सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1329, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1329

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९
नित्यमेव च भावात् ॥ १४ ॥
परमाणोः कारणान्तरस्य च नित्यमेव भावात् सदा कार्यं स्यात् ॥ १४ ॥
भाष्यप्रकाशः।
नित्यमेव च भावात् ॥ १४ ॥ तदभाव इतीहाप्यनुषज्यते । व्याकुर्वन्ति परमाणो-
रश्मिः।
स्त्वत्यन्ताभावः । उपदेशे सत्त्वात् तिरोभावे निविशते । इह भूतले घटो नास्तीत्यादिप्रतीतीनां
तिरोभावावगाहित्वात् । तिरोभाव एव नास्तीति व्यवहारदर्शनात् । घटाभावाभावस्य घटात्मकत्वेन
संकीर्णत्वेऽप्यभावमुखप्रतीत्या तिरोभावत्वाव्यभिचारात् । अभावपदेनापि भावप्रतियोगिकपृथक्त्व-
वानेव प्रतीयते । न भावः अभावः इति भावभिन्नः अभाव इति । स च निषेधपूर्वको
भाव एवान्यथा ह्यसत्त्वात् खपुष्पवन्निःस्वभावः स्यात्तथा सति न प्रतीयेतैव । अतः प्रतीत्यनुरो-
धाद्भावान्तरविलक्षणस्तिरोभावरूपब्रह्मशक्तिरूप एव । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः'
इति वाक्यात् । तिरोभावस्तु वर्तमानस्य वस्तुनो दर्शनाभावयोग्यतेति विद्वन्मण्डने स्फुटम् ।
ध्वंसप्रागभावौ तु समवाय्यवस्थाविशेषस्वरूपौ । तिरोभावसहकृता कार्यस्थितिप्रतिकूलावस्था ध्वंसः ।
तादृशी कार्याविर्भावानुकूलावस्था प्रागभावः । तदतिरिक्ते मानाभावात् । अवस्था च समवायिनो
ग्राह्या । तथा च प्रत्ययः कार्यस्थितिप्रतिकूलां कारणावस्थां पश्यत एवेह घटो ध्वस्त इति ।
कार्यजननानुकूलां कारणावस्थां पश्यत एवेह घटो भविष्यत्यत्र घटप्रागभाव इतीति । अन्योन्या-
भावस्तु प्रतियोगितावच्छेदकारोपापवादः । अयं घटः पटो नेत्यत्र पटत्वावच्छिन्नप्रतियोगिताक-
भेदवान्घट इति बोधमुत्पादयन् प्रतियोगितावच्छेदकपटत्वं घटे नास्तीत्येवमारोप्यापवदतीत्यत्य-
न्ताभाव एव । लक्षणान्तरे तु स्पष्ट एवात्यन्ताभावः । 'प्रतियोगितावच्छेदकतानियामकसंबन्धावच्छिन्न-
प्रतियोगितावच्छेदकात्यन्ताभावः सः' इति लक्षणम् । घटे समवायेन पटत्वं नास्तीति प्रत्ययः ।
तादात्म्यसंबन्धावच्छिन्नप्रतियोगिताकत्वमन्योन्याभावत्वं यदि तदा त्वतिरिक्तः । परं तु घटस्तादा-
त्म्येन पटो नेत्यत्र पटतादात्म्यप्रतियोगिकाभावे पर्यवसानात्तादात्म्यरूपप्रतियोगितिरोभावसंकीर्ण-
घटरूपानुयोगिरूपविषयत्वात्स्वरूप एव निविशते । न च भवेदेतदेवं यदि पटतादात्म्यं घटे नेति
बोधः स्यात् । बोधस्तु पटप्रतियोगिकाभाववान्घट इत्यापद्यते तदा पृथक्त्वमन्योन्याभावः ।
एतच्चोपपादितं प्रस्थानरत्नाकरे प्रत्यक्षखण्डेऽभाववादे निपुणतरमुपपादितम् । अन्योन्याभावस्य
भावत्वं संसर्गाभावत्वं चेति वदन् शिरोमणिरप्येतदनुमेने । केचित्तु प्रागभावमपि न मन्यन्त
इत्यलम् । अपि च तमः पदार्थान्तरं न तेजःसामान्याभावः । 'खतेजसापिबत्तीव्रामात्मप्रख्यापनं
तमः' इति वध्यघातकभावात् । विशेषस्त्वन्धकारवादे द्रष्टव्यः । प्रतिबिम्बोऽपि पदार्थान्तरः
प्रतिबिम्बवादे स्फुटः । तन्न्यायेन गन्धर्वनगरादेरपि मायिकत्वस्य तुल्यत्वात् । 'अपरेयमितस्त्व-
न्याम्' 'जीवभूताम्' इति गीतायाम् । जीवस्य व्यापकत्वं तु न भवति । जीवव्यापकत्वखण्डन-
वादे खण्डनात् । किंच गन्धोऽधिकदेशवृत्तिः, चम्पकादौ तथादर्शनात् । विशेषस्तु 'गुणाद्वा' इति
सूत्रे वक्ष्यते । पृथिव्यादिपञ्चमहाभूतैकादशेन्द्रियाणां च लक्षणानि प्रमेयप्रकरणे प्रस्थानरत्नाकरे
सन्ति । इन्द्रियाणां त्वन्तर्भावोऽहंकारे । 'वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् । तन्मात्रेन्द्रिय-
मनसां कारणं चिदचिन्मयः' इत्येकादशे भगवद्वाक्यात् । एतच्चतुर्थपादे विशिष्य वक्तव्यम् ।
द्विगिति तर्काप्रतिष्ठानादिगिति ॥ १३ ॥
नित्यमेव च भावात् ॥ १४ ॥ कारणान्तरस्य चेति भाष्यं विवृण्वन्ति स्म
७ ब्र० सू० २०
1221