सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1263, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1263

व्यपदेशाद् विज्ञानानन्दव्यपदेशाद्वा । न हि संपूर्णांशस्य हितं नियमेन
करोति । सर्वेन्द्रियव्यापाराभावप्रसङ्गात् । स्वलीलयैकं तु करोत्येव ॥ २२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
पार्थिवत्वाविशेषेऽपि हीरमाणिक्यपाषाणानां पलाशचम्पकचन्दनानामु-
च्चनीचत्वमेवं जीवस्यांशत्वाविशेषेऽपि ब्रह्मादिस्थावरान्तानामुच्चनीचत्वम् । कार्य-
वैलक्षण्यं तदनुरोधश्च दर्शितः ॥ २३ ॥
इति द्वितीयाध्याये प्रथमपादे दशममितरव्यपदेशाधिकरणम् ॥ १० ॥
भाष्यप्रकाशः।
नन्वेवं ज्ञेयत्वस्य पर्यवसानाच्च पूर्णत्वे । पूर्णांशस्य हितं न नियमेन. करोति । स्वदेहेऽपि
नखनिकृन्तनकेशप्रसाधनादेर्दर्शनात् । अन्यथा सर्वेन्द्रियव्यापाराभावप्रसङ्गात् । किं तु
स्वलीलया हिताहितयोरेकं तु करोत्येवेति लोके दृश्यते । तथाचांशांशिभावेनोक्तश्रुतिविरोधा-
भावादात्मत्वेऽपि हिताकरणादेरदोषत्वादसङ्गतयेमाशङ्केत्यर्थः ॥ २२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥ दृष्टान्तं व्याकुर्वन्ति पार्थिवेत्यादि । आदि-
पदसार्थः पलाशेत्यादि । त्रयाणां दृष्टान्तानामुक्तिः 'त्रयाः प्राजापत्याः' 'उत्पन्नास्त्रिविधा
जीवाः' इति श्रुतिस्मृत्युक्तत्रैविध्यस्मारणाय । तथा चैकजातीयेष्वपि स्वभावभेदेनैवमुच्चनीच-
भावस्य लोके दृष्टत्वाज्जीवेष्वपि स्वभावभेदस्य विद्यमानतया तत एव समाधिः संभवतीति
लोकन्यायेन प्रत्यवस्थाय यो दोष उद्भाव्यते तस्य तन्न्यायेनैवानुपपत्तिरित्यर्थः । ननु पूर्व-
सूत्रेणैव सिद्धे समाधावस्य सूत्रस्य किं प्रयोजनमत आहुः कार्येत्यादि । ब्रह्मणश्चेतनाचेतन-
रश्मिः।
पूर्णांशेति । नन्वेति यत्किंचित्क्लेशजनकत्वेनाहितस्य । आनन्दस्य क्लेशाभावमाशङ्क्योक्तम् । अन्यथे-
त्याद्यभाववति सुखं केन हेतुना दुःखं भवेत् । वाराहे चातुर्मास्यमाहात्म्ये सुखमीर्ष्यासूयादिवशाद्दुःखं
भवतीत्युक्तत्वात् । सर्वेन्द्रियेत्यादिभाष्यं विवृण्वन्ति अन्यथेति । स्वहिताकरणे यत्किंचित्क्लेश-
संभवात्तथेत्यर्थः । तथा च 'सर्वेन्द्रियगुणाभासम्' इति वाक्यं विरुध्येत । स्वलीलयैत्यादि विवृण्वन्ति
किं त्विति । एकं त्विति । यत्र यथा लीला तत्र तद्देहेनैकं हितं वाऽहितं वा करोतीत्यर्थः । लोक
इति । 'लोकवत्तु लीलाकैवल्यम्' इति सूत्रात्तथात्रापीति बोध्यम् । इयमिति पूर्वसूत्रोक्ता । शंकर-
भास्कराचार्यास्त्वाधिक्यं जगत्स्रष्टृत्वमाहुः । रामानुजास्तु जीवाधिकमर्थान्तरभूतं ब्रह्मेत्याहुः ।
माध्वास्तु ब्रह्माधिकमधिकशक्तीत्याहुः । सर्वथापि पूर्णानन्दत्वे पर्यवसानम् । आनन्दार्थं भजनात् ।
शंकराचार्यमतं तु विद्वन्मण्डने 'अभेदस्यानुपाधित्वात्' इति कारिकाव्याख्याने निरस्तम् ॥ २२ ॥
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥ श्रुतिस्मृतीति श्रुतिर्बृहदारण्यके ।
स्मृतिस्तु भाष्यपाठक्रमेणाधिभौतिकादिभावः । लोकन्यायेनेति हिताहितकरणन्यायेन । उक्त-
भाष्यप्रकाशात् । तन्न्यायेनेति हीरकेत्याद्युक्तसौत्रलोकन्यायेन । तेन तदनुपपत्तिरिति सौत्रपदं, दोषा-
नुपपत्तिवाचकमित्युक्तम् । तेषां दोषाणामनुपपत्तिस्तदनुपपत्तिः । शंकरभास्कररामानुजाचार्या
एवमेव व्याकुर्वन्ति स्वपक्षं तु समर्थयन्ति । सूत्राणां सारवद्विश्वतोमुखत्वादुपपन्नम् । क्रीडावैचित्र्यात् ।
माध्वास्तु अधिकसूत्रे 'न च ब्रह्मणः श्रमचिन्तादिदोषप्रसक्तिः । अधिकशक्तिकत्वात्' । अश्मसूत्रे
१२ ब्र० सू० २०
1157