सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 686, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 686

[निर्देशः ] चतुर्थं कोशस्थानम् ६६७
कथं न चैतसिकी वेदना विपाकः प्राप्नोति? नहि ब्रूमः—तदेव चित्तविपाक
इति, अपि तु यो महाभूतानां प्रकोपः स विपाकः, तस्माज्जातम्, अतो विपाकजं
चित्तम्¹।
कर्मजेन हि धातुना वैषम्येण व्याकुलमवशं भ्रष्टस्मृतिकं चित्तं वर्तत इति
क्षिप्तमित्युच्यते। एवं चेदं चतुष्कोटिकं युज्यते—अस्ति चित्तं क्षिप्तं न विक्षिप्त-
मिति विस्तरः। १. क्षिप्तं तावन्न क्षिप्तं विक्षिप्तचित्तस्य। २. क्लिष्टं चित्तं विक्षिप्तं
न क्षिप्तं स्वस्थचित्तस्य क्लिष्टम्। ३. उभयं क्षिप्तचित्तस्य क्लिष्टम्। ४. नोभयं
स्वस्थचित्तस्याक्लिष्टम्।
कतमेषां पुनः सत्त्वानां चित्तं क्षिप्यते ?
अकुरूकामिनाम् ॥ ५८ ॥
अकुरूणां कामिनाम्। देवेष्वपि हि देवा उन्मत्ताः सन्ति प्रागेव मनुष्य-
तिर्यक्प्रेतेषु। नारकास्तु नित्यं क्षिप्तचित्ता एव। ते हि विविधयातनासहस्रव्यति-
भिन्नमर्माणस्तीव्राभिर्वेदनामिरभिनुन्ना² आत्मानमपि तावन्नाभिचेतयन्ति, किं पुनः
कार्यमकार्यं वा ! हाचित्तपरिदेवकश्चात्र नारक उदाहार्यः।
कः शोचेत् परितप्येत परिदेवेत वा पुनः।
ज्ञात्वा निःसरणं लोके जातेश्च मरणस्य च॥
साहं निःसरणं ज्ञात्वा जातेश्च मरणस्य च।
न शोचामि न तप्यामि कृते बुद्धस्य शासने"॥ ( )
इत्येवमादि।
कथं न चैतसिकी वेदना विपाकः प्राप्नोति। तस्याकुशलस्य कर्मण इति
वाक्यशेषः। महाभूतानां प्रकोपो विपाक इति। विपक्ति = विपाकः। तस्माज्जात-
मतो विपाकजं चित्तम्। अत एव स च कर्मज इति।
एवं चेदमिति विस्तरः। यस्मात् कर्मजेन यावद् भ्रष्टस्मृतिकं चित्तं वर्तते
तस्मादिदं चतुष्कोटिकं युज्यत इति। उभयं क्षिप्तचित्तस्य क्लिष्टं चित्तमित्येव
तत्रोदाहरणम्। न हि क्लिष्टं चित्तं विपाको युज्यते; 'विपाकोऽव्याकृतो धर्मः'
(अभि० को० २.५८) इति वचनात्।
अभिनुन्ना अभिपीड़िताः। हाचित्तपरिदेवकश्चात्र नारक इहोदाहार्यः। क्षिप्त-
चित्ता नारका भवन्तीति।
१. का० पुस्तके नास्ति। २. अभितुन्ना—का०।
अभि० को० २; १९