध्यात्मिकं निषेधति । द्वितीयो वासनाराशिं
आधिदैवतम् । स्वयमेवेति । एवकारः स्मृत्यादियोगव्यवच्छेदकः । एवेति । प्रतिपादनादन्ययो-
गव्यवच्छेदकैवकारः । इत्येवमिति । इतिहैतावित्यनुक्त्वेत्येवमिति यदुक्तम्, तेन निगमनमेवं प्रकारेणेत्येवं
तृतीयान्तोक्तहेतुघटितमिति बोध्यम् । तत्रेति । रूपनिरूपणे । एतस्मादित्यस्मादित्यत्र भाष्यानुरोधात् ।
आबिद्यकमिति । मूर्तामूर्तरूपं इति हेतोः नेति । इमौ शब्दौ व्याकुर्वन्ति स्म इतीति । इत्येवं प्रकारं
इदं मूर्तामूर्तरूपं ब्रह्म न भवत्याविद्यकत्वात् इत्युच्यते । प्रथमं द्वयोः स्थापनमात्रं क्रियत इत्युक्त्वा
द्वितीय आहुः यद्वेति । तत्कार्यादीत्यादिनाकार्यकार्यग्रहणम् । सर्वन्निषेधेति । यथा नेदं
रजतमिति निषेधे निषेधावधित्वेन शुक्तिस्तद्वत् । ब्रह्मैवेति । एवकारेण मूर्तामूर्तयोगव्यवच्छेदः
क्रियते । नेतीत्येतस्मादत्यन्तेन ह्यस्मादिति नेतीलन्तं व्याख्यानं व्याकृतम् । परमित्यारभ्यान्य-
त्परमस्तीति व्याकृतम् । नहीति नञोत्रास्तिनान्वयः कृतः । उत रूपद्वयमिति तृतीयपक्ष आहुः
अथवेति । अत इति । व्याख्यानवाक्यस्यार्थः । पूर्वोक्ता इति । 'प्राणन्नेव प्राणो भवती'ति
श्रुत्युपन्यासेन पूर्वसूत्रकारोक्ताः । यद्वा 'अथामूर्तम् । प्राणश्च यश्चायमन्तरात्मन्नाकाशः । एतदमृतमेतद्य-
देतस्य'मिति मूर्तामूर्तब्राह्मणस्थाः प्राणाः । तत्कार्यत्वादिति । ब्रह्मकार्यत्वात् । सत्यमिति । प्राणाः
१६ ब्र० सू० २०
1657
१२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ५ सू० १७.
विद्यमानत्वात् प्रपञ्चधर्मवचनं तस्मिन्नौपचारिकमेव युक्तम् । श्रुत्यैव तथा प्रति-
पादनात् । चकारः पूर्वयुक्त्यनुसन्धानार्थः । अथो इति प्रक्रमभेदोपि । ‘अथात
आदेश' इति भिन्नप्रक्रमेणाह । श्रुतेरन्यार्थतानिरकरणायाह । अपि स्मर्यते ।
‘अनादि मत्परं ब्रह्म न सत् तन्नासदुच्यते' इति । सदसतोः क्षेत्रत्वात् । ज्ञेयनि-
रूपणे निषेधः । प्रपञ्चधर्मा भगवति उच्यन्ते वेदादौ, न तु तद्धर्मा भवन्तीति
ज्ञापयति । तस्माच्छ्रुतिस्मृतिभ्यामेव तथा निर्णयः ॥ १७ ॥
भाष्यप्रकाशः।
हेतुः । तेषां प्राणानां एष परमात्मैव सत्यं स्वरूपभूत इति । यद्वा । सद्द्रूपत्वात् त्यद्रूपत्वाच्च सत्यं
प्राणास्तेषामेष स्वरूपभूत इति । तथाच व्याख्यानवाक्यमपि न निषेधस्य प्रपञ्चे पर्यवसानं गम-
यति, न वा ब्रह्मणः सर्वविशेषशून्यत्वे, किन्तु ब्रह्मणः प्रपञ्चप्रकारकत्वे प्रपञ्चसमवायिमात्रत्वे
चेत्येतदर्थं रूपनामवत्त्वार्थं च नामनिर्वचनम् । तदेतदुक्तं इतीत्यादिना । तेन यत् सिद्धं तदाहुः
