अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1319, कुल 2600 में से
संदर्भ में पढ़ेंअदृष्टवदात्मसंयोगे चाभ्युपगम्यमाने निरवयवत्वात् तदेव तत् स्यात् । विशेषा-
भाष्यप्रकाशः ।
दर्शनात् । अन्यथात्ममनसोर्नित्यत्वेन संयोगनित्यतया प्रयत्नस्यापि सार्वदिक्त्वप्रसङ्गात् ।
अथादृष्टवदात्मसंयोगस्तदा तस्य सार्वदिकत्वात् कर्मणोपि तथात्वप्रसङ्गः । लोके तथैव
दर्शनात् । किंचैवमभ्युपगम्यमानेपि कारणान्तरे परमाणोर्निरवयवत्वादसंयुक्तांशस्याभावेन
तदपि कार्यं परमाणु स्यान्न द्वयणुकम्, विशेषाभावात् । न च प्रविभज्यमानत्वमेव विशेष
इति युक्तम् । लोके मुद्गराभिघातादिना घटभङ्गे कपालानां तेषामपि तथाभङ्गे कपालिकानां
दर्शनेन विभागस्य प्रतिलोमक्रमेणैवोत्पत्तिनिश्चयात् प्रलयेपि शरीराणां प्रागेव नाशेन तदानीं
परमाणुविभागजनककर्मजनकस्य जीवप्रयत्नाभिघातादेर्वक्तुमशक्यतया, अदृष्टपक्षेपि तस्य
भोगनाश्यत्वेन द्वयणुकपर्यन्तभोगोत्तरं तन्ना