अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1330, कुल 2600 में से
संदर्भ में पढ़ें५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० २ पा० २ अ० ३ सू० १५
रूपादिमत्त्वाच्च विपर्ययोऽदर्शनात् ॥ १५ ॥
यद् रूपादिमत् तदनित्यम् । परमाणोरपि रूपादिमत्त्वाद् विपर्ययः ।
भाष्यप्रकाशः।
रित्यादि । सामग्रीसमवधाने हि कार्यावश्यंभावनियमो लोके दृष्टः । प्रकृतेऽपि परमाणोः सम-
वायिन ईश्वरेच्छादृष्टयोर्निमित्तयोश्च सृष्टिकाले सत्त्वात्तज्जन्यस्य परमाणुद्वयकर्मणस्तज्जन्यस्य
संयोगस्य चाभावो वक्तुमशक्य इति कारणान्तरस्य सर्वस्य विद्यमानत्वाद् द्वयणुकं सदा स्याद्-
तोऽपि जन्यद्व्यणुकाभावात् परमाणुकारणवादो न संगत इत्यर्थः ।
अन्ये तु परमाणवः प्रवृत्तिस्वभावा वा निवृत्तिस्वभावा वा उभयस्वभावा वा अनुभय-
स्वभावा वा । आद्येऽविरतं सर्गापत्तिः । द्वितीये तु सर्वदा तदभावापत्तिः । तृतीये तु विरोधः ।
चतुर्थे तु पूर्वोक्तरीत्या निमित्तस्य नित्यसंनिधानान्नित्यप्रवृत्तिप्रसङ्गः । तदतद्भावे नित्यनिवृत्ति-
प्रसङ्ग इत्याहुः । सोऽयं स्वभावविकल्पो वैशेषिकानभ्युपगतत्वादाचार्यैरुपेक्षितः ॥ १४ ॥
रूपादिमत्त्वाच्च विपर्ययोऽदर्शनात् ॥ १५ ॥ एवं संयोगजन्यद्व्यणुकदूषणेन
कार्यद्वारा परमाणुकारणवादे दूषितेऽपि यावत् तेषां नित्यत्वं न दूष्येत तावदनन्यथासिद्ध-
नियतपूर्ववर्तित्वरूपस्य तदीयस्य कारणलक्षणस्य परमाणुष्वभिमाने पुनः स वाद उत्तिष्ठेदिति
तदभावाय परमाणुनित्यत्वदूषणेन दूषयतीत्याशयेन तद् व्याकुर्वन्ति यदित्यादि । 'सद्-
कारणवन्नित्यम्' इति हि काणभुजं चतुर्थाध्यायारम्भे लक्षणम् । तदत्र विपरीतव्याप्तिप्रदर्शनेन
सत्प्रतिपक्षोत्थापनाद् दूष्यते । परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वादाकाशादिवदिति
साधने, अनित्या रूपादिमत्त्वाद् घटादिवदिति प्रतिसाधनस्य सत्त्वादिति । एतेनैव स्थौल्य-
स्यापि सिद्ध्या परमाणुतापि दूषितैव । तेषां मते रूपादिक्रमेणैव गुणानामुपक्रान्तत्वात्
रश्मिः।
ईश्वरेच्छेति । अदृष्टं च जीवस्य । तज्जन्यस्येति कर्मजन्यस्येत्यर्थः । 'भावादित्यस्य विवरणं
अभावो वक्तुमशक्य इति । अभावमुखविवरणं तु परैर्दूषणानामुद्भावितानां सत्त्वाद्भावे संदेहात् ।
सवेति । तदभाव इत्यतस्तदित्यनुवृत्त्येहानुषज्य सदेत्यावृत्त्या योजनीयम् । तत्कार्यं द्व्यणुकमपीति
भाष्ये स्यादिति क्रियापदम् । अधुना तु तदभाव इत्यनुषज्यत इति पूर्वोक्तमनुषङ्गेण सहार्थमाहुः
अतोपीति । अन्य इति शंकराचार्यादयः सर्वे । निमित्तस्य ईश्वरेच्छादृष्टरूपस्य । तद-
तद्भावे इति निमित्ताऽतद्भावे । उपेति । तेनांशकाः सिद्धा एवानूद्यन्ते सर्वत्रेति ध्वन्यते ॥ १४ ॥
रूपादिमत्त्वाच्च विपर्ययोऽदर्शनात् ॥ १५ ॥ कार्यद्वारेति द्व्यणुकरूपकार्याभावं
द्वारीकृत्य । तदीयस्येति । स्वस्य तु आविर्भावशक्त्याधारत्वस्य कारणलक्षणस्येश्वरेभिमान
इति भावः । लक्षणमिति नित्यत्वलक्षणम् । तदत्रेति व्याप्तिबोधकं सूत्रम् । प्रकृतसूत्रे
सत्प्रतीति 'साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्षः' । न्यायसूत्रं व्याचक्षते
परमाणव इति । यत्र सत्त्वे सत्यकारणवत्त्वं तत्र नित्यत्वमिति व्याप्तिः । विपरीतव्याप्तिमाहुः
अनित्या इति । एतेनेति रूपादिमत्त्वेन हेतुना । सिद्ध्येति परमाणवः ह्रस्वाः रूपादि-
मत्त्वात्, शक्लवदित्यनुमानेन सिद्धा । दूषितैवेति ह्रस्वपरिमाणाङ्गीकारात् तदनङ्गीकारे
भाष्यविरोध इति । ये तु परमाणुगतवायुत्वतेजस्त्वादेः पक्षतावच्छेदकत्वमाहुस्ते तत्रायुक्तं
गौरवं न विदुः । ननु नैवं व्याप्तिः संभवति रूपादिमत्त्वाभाववति वायौ भागवतोक्तरीत्याऽनित्यत्व-
1222