अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 2594, कुल 2600 में से
संदर्भ में पढ़ेंइत्येकादशसर्वस्वे भगवान् स्वयमुक्तवान् ।
आत्मानं हि स्वयं वेद तस्मादन्यवचो मृषा'
इति सर्वनिर्णयोपान्ते प्रवृत्तनिवृत्तोत्सर्गेण भगवत्सङ्गजसर्वात्मभावेन 'मां याही'त्युक्ते सर्वात्म-
भावस्य प्रदानसाध्यत्वात् प्रवृत्तनिवृत्तोत्सर्गेण ।
'मत्सङ्गान्मामुपागता' इति श्लोकोक्तमत्सङ्गं निबन्धत्वाभावार्थं गुरूणामाहुः वृन्देति ।
वृन्दारण्यगतं रासरसोन्मत्तमतं गजम् ।
बबन्ध गोपबालैका बहु शृङ्खलया निशि ॥ १ ॥
रासरसोन्मत्तमतं रासे रससमूहे भक्तिरसेनोन्मत्तमपि मतं पूजितं संमतम्, वा गोपाल-
तापिनीये 'बलवीनयनाम्भोजमालिने नृत्यशालिने नम' इति ब्राह्मणस्य 'श्रीकृष्ण रुक्मिणीकान्त गोपीजन-
मनोहर । संसारसागरे मग्नं मामुद्धर जगद्गुरो' इति च ब्राह्मणस्य । गजं गजमिवात्तगजेन्द्रलीलम् ।
एका मुख्या। आत्मवशीकरणसमर्थभक्तिमत्या शृङ्खलया प्रेम्णा 'पराकाष्ठा प्रेम्णः पशुपतरुणीना'मिति
परिवृढाष्टकात् । बहु यथा भवति तथा पुष्टिमार्गीयसर्वात्मभावेन बहुरूपम् । मध्ये विरहाङ्गीकारात् ।
बह्वा । बह्वी च शृङ्खला बहुशृङ्खला तया एकत्वमविवक्षितम् । बहुविलासेन प्रेम्णा ।
हरितुर्यप्रियाभक्तिमाहुः ।
हरितुर्यप्रिये कृष्णे प्रेम्णा भोज्यं मदर्पितम् ।
अङ्गीकुरुष्व कृपया सफलं जन्म मे कुरु ॥ २ ॥
एतस्या नाम कृष्णा, तस्याः सम्बोधने कृष्णे इति । भोज्यं खाद्यलेह्यचोष्यपेयरूपं
वस्त्रामरणमालाधूपदीपजलपात्राचमनमुखवस्त्रताम्बूलयमुनाष्टकपाठानामुपलक्षकम् । भक्तिदानेन वैराग्य-
रूपफलेन सह वर्तमानं जन्म मम 'जनयत्याशु वैराग्य' मिति वाक्यात् ।
वन्दनं पूजायां न निविशत इत्यत्र भक्तावपि पृथगेवाहुः नम इति ।
नमस्ते सच्चिदानन्दरसरूपिणि सूरजे ।
कुमारीष्विव मे देहि श्रीकृष्णे भावमुत्तमम् ॥ ३ ॥
पूर्वोक्तं रूपं पद्मपुराणयमुनामाहात्म्ये 'त्रयी रसमयी सौरी ब्रह्मविद्या सुघावहा । नारायणी-
शरी ब्राही धर्ममूर्तिः कृपावती'ति वाक्यात् । सूरो मिहिरस्तज्जे, मे मह्यम्, यद्यप्युत्तमं भावं
व्यसनात्मको भावः साधनप्रकरणे 'उत्तमः फलपर्यन्त' इत्यत्र कारिकायां विवृतः, तथापि स न
सूर्यजायै दत्तोऽपि तु भवाय दत्तः, अतः सूर्यजादत्तो भावः उत्तमः कुमारीषु फलसहितो भाव
उत्तमस्तद्वत् फलसहितं भावे देहीति । यमुनायाः कालिन्दीले तु कलिं द्यतीति व्युत्पत्त्यान्योन्य-
कलहखण्डनं भगवता सह कलहावखण्डनं कलिकालदोषावखण्डनं च भावं देहीति । तिष्ठे-
तेत्यात्मनेपदेन 'प्रकाशनस्थेयाख्यायोश्चे'ति सूत्रेण लकारार्थप्रक्रियात्वेन जातेन 'गोपी कृष्णं
तिष्ठत' इत्युदाहरणवत् ।
स्वाशयं प्रकाशयांमभूवुः त्वदीयेति ।
त्वदीयमधुसूक्तिभिर्भ्रतजनेशतसङ्गाशया
मनोजशरपीडिताः कथमपि स्थिता मेऽसवः ।
अतः परमये यदि प्रियतमाङ्गसङ्गो भवेत्
तदैव मम जीवितं विरहितावशाहीकरम् ॥ १ ॥
१. सत्सङ्गान्मामित्येकादशीयपाठः ।