अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 903, कुल 1258 में से
संदर्भ में पढ़ेंरसस्प्रष्टव्यविशेषजं सुखं वेदयते, तदा कतमत दुःखं मृदुभूतम्, यत्रास्य सुखबुद्धि-
र्भवति ! अनुत्पन्नविनष्टे च तस्मिन् मृदुनि दुःखे सुतरां सुखबुद्धिः स्यात् ; अशेष-
दुःखापगमात् ।
एवं कामसुखसम्मुखीभावेऽपि वक्तव्यम् ।
कथं च नामैतद्¹ योक्ष्यते² यन्मृदुनि वेदिते सुव्यक्तस्तीव्रोऽनुभवो³ गृह्यते,
मध्ये पुनरव्यक्त इति । त्रिषु च ध्यानेषु सुखवचनात् मृदु दुःखं स्यात् ।
अधिमात्रादिसुखबुद्धिः स्यादधिमात्रमध्यममृदुः सुखबुद्धिः स्यादित्यर्थः । कथम् ?
मृदुनि दुःखे अधिमात्रसुखबुद्धिः । मध्ये मध्यसुखबुद्धिः । अधिमात्रे मृदुसुख-
बुद्धिरिति । न चाधिमात्रे दुःखे मृदुसुखबुद्धिर्युक्ता, किं कारणम् ? अधिमात्रमेव
तद् दुःखं न स्याद्, यदि तत्र मृदुसुखबुद्धिः स्यात् । मृदुनि च दुःखे
यद्यधिमात्रसुखबुद्धिः, कथं तस्य दुःखस्य मृदुत्वम् ! न हि तथा व्यक्तस्यानुभवस्य
मृदुत्वं युज्यत इति । अदुःखासुखानन्तरं सुखानुभवं पश्यन्नाह — यदा गन्धरस-
स्पृष्टव्यविशेषजमिति । मध्यं हि दुःखमदुःखासुखं भवताम्, न मृदुप्रकारम् ।
अतो वक्तव्यम् — तदा कतमद् दुःखं मृदुभूतं यत्रास्य सुखबुद्धिर्भवतीति ।
विषयबलादेव हि तत् सुखमुत्पद्यते । मृदुदुःखसमनन्तरप्रत्ययबलादधिमात्रदुःख-
समनन्तरप्रत्ययबलाद्वेति । किं च — यदि मृदुनि दुःखे सुखबुद्धिरिति मन्यसे,
अनुत्पन्नविनष्टे च तस्मिन् मृदुनि दुःख इति । अनुत्पन्ने विनष्टे च तस्मिन् मृदुनि
दुःखे । सुतरां सुखबुद्धिः स्यात्; अशेषदुःखापगमात् । यस्मादशेषं दुःखमपगतम्,
सशेषापगतेऽपि हि दुःखे सुखबुद्धिरिच्छसि, किमङ्गाशेषापगत इत्यभि-
प्रायः । —
एवं कामसुखसम्मुखीभावेऽपि वक्तव्यमिति । यथा गन्धरसस्प्रष्टव्यविशेषजं ,
सुखमुक्तम् , एवं कामसुखसम्मुखीभावेऽपि वक्तव्यम् । कथम् ? मृदुनि रागदुःखे
कामसुखबुद्धिर्भवति । अनुत्पन्ने विनष्टे च तस्मिन् रागदुःखे सुतरां कामसुखं
स्यात् । न चैवं दृष्टमिति ।
कथं च नामेति विस्तरः । कथं च नामैतद्योक्ष्यते । यन्मृदुनि वेदिते । यन्मृदुनि
दुःख इत्यर्थः । तीव्रानुभवो गृह्यत इति । वक्तव्यम् सुखं गृह्यते । मध्ये पुनरव्यक्त
इति । मध्यदुःखे अदुःखासुखा वेदना गृह्यते इत्यर्थः । मृदुनि दुःखे तेनाव्यक्तेन
भवितव्यमित्यभिप्रायः । त्रिषु चेति विस्तरः । त्रिषु च ध्यानेषु प्रथमद्वितीय-
तृतीयेषु सुखवचनात् । सुखा वेदना तत्रेति सूत्रे वचनात् । मृदु दुःखं स्यात् ।
१. नामेदं—का० । २. योज्यते—का० । ३. तीव्रानु०—का० ।