सामग्री पर जाएँ
सर्वकोश
ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

Rigvediya Aitareya Brahmana with Hindi Translation

महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)

DevanagariSanskritpublished592 पृष्ठ

पृष्ठ 321, कुल 592 में से

संदर्भ में पढ़ें
पृष्ठ 321

दूसरा अध्याय ] ३०७
इमे वां सोमा अप्सवा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो
शुक्रा अयंसत । एते वामभ्यसृक्षत तिरः पवित्रमाशवः । युवायवोऽति
रोमाशयण्व्या सोमासो अत्यण्व्या ॥ ( ऋ० १।१३५।४-६ )
सुषुमा यातमद्रिभिर्गों श्रीता मत्सरा इमें सोमासो मत्सरा इमे ।
आ राजाना दिविस्पृशाऽस्मत्रा गन्तमुपनः । इमे वां मित्रावरुणा गवाशिरः
सोमाः शुक्रा गवाशिरः ॥
इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । उत
वामुषसो बुध्रि साकं सूर्यस्य रश्मिभिः । सुतो मित्राय वरुणाय पीतये
चारुऋताय पीतये ॥
तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये । अयं वां मित्रावरुणा नृभिः
सुतः सोम आ पीतये सुतः ॥ ( ऋ० १।१३७।१-३ )
अचेति दस्रा व्युनाकमूष्वथो युञ्जते वां रथयुजो दिविष्टुष्वध्व-
स्मानो दिविष्टुषु । अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । पथेव
यन्तावनुशास्ता रजोऽङ्कसा शासता रजः ॥
शचीभिनंः शचीवसू दिवा नक्तं दशस्यतम् । मा वां रातिरूप
दसत् कदाचनास्मद्रातिः कदाचन ॥
वृषन्निन्द्र वृषपाणास इन्दव, इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं
सुतास उद्भिदः । ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
गीर्भिर्गिर्वाहः स्तवमान आ गहि सुमृडीको न आ गहि ॥
( ऋ० २।१३६।४-६ )
अवर्मह इन्द्र दादृहि श्रुधी नः सुशोच हि द्यौः क्षा न भीषाँ
अद्रिवो घृणान भीषाँ अद्रिवः । शुष्मिन्तमो हि शुष्मिभिर्वधैरुरु
भिरीयसे । अपूरुषघ्नो अप्रतीत शूर सत्वभिज्ञिसत् : शूर सत्वभिः ॥
वनोति हि सुन्वन्त्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो
देवानामव द्विषः । सुन्वान इत्सिषा सति सहस्रा वाज्यवृतः । सुन्वाना-
येन्द्रो ददात्याभुवं रयिं ददात्यभुवम् ॥ ( ऋ० १।१३३।६।७ )