अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1261, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम्। ८७
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ (२-१-१०)
ब्रह्मणो जगत्कारणत्वे इतरस्य जीवस्यापि ब्रह्मत्वात् तद्धितं कर्तव्यम्।
भाष्यप्रकाशः।
युक्तेश्च विरोधः परिहृतः। युक्त्या कार्यस्य कारणाद् भेदश्च निराकृतः ॥ २० ॥
इति नवममसद्व्यपदेशाधिकरणम् ॥ ९ ॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ चेतनकारणत्वे प्राप्तदोष-
परिहारायाधिकरणान्तरमारभते । संशयस्तद्बीजं च पूर्वपक्षादेव स्फुटति । इदं पूर्वपक्ष-
रश्मिः।
आहुरनियमन,इति । आदिपदेन प्रसारणगमने । उत्क्षेपणापक्षेपणे तु नोक्ते प्राणापानोत्क्षेपणाप-
क्षेपणयोरुपासनाविषयत्वेनालौकिकत्वात् । नैतावतेति अर्थक्रियाकारित्वेन भेदेऽपि न प्राणत्वेन भेदो
न वा प्राणादीनां पूर्वमसत्त्वमित्यर्थः । तथेति । तथोत्पत्तेः पूर्वं जगतोऽर्थक्रियाकारित्वराहित्येऽपि न
सत्त्वरूपत्वाभाव इत्यर्थः । प्रकाशे पदार्थं संगमयन्ति एवमिति । श्रुतेः असद्वेत्यस्याः । युक्तेः
समवेतमेव कार्यं सदुत्पद्यत इत्यस्याः । विरोधः सदसद्विरोधः । असदर्थस्याव्याकृतस्य सत्त्वात्परि-
हृतः । ननु कथं व्याकृताभावस्याव्याकृतस्य सत्त्वं सत्ताया द्रव्यगुणकर्मवृत्तत्वादिति चेन्न । नाम-
रूपैर्व्याकृतत्वाभावस्य ब्रह्मधर्मत्वेन सत्तासामानाधिकरण्येन प्रकारेण सत्त्वात् । 'एकं रूपं रसात्पृथक्'
इतिवत् । तेन पूर्वाधिकरणेन निर्वाहकसंगतिरिति सूचितम् । प्रसंगसंगतिः स्वमतप्रतिपन्ना स्पष्टैव ।
युक्त्येति उक्तयैव । शंकरभास्कराचार्यमतेऽर्थः समानकः ।
रामानुजाचार्यास्तु यथा तन्तव एव व्यतिषङ्गविशेषभाजः पट इति नामरूपकार्यान्तरादिकं
भजन्ते तद्वद्ब्रह्मापि । द्वितीयसूत्रे । यथा वायुरेवैक एव शरीरे वृत्तिविशेषं भजमानः प्राणापानादि-
रूपकार्यान्तराणि भजते तद्वद्ब्रह्मैकमेव विचित्रस्थिरचररूपं जगद्भवतीति परमकारणात्परस्माद्ब्रह्मणो-
नन्यत्वं जगतः सिद्धमित्याहुः ।
माध्वास्तु-साधनान्तरेण पटादिसृष्टिर्दृष्टा । द्वितीयसूत्रे 'तच्च साधनजातं तेनानुप्रविष्टमेव यथा
शरीरेन्द्रियादिः' । 'प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः । क्षोभयामास भगवान्सृष्ट्यर्थे जगतः प्रभुः'
इति कौर्मे इत्याहुः । तत्त्वमतानुसारेण युक्तमेव । सूत्राणां सारवद्विश्वतोमुखत्वात् । अत्र समन्वयो
विषयः । स च 'असद्वा इदमग्र आसीत्' इत्यत्र प्रागुत्पत्तेः कार्यस्यासत्त्वमङ्गीकृत्योत रूपान्तरमङ्गी-
कृत्यॆति संशयः । श्रुत्याऽसत्त्वं बोध्यते तेन रूपेण न रूपान्तरेणेति पूर्वपक्षेऽभिधीयते । अव्याकृतत्वेन
धर्मान्तरेण कार्यस्यासत्त्वम् । 'असद्वा' इति श्रुतेः 'तदात्मानम्' इति श्रुतिविरोधात् धर्मान्तर-
बोधकासञ्छन्दघटितत्वादिति सिद्धान्तः ॥ २० ॥
इति नवममसद्व्यपदेशाधिकरणम् ॥ ९ ॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥ भक्तिमार्गे भोगैरात्मानमात्म-
नीत्येकोनविंशाध्याये परमं भक्तिसाधनमात्मयागः स्मर्यते । 'मय्यर्थेऽर्थपरित्यागो भोगस्य च सुखस्य च'
इत्यपि । तत्रैव तन्नात्मयागे भोगसुखसाधनत्यागो गौण इति शङ्कापाकरणाय सुखभोगत्यागप्राधान्यमपि
प्रतिपादितं भविष्यति । चेतनेति सच्चिदानन्दसृष्टौ चेतनकारणत्वे । पूर्वपक्षादिति । सूत्रे संशय-
1155