सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1262, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1262

तन्न करोतीति तदकरणादिदोषप्रसक्तिः । 'तत् सृष्ट्वा तदेवानुप्राविशत्' 'अनेन
जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि' इति तस्यैव जीवव्यपदेशात् ॥ २१ ॥
अधिकं तु भेदनिर्देशात् ॥ २२ ॥
तुशब्दः पक्षं व्यावर्तयति । यदि ब्रह्म तावन्मात्रं भवेत् तदायं दोषः । तत्
पुनर्जिवाज्जगतश्चाधिकम् । कुतः । भेदनिर्देशात् । द्रष्टव्यादिवाक्येषु कर्मकर्तृ-
भाष्यप्रकाशः
सूत्रम् । तत्र पूर्वाधिकरणे सर्वस्य जगतो ब्रह्मानन्यत्वे जीवस्यापि तदनन्यत्वं जगद्विलक्षणत्वं च
सिद्धम् । तत्र किंचिदाशङ्कत इत्याहुः ब्रह्मण इत्यादि । इतरव्यपदेशात् । तत् सृष्ट्वेति
श्रुतौ सृष्टावनुप्रवेशः श्राव्यते । स च, अनेनेति श्रुत्या जीवे निश्चीयते । तस्यात्मत्वेन कार्य-
विलक्षणतया ब्रह्मत्वं च बोध्यते । अत इतरस्यात्मत्वेन व्यपदेशात् सिद्धे तस्य शुद्धब्रह्मत्वे
तद्धितं कर्तव्यम् । सर्वोऽपि स्वहितं करोतीति । तच्च सर्वानर्थदुःखनिकरहेतुभूतायां सृष्टौ
तस्यानुप्रवेशनान्न करोतीति हिताकरणस्याहितकरणस्य च प्रसक्तिः । सा च प्रत्यक्षसिद्धा न
निह्नोतुं शक्यते । अतः सर्वज्ञस्य सर्वशक्तेः स्वाहितादिकरणादसङ्गत्या ब्रह्मणः कारणतेति जीवानां
नित्यभिन्नत्वमेवाङ्गीकार्यं न तु ब्रह्मत्वम् । अथ ब्रह्मत्वमङ्गीकार्यं तदोक्तदोषप्रसक्तिः । तस्मा-
ज्जगद्व्यापित्वाधिकरणे यद् ब्रह्मणो जडजीवकर्तृत्वमङ्गीकृतं तदसङ्गतमित्यर्थः ॥ २१ ॥
अधिकं तु भेदनिर्देशात् ॥ २२ ॥ परिहरतीत्याहुः तुशब्द इत्यादि । 'स्वयमेवा-
त्मानात्मानं वेत्सि' इत्यादावेकस्यापि कर्मकर्तृव्यपदेशदर्शनाद्धेतोः साधारणत्वमित्यरुच्या व्याख्या-
नन्तरमाहुः विज्ञानेत्यादि । तथा च यथैक्यं बोध्यते तथा ज्ञेयत्वेनानन्दरूपत्वेन च भेदोऽपि
बोध्यतेऽतोऽयं भेदो ब्रह्मण आधिक्ये पर्यवस्यति । आधिक्यं चांशित्वाद् भूमविद्यायां निरवध्या-
रश्मिः ।
स्तावत् तत्सृष्ट्वा तदेवेत्यादिश्रुत्योर्जीवेनात्मनेति सामानाधिकरण्याज्जीव एवात्मा तेनेत्यर्थं वात्मनांशेन
जीवेनेति संशयः । उभयथार्थः संशयबीजं तस्यैव जीवव्यपदेशाद्धिताकरणादिनात्मयागपरिच्छेदः ।
एतदादिदोषप्रसक्तिः इति पूर्वपक्षादित्यर्थः । तदाहुः पूर्वपक्षेति । हिते नञन्वयं मत्वाहुः अहितेति ।
तथा च छन्दोवत्सूत्राणि भवन्तीति हिता इति नञ्विशिष्टाः । तस्य हितः हितस्य करणं तस्येत्यप्यर्थः ।
प्रयोजनं तु 'त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय' इत्यादिभिः सृष्टिरेषोत्तरोत्तरेति । अयं माध्व-
भाष्येऽपि 'जीवकर्तृत्वपक्षे हिताकरणमहितकरणं च न स्यात्' इतीतरव्यपदेशसूत्रस्य ॥ २१ ॥
अधिकं तु भेदनिर्देशात् ॥ २२ ॥ इत्यादीति । आदिपदेन 'आत्मा वा अरे द्रष्टव्यः'
इत्यादिः सहत्वात्स्मृतिनिर्देशः । हेतोरिति ब्रह्म अधिकमतिरिच्यते कर्मकर्तृव्यपदेशात् । पटं देवदत्तः
करोतीत्यत्र यथा । अत्र कर्मकर्तृव्यपदेशो ब्रह्मवत्, साध्याभाववति जीवेपीति साधारण्यम् । ऐक्य-
मिति कर्मकर्तोरैक्यं स्मृत्या बोध्यते । ज्ञेयत्वेनेति 'ब्रह्मविदाप्नोति परम्' इत्यत्र 'यो वेद निहितं गुहाया-
म्'इति वेदनविषयत्वेनाक्षरमुक्तम् । तथा च योग्यार्थकप्रत्ययान्ते पदे विषयतद्योग्यं ज्ञेयम् । आनन्द-
रूपत्वेन परः । अयमिति कर्मकर्तृभेदः । आधिक्य इति आनन्दत्वेनैक्येपि गणितानन्दे पर्यवसति ।
कथमित्यत आहुः आधिक्यं चेति पूर्णानन्दत्वे सतीत्यर्थः । नहींत्यादि भाष्यं विवृण्वन्ति स्म