अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1317, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७
मण्डलं च । उपहासार्थं तस्य मतस्यानुवादः ॥ ११ ॥
किंमतो यद्येवमत आह ।
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥
उभयथापि न । कुतः । न कर्म । नकारो देहलीप्रदीपन्यायेनोभयत्र
संबध्यते । अतो द्व्यणुकाभावः । उभयथापि न परमाणुसंघट्टनम् । प्रदेशा-
भावात् । कल्पना मनोरथमात्रम् । असंयुक्तांशाभावात् तदेव तत् स्यात् ।
भाष्यप्रकाशः ।
किं प्रयोजनमत आहुः, उपहासार्थमिति । य एवं लोकतत्त्वेष्वप्यकुशलास्ते कथमात्मतत्त्वं
ज्ञास्यन्तीत्युपहासार्थम् । वक्ष्यमाणरीत्या वा ॥ ११ ॥
उभयथापि न कर्मातस्तदभावः ॥ १२ ॥ एवं परिमाणदूषणमुखेन दूषयित्वा
तदसमवायिकारणसंयोगदूषणमुखेनापि दूषयतीत्याहुः उभयथेत्यादि । गृहीत्वा पुनर्व्या-
कुर्व