ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)
Rigvediya Aitareya Brahmana with Hindi Translation
महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)
पृष्ठ 313, कुल 592 में से
संदर्भ में पढ़ेंदूसरा अध्याय ] २९९
युवं चित्रं ददथुर्भोजनं नरा चोदेथां सूनृतावते । अर्वाग्रथं समनसा
नियच्छतं पिवतं सोम्यं मधु ॥
आ यातमुप भूषतं मध्वः पिवतमश्विना । दुग्धं पयो वृषणा जेन्या-
वसू मा नो मर्धिष्टमा गतम् ॥ ( ऋ० ७।७४।१-३ )
पिवा सुतस्य रसिनो मत्सवा न इन्द्र गोमतः । आपिनों बोधि सध-
माद्यो वृधेऽस्माँ अवन्तु ते धियः ।
भूयाम ते सुमतौ वाजिनो वयं मा नः स्तरभिमातये । अस्माञ्
चित्राभिरवतादभीष्टिभिरा नः सुम्नेषु यामय ॥
इमां उ त्वा पुरुवसो गिरोवर्धन्तु या मम । पावकवर्णाः शुचयो
विपश्चितोऽभि स्तोमैरनूषत ॥ (ऋ० ८।३।१-३)
देवन्देवं वोऽवसे देवन्देवमभिष्टये । देवन्देवं हुवेम वाजसातये .
गृणन्तो देव्या धिया ॥
देवासो हिष्मा मनवे समन्यवो विश्वे साकं सरातयः । ते नो अद्य
ते अपरं तुचे तु नो भवन्तु वीरवोविदः ॥
प्रवः शंसाम्यद्रुहः संस्थ· उपस्तुतीनाम् । न तं धूर्तिर्वरुण मित्र मर्त्यं
यो वो धामभ्योऽविधत् ॥ (ऋ० ८।२७।१३-१५)
बृहद्गायिषे वचोऽसुर्यान्नदीनाम् । सरस्वतीमिन् महया सुवृक्तिभिः
स्तौमैर्वसिष्ठ रोदसी ॥
उभे यत् ते महिना शुभ्रे अन्धसी अधिक्षियन्ति पूरवः । सा नो
चोधयित्री मरुत् सखा चोद राधो मघोनाम् ॥
भद्रमिद्भद्रा कृणवत् सरस्वत्यकवारी चेतति वाजिनीवती ।
गृणाना जमदग्निवत् स्तुवाना च वसिष्ठवत् ॥ (ऋ० ७।९६।१-३)
मारुतीय शस्त्र का प्रतिपद् यह हैः-
यत् पाञ्चजन्यया विशेन्द्र घोषा असृक्षत । अस्तृणाद्बर्हणा विपोऽ-
र्यो मानस्य स क्षयः ॥ (ऋ० ८.६३।७)
इसमें 'पांचजन्य' शब्द आया है । यह पाँचवें दिन का
रूप है ।