तेनेत्यादि । नामव्याख्यानपूर्वकं ब्रह्मणोतिरिक्तत्वस्थापनेन ब्रह्मणस्तथात्वात् तथेत्यर्थः । प्रक्रम-
भेदोपीति । प्रकारभेदेनब्रह्मातिरेकयोरुपोद्वलक इत्यर्थः । स्मृतौ ब्रह्मणः सदसत्त्वं निषिध्यते
इति कथं तेन विवक्षितव्यतिरिक्तार्थवारणमित्यतो व्याकुर्वन्ति सदसतोरित्यादि ॥ १७ ॥
रश्मिः।
सत्यमित्यन्वयः । सत्यं नाम नाविद्यकाः, किन्तु ब्रह्मविवर्तभूताः ब्रह्मणो विशेषेण वर्तनभूताः ।
ब्रह्मावैवर्तपुराणमपि भवति । परमात्मैवेति । तदन्याभावादेवकारोऽन्ययोगव्यवच्छेदकः । अन्यत्पर-
मस्तीत्यत्रान्यत्त्वमिति पुस्तकान्तरपाठात्तत्प्रतमर्थमाहुः यद्वेति । प्रपञ्च इति । मूर्त्तामूर्त्तरूपे । किंवा
वीप्सेत्युक्तद्वितीयपक्षे आहुः न वा ब्रह्मण इति । प्रपञ्चेति । पञ्चमहाभूतप्रकारकत्वे । प्रपञ्चेति ।
ब्रह्मणोऽभिन्ननिमित्तोपादानत्वादिति भावः । इतीतीति । इति रूपमित्यादिना । अतिरिक्तत्वेति ।
पञ्चमहाभूतातिरिक्तत्वस्थापनेन । तथेति । प्रपञ्चधर्मस्य पञ्चमहाभूतत्वस्य वचनं तस्मिन् ब्रह्मणि
औपचारिकत्वं लाक्षणिकत्वं स्वसमवायिकारणत्वं सम्बन्धः । एवकार आरोपापवादसङ्गतिसत्त्वात् । श्रुत्यै-
वेति अस्थूलादिश्रुत्यैव । तथेति । औपचारिकत्वम् । स्वमावतो निषेधायोगात् । प्रकारेति । प्रक्रमो
मूर्त्तामूर्त्तयोः । तस्य भेदं सौत्रोथोशब्द आहेति । निषेधो हि विधिरूपप्रकारस्य भेदेन निषेधरूपप्रकारेण
भवति । अतः पूर्वस्मात्प्रकारभेदः । अभावरूपनिषेधे ब्रह्मणोऽतिरेकोऽभावः । नहि खपुष्पे ब्रह्मास्ति ।
प्रतीत्यभावेन तस्यैवाभावात् । खपुष्पं तु ब्रह्मास्ति । ‘यदस्ति यन्नास्ति स एव विष्णु'रिति विष्णुपुरा-
णात् । तयोः सतोः । उपोद्वेति । नहि घटो नास्तीत्यादिस्थले प्रक्रमभेदेनाभावनिरूपणमस्ति सत्यपि
प्रक्रमभेदे । अथो इति शब्दप्रमाणेन तु सतोऽपोद्बलनात्पृथग्रूपनिरूपणमस्ति । ‘अथातो ब्रह्मजिज्ञासा'
‘अथातो धर्मजिज्ञासे'ति ब्रह्मधर्मयोः ब्रह्मकर्मणोर्वैक्यात् । 'कर्मके तत्र दर्शना'दिति जैमिनिसूत्रे धर्मस्थले
कर्मोक्तिः । भाष्ये । अथो इति विषयवाक्यघटकथशब्दपर्याय इत्याहुः अथात इति । यतोतः
सूत्रेपि भिन्नप्रक्रम इति भावः । मत्परमिति । अहं परो यस्येति मत्परम् । कथं तेनेत्यादि । सदसन्निषेधेन
कथं विवक्षितोर्थः अस्थूलादिरूपः तद्व्यतिरिक्तो जडजीवधर्मो औपचारिका ब्रह्मणीति तद्व्यतिरिक्तार्थः
वैदिकधर्मवद्ब्रह्म तस्य वारणमित्यर्थः । सदसतोरित्यादीति । निरूपण इति । गीतायाम् । निषेधः
