सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1318, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1318

३८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० २ अ० ३ सू० १२
संयोगजनकं कर्मापि न संभवति । कारणान्तराभावात् । प्रयत्नवदात्मसंयोगे
भाष्यप्रकाशः ।
यथा द्यणुकजन्ये कार्ये महत्त्वानानारम्भेण द्यणुकतुल्यतया द्यणुकजन्यद्यणुकान्तरवैधर्म्यमेवं
परमाणुजन्यद्यणुके परिमाणान्तराभावेन भोगानुपयोगात् तद्वैधर्म्यमिति न तयोः संयोगः
सुवचः । किंच । कर्मजोवयवजश्चेति द्विविधः संयोगो भवतां मते । तृतीयश्च संयोगजः
संयोगः । तत्र द्वितीयस्तु निरवयवत्वाद् भवतामपि नात्र संमतः । अतः प्रथमो विचार-
णीयः । तत्र प्रथमं वायुपरमाणुषु कर्मोत्पद्यते ततस्ते संयुज्यन्ते । तेभ्यः संयुक्तेभ्यो द्यणुका-
दिक्रमेण समुत्पन्नो महान् वायुर्नभसि दोधूयमानस्तिष्ठति । तत एवमापः पृथिवी तेजश्च
क्रमेण जाता नभसि तिष्ठन्ति । एवं समुत्पन्नेषु चतुर्षु भूतेषु महेश्वराभिध्यानमात्रात् तैजसेभ्योऽ-
णुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यत इत्यादिहिं काणभुजानां प्रक्रिया । तत्र
संयोगजनकं कर्मापि न संभवति । कारणान्तराभावात् । न हि तत्र स्वभावः
कारणम्, महेश्वरसिसृक्षा वा । तस्य तस्याश्च नित्यत्वेन सर्वदा तत्प्रसङ्गादिदूषणग्रासात् । अतस्तद-
भावाया नित्यमेव कारणमभ्युपगन्तव्यम् । तद्यदि प्रयत्नवदात्मसंयोगस्तदा सृष्ट्यारम्भे निः-
शरीरस्यात्मनो मनःसंयोगस्याशक्यवचनत्वेन प्रयत्नस्यैवासंभवः । शरीरसंबन्धोत्तरमेव तदुत्पत्ति-
रश्मिः।
विवृण्वन्ति स्म अथाग्रेति । तद्वेवेति परमाणुद्वयमेवाणु स्यात् । भोगेति विलक्षणभो-
गानुपयोगात् । सुवच इति । नापि परमाणुतो द्विगुणगुरुत्वं भोग्यम् । कपालद्वयारब्धे घटे कपाल-
द्वयगुरुत्वतोधिकगुरुत्वस्योत्तोलनेऽननुभवात् । कारणमात्रगुरुत्वं गुरुत्वान्तरं सूक्ष्मतमं करोतीति भोगे
भेदाभावात् । गुरुत्वं परमाणुमात्रवृत्तिीति केचित् । परमाणुषु तन्नेत्यन्ये । स्पष्टं चेदं स्पर्शनिरूपणे
प्रस्थानरत्नाकरे । तथा चोभयथापि संयोगस्य सार्वदेशिकत्वे एकदेशिकत्वे वापि परमाणुसंघट्टनं न
युज्यते प्रदेशाभावादित्यादिहेतुपूरणेन व्याकृतम् । न कर्मेति भाष्यव्याख्यानं संयोगजमित्यादि भाष्यं
व्याकुर्वन्ति स्म किंचेति । श्येनशैलादिसंयोगः कर्मजः, मेषयोः सन्निपातोऽवयवजः । संयोगज
इति । उक्ताभिघातसंयोगेतरप्रचयाख्यः । 'कपालतरुसंयोगात्संयोगस्तरु कुम्भयोः । संयोगजोयं
संयोगः' इति । कर्मोत्पद्यत इति भगवदिच्छयैवेव । आप इति आपो नभोनिष्ठाः । यद्वा व्यापक-
त्वान्नभसः पृथ्व्यधःस्था अपि नभःस्थाः । पृथिव्यपि नभःस्था व्यापकत्वादेव । तेजस्तु नभःस्थं प्रसि-
द्धम् । अभिध्येति सिसृक्षा पुराणात् । इत्यादीति तस्मिंश्चतुर्वदनं सकमलं सर्वलोकपितामहं ब्रह्माणं
सप्तभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते स च महेश्वरेण. विनियुक्तो ब्रह्मा निरतिशयज्ञानवैराग्यै-
श्वर्यसंपन्नः सर्वप्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान्प्रजापतीन्मानसान्मन्व-
न्देवर्षिपितृगणान्प्रजापतीन्सृजति । मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि सृष्ट्वाऽऽ-
श्रयानुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयतीत्यादिपदार्थः । प्रक्रियेति तद्भाषीयप्रक्रिया । कारणेत्यादि
भाष्यं विवरीतुमवतारयन्ति स्म तत्रेति कर्मजसंयोगे । कारणेति श्येने तु कर्मकारणं प्रयत्नः । तत्र
स्वभाव इति परमाणुषु परिणामहेतुः । तत्प्रसङ्गादिति द्यणुकप्रसङ्गः त्रसरेणौ कार्यत्वाभानप्रसङ्गः
द्यणुकनित्यत्वप्रसङ्गश्च । इतः परं प्रयत्नवदित्यादिभाष्यं व्याचक्षुः अत इति । प्रयत्नवदिति
प्रयत्नवानात्मा ईश्वरः तस्य परमाणुभिः संयोगः, उभयोर्द्रव्यत्वात् । असंभव इति जानाती-
1210