सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 904, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 904

ऊर्ध्वमदुःखसुखवचनान्मध्यं दुःखमिति न युज्यते मृद्वादिष्वदुःखेषु सुखादिवेदना-
व्यवस्थानम् । उक्तं च भगवता - "रूपं चेन्महानामन् एकान्तदुःखमभविष्यन्न
सुखं न सुखानुगतम्" इत्येवमादि । तस्मादप्यस्ति किञ्चित् सुखम् । एवं तावन्न
सूत्रात् सुखवेदनाऽभावः सिध्यति ।
यत् पुनः सुखहेत्वव्यवस्थानादित्युक्तम्, हेत्वपरिज्ञानादिदमुच्यते । आश्रय-
विशेषापेक्षो हि विषयः सुखहेतुर्वा भवति, दुःखहेतुर्वा । न केवलो विषयः । स
यां कामवस्थां प्राप्य सुखहेतुर्भवति न तां पुनः प्राप्य कदाचिन्न भवतीति
व्यवस्थित एव सुखहेतुः । तद्यथा-स एवाग्निः पाक्यभूतविशेषापेक्षः स्वादुपाक-
हेतुर्भवति स एवास्वादुपाकहेतुः, न तु यां पाक्यभूतावस्थां प्राप्य स्वादुपाकहेतुस्तां
पुनः प्राप्य न हेतुरित्येष दृष्टान्तः । ध्यानेषु च कथं न व्यवस्थितः सुखहेतुः !
यत्तु पुनः दुःखप्रतिकारे सुखबुद्धिरित्युक्तम्, तत्र विहितः प्रतीकारः । यदा
किं कारणम् ? मृदुनि दुःखे सुखबुद्धिरिति तवाभिप्रायात् । ऊर्ध्वं चतुर्थे ध्याने
आरूप्येषु चादुःखासुखवचनात् सूत्रे । मध्यं दुःखं स्यात् । कस्मात् ? मध्ये दुःखे
अदुःखासुखमिति तवैवाभिप्रायात् । इत्यतो न युज्यते मृद्वादिष्वदुःखेषु सुखादि-
वेदनाव्यवस्थानम् । कथं हि नामाधोध्यानेषु मृदु दुःखम् ऊर्ध्वं पुनर्मध्यमिति
युज्यते । रूपं चेन्महानामन्निति । "रूपं चेन्महानामन्नेकान्तदुःखमभविष्यत् न
सुखं न सुखानुगतं न सौमनस्यं न सौमनस्यानुगतं न सुखवेदितं हेतुरपि
प्रज्ञायते रूपे संरागाय । यस्मात् तर्हि अस्ति रूपं सुखं सुखानुगतं पूर्ववदतो रूपे
हेतुः प्रज्ञायते यदुत संरागाय" इति ।
सुखहेत्वव्यवस्थानादिति । अत्र ब्रूमः-यदि सुखहेत्वव्यवस्थानान्न सुखमस्ति
वः, दुखमप्यसत्स्यात्; दुःखहेत्वव्यवस्थानात् । अपि च व्यवस्थित एव सुखहेतुः ।
कथम् ? इत्याह-आश्रयविशेषापेक्षो हेति विस्तरः । यदि हि केवल एव विषयो
हेतुः स्यात् स्यादेवाव्यवस्थितो हेतुः, न तु केवलो विषयो हेतुः । यस्मादाश्रय-
विशेषोऽपि हेतुरिति । स एवाग्निरिति । तद्यथा-स एवाग्निः पाक्यभूतविशेष
ईषत्पक्वावस्थे तण्डुलसमूहे स्वादुपाकहेतुर्भवति; अभिमतोदनपाकहेतुत्वात् । स
एवास्वादुपाकहेतुः । तद्दाहहेतुत्वादित्यर्थः । न तु यां पाक्यभूतावस्थां प्राप्य
स्वादुपाकहेतुरासीत् । तां पुनः प्राप्य पश्चान्न हेतुः स्वादुपाकस्य तस्यास्त्येत्यर्थः ।
एष दृष्टान्तः तस्य पूर्वोक्तस्य दार्ष्टान्तिकस्यार्थस्य । ध्यानेषु च कथं न व्यवस्थितः
सुखहेतुरिति । न हि तदेव ध्यानं प्रथमं यावत् तृतीये चिरकालमपि समापन्नानां
अभि० को० ३ : १