ज्ञापयतीत्यन्वयः । किं ज्ञापयतीत्यत आहुः प्रपञ्चेति । उच्यन्त इति । उपचारेणोच्यन्ते, न तु
1658
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १९३
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥
प्रपञ्चधर्मा भगवत्युपचारादुच्यन्त इत्यत्र निदर्शनान्तरमाह । अतएव इममेव
निर्णयमाश्रित्य, 'समः पुषिणा समो नागेन समो मशकेन सम एभिस्त्रिभि-
र्लोकैः समोऽनेन सर्वेणे'ति निरुपमस्य भगवतो यदुपमानं तत् तद्धर्मसम्बन्धात् ।
न चात्र स्वतस्तादृशधर्मवत्त्वं ब्रह्मणो वक्तुं युक्तम् । नन्विदमपि विरुद्धमित्या-
शङ्क्य दृष्टान्तमाह । सूर्यकादिवत् । सूर्येण सहितं जलं सूर्यकम् । 'यथा ह्ययं
ज्योतिरात्मा विवस्वान् अपो भिन्ना बहुधैकोऽनुगच्छन्', 'एकधा बहुधा चैव
दृश्यते जलचन्द्रव'दिति । यथेतरसंश्लिष्टस्योपमानत्वम्, एवं 'समः पुषिणे'त्यपि ।
भाष्यप्रकाशः।
अत एव चोपमा सूर्यकादिवत् ॥१८॥ सूत्रमवतारयन्ति प्रपञ्चेत्यादि । व्याकुर्वन्ति अत
एवेत्यादि । निरुपमस्येति । 'न तत्सम' इति श्रुत्या तथा प्रतिपादितस्य । तद्धर्मसम्बन्धा-
दित्यादि । यदि प्रपञ्चधर्मवत्त्वं ब्रह्मणः स्यात्, तदा 'पुषिर्नाग' इत्यादि प्रथमान्तमेव निर्दिशेत्,
समपदं च न निर्दिशेत्, अतस्तथा निर्देशाभावात् प्रपञ्चधर्मसम्बन्धादेव तद्धर्मवत्त्वम्, न स्वतस्तथा-
त्वमित्यर्थः । दृष्टान्तोक्तिप्रयोजनमाहुः नन्वित्यादि । इदं निदर्शनमपि समत्वासमत्वयोरुभयोरपि
भावितत्वेन विरुद्धम्, अथवा तद्धर्मसम्बन्धेन तद्धर्मवत्त्वे ब्रह्मणोऽङ्गीक्रियमाणे दृष्टसम्बन्धे दृष्टत्व-
मपि स्यात्, अतोपि विरुद्धम्, अतो निर्णायकत्वाभावमाशङ्क्य श्रौतं दृष्टान्तमाहेत्यर्थः । सिद्धमाहुः
यथेत्यादि । यथा किरणद्वारा जलादिसंश्लिष्टस्य सूर्यादेर्ब्रह्मोपमानत्वम्, 'यथा ह्ययं ज्योतिरात्मा
विवस्वानपो भिन्ना बहुधैकोनुगच्छन्, उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवमजोयमात्मे'-
त्यादिवाक्येषूच्यते, एवं 'समः पुषिणे'तिवाक्येपि प्लुष्यादिसंश्लिष्टस्य तदुपमेयत्वमप्युच्यत
रश्मिः ।
प्रपञ्चधर्मा भगवति भवन्तीति । एव तथेति । प्रसिद्धप्रमाणान्तरव्यवच्छेदकैवकारः । अस्थूलत्वादि-
प्रकारेणेति तथेत्यस्यार्थः ॥ १७ ॥
अत एव चोपमा सूर्यकादिवत् ॥ १८ ॥ प्रपञ्चेत्यादि । निदर्शनेति । 'दर्शयति चे'ति
निदर्शनमुक्तम्, अन्यन्निदर्शनं 'समः पुषिणे'त्यादि, तदाह । निदर्शनं दृष्टान्तः यथा ब्रह्मास्थूलत्वादिश्रुतौ
तथात्रारूपवत् यथा सम इत्यादिश्रुतौ तथात्रारूपवत् । प्लुष्यादिविशेषविलक्षणम् । अतएवेत्या-
