सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2595, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2595

परिशिष्टम् । ९९
'ऋषिपुत्रा महात्मानस्तपसा स्त्रीत्वमापिरे । भर्तारं च जगद्योनिं वासुदेवमजं विभु'मिति
वाक्यादेवं भावः । वस्तुतस्तु साधनप्रकरणे 'प्रसादरूपा शक्तिः स्त्री भवती'ति सुबोधिन्याः स्त्रीत्वं
प्रसाद्मापिरे । भर्तारं धारकं पोषकं वा । कामाद्धारणमप्रच्युतं भवतीति । काम इच्छा प्रेमेच्छेति
स्थितमिति सुधीभिराकलनीयम् । कथमपि हृदि प्रकटेनाकाशरूपानन्देन । आकाशवद्वदिति
प्रत्ययादाकाशरूपानन्दस्य प्रकारता । अये विषादे विरहात् । कथमपि स्थितानामसूनां स्थिति-
विचारस्त्वया कर्तव्य इति ।
श्रीयमुनाजिदुक्तावाहुः श्रीति ।
श्रीगोकुलनाथोऽस्माकैहिकं पारलौकिकं च ।
स्वयमेव जातोस्तीति किमस्माकं विचारणीयमस्ति ॥ २ ॥
अत्र द्वितीयतुरीयपादयोर्व्यत्ययः, आर्यान्तरत्वात् । 'यस्याः प्रथमे पादे द्वादश मात्रास्तथा
तृतीयेऽपि । अष्टादश द्वितीये पञ्चदश चतुर्थके सार्ये'ति । अत्रा'स्माकमैहिकं पारलौकिकं च श्रीगोकुल-
नाथः स्वयमेव जातोऽस्ती'त्यन्वयात् सखण्डब्रह्मज्ञानं सर्वस्मिन्नात्मभावो यत्र स सर्वात्मभाव इति
व्युत्पत्तिकसर्वात्मभावरूपम् ।
एवं च व्रजभक्तानां भ्रमरगीते उद्धवद्वारा ज्ञानोपदेशवदत्रापि स्वयमेव ज्ञानोपदेशं कारयिष्यतीति
नास्माकं विचारणीयं किमप्यस्ति । तदुक्तं स्वप्नदर्शनाख्यग्रन्थे 'एवमुरुधास्तं विलपन्ती मूर्च्छिता-
हमासं ततश्चिरेण श्रुतिपथागतप्रियवंशीनिनादैर्मन्त्रैरिव विगतमूर्छाहमभवमि'ति ।
तर्ह्यस्माभिः कथमपि स्थितानामसूनां स्थितिश्चिन्ता कार्येत्यत्र नेत्याहुः चिन्तेति ।
'चिन्ता कापि न कार्या, गोवर्धननाथोऽस्मत्कुल-
पतिरसद्धितमेव करिष्यति ॥ ३ ॥
'चिन्ता कापि न कार्या निवेदितात्मभिः कदापि । भगवानपि पुष्टिस्यो न करिष्यति लौकिकी
च गति' मिति नवरत्नात् ।
आश्यान्तरं प्रकाशयन्ति स्म ।
किं ब्रुवाणि सखि प्रेष्ठविरहानलवाहिता ।
जीवामीत्येतदेवालं निरपत्रपतास्पदम् ॥ ४ ॥
हे सखि निरपत्रपतास्पदं यथा भवति तथा जीवामीति यत् तत् तस्मै जीवनायालं
'नमःस्वस्ती'ति सूत्रेण चतुर्थी तस्याः 'अव्ययादाप्सुप' इति सूत्रेण लुक् ।
वेदान्तिनां ज्ञाननिष्ठत्वेन क्रियाकृपाप्रश्नं चक्रुः सखीति ।
सख्येतल्लेखनीयं त्वयाऽतियत्नेन राधिका ( कान्तः ) ।
किं कृपयिष्यत्यथवा मनोरथेनैव जन्मनिर्वाहः ॥ ५ ॥
हे सखि यमुनाजित् । एतद् वक्ष्यमाणं पत्रे लेखनीयं प्रश्नविषयम् । राधिका क्रिया 'क्रिया
सा राधिका देवी'ति वचनात् मनोरथेन इच्छया जन्म आत्मतया शरीरस्वीकारो निर्वाहः
निर्गतो वाहाद् वाञ्छाया एतादृशः । 'वाहस्तु मतभेदे वृषेभयो'रिति विश्वः । 'ईहा तृणमवाञ्छयो'
रिति च विश्वः । किमिति प्रश्ने मनोरथेनैव जन्मनिर्वाहः किमिति प्रश्नः । कृपयिष्यतीत्यत्र
कृपा कृपाभावाभावरूपापि सम्भवति अभावज्ञाने प्रतियोगिज्ञानं कारणमिति ।
2457