सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1331, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1331

अनित्यत्वमपरमाणुत्वं च । नच प्रमाणबलेन तदतिरिक्तेऽव्याप्तिरिति वाच्यम् ।
भाष्यप्रकाशः।
सूत्रे रूपादीत्युक्तम् । तेन वायुपरमाणुष्वपि न व्याप्त्यभावः । नन्ववयवावयविसंबन्ध-
स्तावदनुभूयते । स यदि निरवधिः स्यान्मेरुसर्षपयोः परिमाणभेदो न स्यात् । अनन्तावयवा-
रब्धत्वाविशेषात् । न च परिमाणप्रचयविशेषाधीनो विशेषः स्यादिति शङ्क्यम् । संख्या-
विशेषाभावे परिमाणप्रचययोरप्यशक्यवचनत्वात् । न चैवं विशेषाभ्युपगमेऽप्यवयवप्रलयस्य
शक्यवचनत्वात् सावधित्वं शङ्क्यम् । अन्त्यस्यावयवस्य निरवयवत्वाभ्युपगमे तदवयवविभाग-
स्याभावेन तज्जनकस्यान्यस्य सजातीयस्य वक्तुमशक्यतया अजन्यत्वे, अजन्यभावत्वेन चान-
श्वरत्वेन व्याप्त्या प्रलयस्यैवासंभवात् । अतो निरवयवमेव द्रव्यमवधिरिति मन्तव्यम् । एवं
प्रमाणबलेनावगते सति तदतिरिक्त एव रूपादिमत्त्वानित्यत्वयोर्व्याप्तिरिति न प्रतिसाधनदोष
इत्याशङ्कायामाहुः न चेत्यादि । स्यात् तदतिरिक्ते व्याप्तिर्यदि प्रमाणं बलवत् स्यात् । तदेव
रश्मिः।
सत्त्वेनान्वयव्यभिचारात् इति चेत्तत्राहुः रूपादीति रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्व-
संयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नगुरुत्वद्रवत्वस्नेहसंस्कारधर्माधर्मशब्दाश्चेति न्यायोक्ता
प्रणाळ्याश्रिता आदिपदात् । न तु 'शब्दस्पर्शो रसो गन्धो रूपं चेत्यर्थजातयः' इति भगद्वाक्यो-
क्तप्रणाली । इत्युक्तमिति । तथा च स्पर्शस्य वायौ सत्त्वेन रूपादिमत्त्वादित्यनित्यत्वं वायाविति
नान्वयव्यभिचार इति भावः । तेनेति सूत्रे रूपादीति शब्दे स्पर्शस्यापि संग्रहेण । अधिकरणस्या-
यमर्थ इत्यादिना मुक्तावप्युक्तं परमाणुसाधनमुक्तम् । इदानीं दिनकरो महादेवनामा
यदाह तत्परमाणुसाधनमाशङ्कन्ते नन्ववयवेति । अनन्तेति । तथा च परमाण्वभावे एवं परमाणु-
कारणत्वे त्वीश्वरातिरिक्तकारणे इच्छायास्तावत्परमाणुसंयोगविषयिणीत्वेन नोक्तदोष इति भावः ।
न च परिमाणेति मेर्ववयवपरिमाणं महत् । सर्षपपरिमाणं ह्रस्वम् । मेर्ववयवसंयोगो-
ऽशिथिलः प्रचयः । सर्षपावयवसंयोगः प्रचयः शिथिलः, अन्तःस्नेहदर्शनात् । विशेष इति अवय-
विपरिमाणविशेषः । मेरुसर्षपयोः परिमाणमवयवसंख्याजन्यं न तु प्रचयपरिमाणजन्यमिति मत्वा
तावदाह संख्येति । विशेषेति नित्यं परमाणुमवधिं मत्वा मेरुसर्षपयोः परिमाणभेदरूपविशेषा-
भ्युपगमे । प्रलयस्य नाशस्य । सावधत्वमिति अवयवावयविसंबन्धस्य नश्यदवयविपर्यन्तत्वम् ।
अवयवावयविसंबन्धस्य विनश्यदवयवोऽवधिरिति यावत् । एवं च न मेरुसर्षपयोः परिमाण-
भेदानुपपत्तिरिति भावः । निरवयवत्वेति । सावयवत्वे तु कार्यद्रव्यत्वापत्त्यावयवधाराप्रसङ्ग
इति भावः । तज्जनकस्येति अन्त्यावयवजनकस्य । व्याप्त्येति अनश्वरोऽजन्यत्वादित्य-
त्राकाशादौ व्याप्त्यान्त्यावयवनाशस्यैवेत्यर्थः । अत इति नित्यत्वात् । द्रव्यं परमाण्वाख्यम् ।
तच्चान्त्यम् । प्रमाणेति व्याप्तिज्ञानरूपप्रमाणवत्त्वेन । तदतिरिक्त इति परमाणुव्यतिरिक्ते ।
व्याप्तिरिति । परमाणुषु तु विपक्षत्वेनान्वयव्यभिचार इति भावः ( न प्रतीति अन्व-
यव्यभिचारात् ) न प्रतीति न प्रतिसाधनं प्रतिपक्षस्तत्संबन्धी सत्प्रतिपक्षे दोषः प्रतिपक्षरूपः ।
आशङ्कायामिति स्वयमनूदितायाम् प्रतिविधानमाहुरित्यर्थः । व्याप्तिरिति । अन्वयव्यभि-
चारमपि लक्षयति । भाष्यस्य दर्शनमनुमितिसद्भावादित्यर्थं मत्वाहुः न हीति । नित्यत्व-
व्याप्यसत्कारणवत्त्ववन्तः परमाणव इति ज्ञानं परामर्शः । तज्जन्यं ज्ञानं परमाणवः नित्यत्ववन्त इति
ज्ञानमनुमितिः । एवं च परमाणुषु नित्यत्वप्रत्यक्षानुमित्योरभावाद्रूपादिमत्त्वेनानित्यत्वेन व्याप्तेरन्वयव्य-

१. सावधित्वमितिप्रकाण्डः ।