द्रीति । अतः ल्यब्लोपे पञ्चमी । इमं निर्णयमाश्रित्यैवेत्यन्वयः । उपमानमिति । एतेन भाष्येण
सूत्रे उपमाशब्द उपमीयतेऽनेनेत्युपमा । करणे घञन्त इत्युक्तम् । उपमेयधर्मलुप्तम् । उपमानं
पुष्यादि । समपदं वाचकं श्रुतावस्ति । उपमेयं लुप्तम्, धर्मो लुप्तः । 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गा-
मवगाहत' इत्यत्र चतुष्टयमस्ति । तद्धर्मेति । प्रपञ्चधर्मीणां उपचारेण सम्बन्धात् । स्वतश्चेति ।
यथा पञ्चमहाभूतत्वं पञ्चमहाभूते स्वातन्त्र्येण घट इत्युक्ते घटवत्त्ववदुच्यते । युक्तमिति । ब्रह्मत्वेन
ब्रह्मस्वतन्त्रधर्मेण तिरस्कारात् । ब्रह्म पञ्चमहाभूतानीत्येवं सदा पञ्चमहाभूतपदसन्निध्यभावात् । अतो न
युक्तमित्यर्थः । दृष्टान्तेति । सौत्रदृष्टान्तेत्यादिः । इदमिति । समत्वनिदर्शनम् । असमत्वं 'न तत्सम-
श्चाभ्यधिकश्च दृश्यत' इति श्रुत्युक्तम् । निर्णायकेति । निदर्शनान्तरस्य तथा । सिद्धमाहुरिति ।
श्रौतदृष्टान्तसिद्धं निदर्शनान्तरेऽविरोधमाहुरित्यर्थः । विवस्वानिति । सूर्यः । भाष्ये । दृष्टान्तप्रसङ्गात्
दार्ष्टान्तिकेन समं दृष्टान्तवाक्यमप्याहुः उपाधिनेति । जलाद्युपाधिना । भेदेन रूप्यते व्यवह्रियत
इति भेदरूपः । क्षेत्रेषु योन्यादिषु । इत्यादीति । आदिना सौत्रादिशब्दार्यैकधाबहुधेति भाष्यीयवाक्यम् ।
1659
चकारस्तु विरोधाभावो वक्तव्यः, अधिकरणं च संपूर्णमेकदेशिन इति सूचयति ।
तस्माज्जडजीवधर्माणां भगवत्युपचारः, निषेधस्तु मुख्य इति ॥ १८ ॥
इति तृतीयाध्याये द्वितीयपादे पञ्चममरूपवदेव हीत्यधिकरणम् ॥ ५ ॥
भाष्यप्रकाशः ।
इति विरोधाभावादुपमारूपं निदर्शनमपि निर्णायकमित्यर्थः । सिद्धमाहुः तस्मादिति । ब्रह्मणः
प्रपञ्चविलक्षणत्वेन कार्यासाधारणधर्माणां कारणे ब्रह्मण्यभावेन ब्रह्मणस्तत्स्वरूपधर्माणां च
लौकिकमनोवागगोचरत्वेन ‘कृत्स्नः प्रज्ञानघन’ इति श्रुत्या आकारस्य ज्ञानात्मकत्वेन तच्चे-
ष्टियादीनां धर्माणां च नैसर्गिकत्वेन तेषां च भगवत्प्राकट्ये एव दर्शनादिव्यवहारविषयत्वेन
लौकिकवाङ्मनोभिः प्रतीयमानानां स्थानधर्मत्वात् तथेत्येकदेशिमतेन सिद्धमित्यर्थः । तेन ब्रह्मणः
स्थानतो जडजीवधर्मवत्त्वम्, स्वतस्तु तद्रहितत्वमित्येकदेशिमतेन सिद्धम् । एतेनास्याधिकरणस्य
प्रासङ्गिकत्वं वक्ष्यमाणोपद्घातत्वं वेति सूचितम् ।
विद्वन्मण्डने तु मायावादिमतेन अरूपवत्सूत्रप्रकृतैतावत्सूत्रद्वयाभ्यां निर्विशेषस्यैव मुख्य-
तया निरूपणं दृश्यते इत्याशङ्कायां 'न स्थानतोऽपी'त्यादिसूत्रत्रयम्, 'अरूपव'दित्यादिसूत्रचतुष्टयं
