सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 2596, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 2596

प्रतियोगिनं कृपाभावं व्यक्तीकुर्वन्ति स्म मदिति ।
मदन्तःस्नेहवशतो मच्छरीरव्यवस्थितिम् ।
जानन्तोपि न जानन्ति तत्तूचिततरं हि वः ॥ ६ ॥
ममन्तःस्नेहो मनोजशरपीडाजन्यविविधभावोपशामकत्वेन आत्मविषयः । मच्छरीरव्यव-
स्थितिः पूर्वोक्ता विरहसामयिकी ताम् । जानन्तः 'शरीरेन्द्रियासुहीनानां वैकुण्ठपुरवासिनां' स्त्रीत्वं
भगवत्सेवानुकूलत्वलक्षणं न सम्भवतीति भगवत्सेवानुकूलत्वलक्षणपुंस्त्वविशिष्टास्ता इति पुंस्त्वेन
निर्देशः । यूथाभिप्रायेण बहुवचनम् । न जानन्ति अग्निकुमारत्वेन भर्तृभावात् ताः प्रत्यज्ञानम् ।
भक्तेच्छयैतादृशलीलाप्राकट्यादुचिततरं वो युष्माकं भगवता लीलाविशेषेऽङ्गीकृतानाम् ।
अन्यथा कुतो न लीलायां प्रविष्टे येन कृपाभावो न भवेदिति चेत्, तत्राहुः यथेति ।
यथा नर्तयति स्वामी वस्तुतस्त्वपराधिनम् ।
मां तथाहं