अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 992, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] षष्ठं कोशस्थानम् ६६६
मधिकान् प्रक्षिप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति । एवं यावच्चतुर्थध्यान-
संगृहीताः ।
आकाशनन्त्यायतनादिषु यथाक्रमं चत्वारिंशत्, द्वात्रिंशत्, चतुर्विंशतिश्च
भवन्ति ।
येषां त्विति विस्तरः । येषामाभिधार्मिकाणां मार्गान्वयज्ञानमपि न
केवलनिरोधान्वयज्ञानमेकैकभूमिप्रतिपक्षालम्बनमिष्टम्, तेषामष्टाविंशतिमधिकान्
प्रक्षिप्य अनागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्ति । कथं कृत्वा ? पूर्वकाः
कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बना मार्गान्वयज्ञानाकारैः सम्प्रयुक्ताश्चत्वारः ।
इदानीमेकीयमतेनैकैकभूमिप्रतिपक्षालम्बना अपि व्यवस्थाप्यन्ते— अनागम्य-
संगृहीताः प्रथमध्यानप्रतिपक्षालम्बना मार्गान्वयज्ञानाकारैः सम्प्रयुक्ताश्चत्वारः ।
एवं यावदाकिञ्चन्यायतनप्रतिपक्षालम्बना मार्गान्वयज्ञानाकारैः सम्प्रयुक्ता-
श्चत्वार इत्येवमष्टाविंशतिरधिका भवन्ति । एवमष्टाविंशतिमधिकान् प्रक्षिप्य
द्वापञ्चाशदशीतिर्भवन्ति । किं पुनः कारणं भवाग्रप्रतिपक्षालम्बना मार्गान्वय-
ज्ञानाकारैः सम्प्रयुक्ताश्चत्वारो न गण्यन्ते ? आह—न भवाग्रसंगृहीतोऽनास्रवो
मार्गो भवाग्रप्रतिपक्षोऽस्ति, प्रथमध्यानभूमिकस्त्वस्ति, यावदाकिञ्चन्या-
यतनभूमिक इति । तस्मात् तद्भूमिप्रतिपक्षालम्बना एवोक्ताः, न भवाग्रप्रतिपक्षा-
लम्बना इति ।
अपरे पुनश्शोचक्षते—येषां तु मार्गान्वयज्ञानमप्येकैकभूमिप्रतिपक्षालम्बन-
मिष्टम् । यथा निरोधान्वयज्ञानमिष्टमित्यभिप्रायः । तेषां भावाग्रिकदुःख-
समुदद्यान्वयज्ञानाकारैः सम्प्रयुक्ता अष्टौ । निरोधमार्ग्धर्मज्ञानाकारैः
सम्प्रयुक्ता अष्टौ । निरोधान्वयज्ञानाकारैः सम्प्रयुक्ताः प्रथमध्याननिरोधा-
लम्बनाश्चत्वारः । एवं यावद् भवाग्रनिरोधालम्बनाश्चत्वार इति द्वात्रिंशद्भवन्ति ।
एवं मार्गान्वयज्ञानाकारैरपि सम्प्रयुक्तास्तथैव द्वात्रिंशदिति कृत्वा । अष्टाविंशति-
मधिकान् प्रक्षिप्यानागम्यसंगृहीता अशीतिर्वज्रोपमा भवन्तीति । तेषां हि ये हि
कृत्स्नस्यान्वयज्ञानपक्षस्यालम्बनान्मार्गान्वयज्ञानाकारैः सम्प्रयुक्ताश्चत्वारस्ते न
सन्ति । भवाग्रप्रतिपक्षालम्बनास्तु तत्स्थाने भवन्तीत्यतो अशीतिर्वज्रोपमा
भवन्तीति ।
एवं यावच्चतुर्थध्यानसंगृहीताः । कथम् ? अष्टाविंशतिमधिकान् प्रक्षिप्य
ध्यानान्तरसंगृहीता अशीतिर्वज्रोपमा भवन्ति । यथा ध्यानान्तरसंगृहीताः,
एवं प्रथमद्वितीयतृतीयचतुर्थध्यानसंगृहीताः प्रतिध्यानमशीतिर्वज्रोपमा भवन्ति ।