चोपादेयांशमादायेवं व्याख्यातम् । तथाहि । तत्र जडजीवधर्मा ब्रह्मणि सन्ति न वेति विचार-
यैस्तन्निरूपकनिषेधक श्रुतीनामन्योन्यविरोधपरिहारं च विचारयन्नुभयोरपि श्रुतिवाक्यत्वेनान्यतर-
बाधमप्यशक्यं जानन्नौपाधिकं ब्रह्म सविशेषश्रुतिविषयः, निरुपाधिखरूपं तन्निर्विशेषश्रुतेरिति
मतम्, ‘न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र ही’ति सूत्रेणौपाधिकत्वे तत्स्वभावत्वं ब्रह्मणो न
सम्भवतीति तच्छ्रुतीनामब्रह्म निरूपकत्वापत्तिरिति निरस्य, पुनरुपाहितानुपहितयोर्भेदाङ्गीकारेणो-
भयरूपत्वं ब्रह्मणि भविष्यतीति तन्मतोपपत्तिमाशङ्क्य, 'न भेदादितिचेन्न प्रत्येकमदतद्वचना’दिति
सूत्रेण ‘अपि चैवमेके’ इत्यग्रिमेण चामेदबोधकश्रुतिविरोधनिरूपणेन निरस्य, पुनराकाराणां प्रपञ्च-
मध्यपातित्वात् प्रपञ्चस्य जन्यत्वात् तेषामपि तथात्वात् तेषु ब्रह्माभेदबोधनमौपचारिकम्, अतः
साकारवादिन्यो न ब्रह्म निरूपिका इति प्राप्त आह ‘अरूपवदेव हि तत्प्रधानत्वा’दिति । स्यादेतदेवम्,
यद्याकाराणां प्रापञ्चिकत्वं भवेत्, न त्वेवम् । न हि प्रपञ्चस्थितत्वेनैव प्रापञ्चिकत्वं वक्तुं शक्यम् ।
त्वदभिमतस्यापि तथात्वापत्तेः । अतो निराकारवादिनीष्विव साकारवादिनीष्वपि श्रुतिष्वरूपवदेव
तद् प्रतिपाद्यते । रूप्यते निरूप्यते व्यवह्रियते इति रूपं सर्वव्यवहारविषयत्वम्, तद्युक्तं रूपवद्वि-
श्वम्, ब्रह्म तु तद्विलक्षणमित्यर्थः । यथा चैतत् तथा मृत्स्नामक्षणादिप्रसङ्गनिरूपणेन निरूपितम् ।
रश्मिः ।
तद्रूपेति । सूर्याद्युपमेयत्वम् । विरोधाभावादिति । असमस्यैव प्लुष्यादिसमत्वमिति तथा । पृथिवे-
त्यत्युपमोपमानं सूर्यादि तद्रूपं निदर्शनम् । शेषमिति । अवक्तव्यः उक्तप्रायत्वात् । सूचय-
तीति । समुच्चयार्थकत्वात्सूचयति । जडेति । सर्वकर्मसर्वकामत्वादीनां लौकिकानाम् । निषेधोऽस्थूला-
दिश्रुत्या । इति विरोधपरिहारः । एवं शेषं स्फुटमित्यर्थः । स्थानत इति । तत्सूत्रे स्पष्टम् । प्रास-
ङ्गिकत्वमिति । अविरोधप्रतिपादकेनाधिकरणेन स्मृतसैकदेशिमतसाविरोधप्रतिपादकस्योपेक्षानर्हत्वा-
दिति भावः । वक्ष्यमाणेति । मुख्यसिद्धान्तबोधकवक्ष्यमाणाधिकरणस्य किमपेक्षया मुख्यत्वमिति
निरूपकसापेक्षस्य प्रकृतस्य सिद्धयर्थैकदेशिमतस्य मुख्यत्वनिरूपकस्य चिन्तात्र कृतेत्युपोद्घातत्वम् ।
१. मूलपुस्तके ब्रह्मण इत्यारभ्य इत्यर्थ इत्यन्तं विद्धार्यकथनं नास्ति, किन्तु शेषं स्फुटमित्येव वर्तते, रश्मिकारेण
तदेव विवृतमिति ।
1660
सर्वतोमुखत्वात्"?
"सर्वतोमुखत्वात्" is preceded by "सूत्राणां सर्वतोमुखत्वात्"!
Wait, look at the letters in line 24:
"व द न्त ए वे ति । सू त्रा णां"
Wait! Is that 'सूत्राणां'?
स् + ऊ = सू.
त् + र + आ = त्रा.
ण + आ + ं = णां!
Wait, look closely at line 24:
Does it say "सूत्रार्था" or "सूत्राणां"?
The second akshara is त्रा (trā). The third akshara is णां (ṇāṃ)!
Wait, look: it has a vertical bar, with a hook like 'ण' and anusvara on top! Yes, "सूत्राणां"!
"सूत्राणां सर्वतोमुखत्त्वादन्यार्थ..."
Yes! That is the exact maxim: "सूत्राणां सर्वतोमुखत्वात्"! Beautiful!
Let's check line 25:
सर्वतोमुखत्त्वादन्यार्थवदनयोगव्यवच्छेदकैवकारः । त्रिवृदित्यादि । 'अग्नेराप' इति श्रुतेर्जलसमवायिनि-
Wait, "श्रुतेर्जलसमवायिनि-"?
Wait, at line 26:
What follows "श्रुतेर्जलसमवायिनि-"?
Look at line 26 start:
ानि मनःप्रभृतीनि
Line 15: कार्याणि अस्वच्छानि । मनो हि शुद्धाशुद्धभेदेन द्विविधम् । तत्र शुद्धं कामविवर्जितमिति ।
Line 16: तत्र प्रतिबिम्बिते ब्रह्मणि सर्वकामा एव न भासेरन् । अशुद्धस्य तु कामवत्त्वेपि अस्वच्छत्वादेव
Line 17: प्रतिबिम्बाग्राहकत्वम् । प्राणस्त्वपामयोपि वायुरूपत्वात् प्रतिबिम्बग्रहणायोग्यः । तथा भारूपं
Line 18: तेजः आकाशश्च । तस्माज्जलादिवत् अंशेन संश्लिष्टस्य ब्रह्मणः प्रतिबिम्बं ग्रहीतुं न शक्नुवन्ति ।
Line 19: किञ्च । धर्मत्वात् । समवेतं हि कार्यं कारणस्यावस्थाविशेषरूपत्वात् तद्धर्मभूतं तस्मात् । न हि
Line 20: समवेते कार्ये समवायिनः प्रतिबिम्बः क्वापि दृष्टचरः, नाप्यस्वच्छे कस्यापि । अतः समवायि-
Line 21: व्यतिरिक्तस्य समवायिनश्च ब्रह्मणो ग्रहीतुमशक्यत्वबोधनायाम्बुवदग्रहणादित्युक्तमित्यर्थः । ननु
Line 22: रश्मिः।
Line 23: अस्थूलादिवाक्योक्तनिषेधस्य । जडजीवधर्मयोगादित्युकम् । सच 'पृथ
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १२७
तथा धर्मा ग्रहीतुं शक्नुवन्ति । धर्मत्वान्न । सर्वाधारत्वेन तथोच्यमाने वैयर्थ्य-
भाष्यप्रकाशः।
मास्तु धर्माणाद्युपाधिभूतानां प्रतिबिम्बग्राहकत्वम्, तथापि द्युभ्वाद्यधिकरणविषयवाक्ये ब्रह्मणः
सर्वाधारतायाः सिद्धत्वाद् ब्रह्मण्येव मनःप्रभृतीनां तद्धर्माणं च प्रतिबिम्बोस्तु, तथा सति तेषां
धर्माणामौपचारिकत्वमेव सेत्स्यतीत्यत आहुः सर्वेत्यादि । यद्यपि रूपरहितस्य ब्रह्मणो न
प्रतिबिम्बग्राहकत्वम्, आकाशादितुल्यत्वात्, तथापि भारूपत्वमादाय ग्रहिततया तथोच्यमाने
तेषां धर्माणाद्युपाधिधर्मत्वेनैव प्रत्ययः । लोके हि स्थिर आधारे प्रतिबिम्बचञ्चलतायां तद्धर्मे
चलने बिम्बीयत्वेनैव भानस्य दृष्टत्वात् । अतस्तद्धर्मत्वेन उपासनाया असिद्धेस्तदनुवादवैयर्थ्यमिति
पूर्वं अरूपवत्सूत्रव्याख्याने सर्वशब्दस्य प्रसिद्ध
मिति पूर्वमवोचाम । नच भ्रमात् कल्पनं वेदेनोच्यते । अप्रतारकत्वात् । सर्व-
भाष्यप्रकाशः।
'एकधा बहुधा चैव दृश्यत' इति दृष्टान्तप्रयोजनोक्त्यैव तथा निश्चयादिति । नन्वत्र पूर्वं ब्रह्मणः
सर्वत्वेनोपासनायाः 'शान्त उपासीते'त्यन्तेन विधानात् 'स क्रतुं कुर्वीते'त्यस्यापि व्यवहितेनो-
पासीतेत्यनेनैव सम्बन्धान्मनोमयत्वादिधर्मविशिष्टत्वेन ब्रह्मण एवोपासनं विधीयत इति, तत्र
यथा सर्वत्वमारोपितम्, एवमत्र मनोमयत्वादिकमप्यारोपितमेवेत्यम्बुवद्ग्रहणाभावेऽपि सर्वकाम-
त्वादिधर्माणां कल्पितत्वादौपचारिकत्वमेवेत्यत आहुः नचेत्यादि । नात्र मनोमयत्वादिकमा-
रोपितम् । उपासनाया एवात्राभावात् । अथेत्यनेन प्रक्रमभेदे बोधिते प्रकृतच्छेदेन व्यवहितसम्ब-
न्धस्य वक्तुमशक्यत्वात् । किन्तु पूर्वोपासनया शुद्धान्तःकरणस्य सर्ववेदान्तप्रसिद्धब्रह्मण उपदेशो-
ऽयम् । स शान्तोऽन्यत्र रागरहितः, क्रतुं वक्ष्यमाणप्रकारकं निश्चयमध्यवसायात्मकमविचल-
प्रत्ययं तथा मननं वा स्वस्य वक्ष्यमाणभगवत्स्वरूपलाभार्थं कुर्वीतेति । एतेन शब्दान्तरेणापि
तथा निश्चयात् । उपसंहारे च पूर्वोक्तधर्मविशिष्टस्यात्मनो ब्रह्मत्वं 'एतत् ब्रह्म'त्यनेन निगमयित्वा
'एतमितः प्रेत्याभिसम्भावितास्मी'ति, 'यस्य स्यादद्धा न विचिकित्सास्ती'त्यत्रेतिशब्देन पूर्वोक्तं
सर्वं परामृश्य, 'यस्य स्यादद्धे'त्यनेन सर्वस्य
ज्ञत्वाच्च । विप्लववादिन एवैवं वचनम्, न वैदिकस्य । 'पृथिव्यां तिष्ठ'न्नित्यादिविरो-
धश्च । तस्मात् ब्रह्मधर्मा एव सर्वकामादयः, न तूपाधिसम्बन्धादौपचारिका
इति ॥ १९ ॥
वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ॥ २० ॥
सिद्धान्तेन विरोधपरिहारमाह । विरोधो हि परिहरणीयो लोकवेदाभ्यां तद-
भाष्यप्रकाशः।
च भ्रमात् कल्पनम् । तत्तु नात्र वेदेनोच्यते । अप्रतारकत्वात् सर्वज्ञत्वाच्च । यदि ह्येवं सत्यत्वं
निगमयन् स्वयं सम्यक् ज्ञात्वा परस्मा आरोप्यान्यथा ब्रूयात्, प्रतारक एव स्यात् । अज्ञात्वा-
रोपितं चेद् ब्रूयात्, सर्वज्ञत्वादेव हीयेत । अतो नात्र तथा वक्तुं शक्यमित्यर्थः । एतेन मध्वादि-
विद्यास्विवात्र कल्पनोपदेश इत्यपि निरस्तम् । तत्रैवमवचनात् । सांख्यवादिं प्रति तद्रीतिबोधने
तत्र तथा कथनाच्च ।