सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 685, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 685

६६६ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ कर्म-
भयोपघातवैषम्यशोकैश्च,
कथं तावद् भयेन ? अमनुष्यादयो मनुष्यान् विरूपेण रूपेणोपसंक्रामन्ति,
तेभ्यो भीतानां चित्तं क्षिप्यते ।
कथमुपघातेन ? अमनुष्या एव कुपिता मनुष्याणां मर्मसु प्रहरन्ति ।
कथं महाभूतवैषम्येण ? वातपित्तश्लेष्माणः प्रकोपमापद्यन्ते ।
कथं शोकेन ? यथा वासिष्ठीप्रभृतीनाम् । यदि मनो विक्षिष्यते कर्म-
विपाकजश्च चित्तक्षेपः ।
वासिष्ठीप्रभृतीनामिति ।
“भगवान् मिथिलाम्रवणे विहरति स्म मिथिलाम्रवणे । तेन खलु पुनः
समयेन वसिष्ठसगोत्राया ब्राह्मण्याः षट् पुत्राः कालगताः । सा तेषां काल-
क्रियया नग्नोन्मत्ता क्षिप्तचित्ता तेन तेनानुहिण्डन्ती येन मिथिलाम्रवणं तेनोप-
संक्रान्ता । तेन खलु पुनः समयेन भगवाननेकशतया भिक्षुपर्षदः पुरस्तान्नि-
षण्णो धर्मं देशयति स्म । अद्राक्षीद् वसिष्ठसगोत्रा ब्राह्मणी भगवन्तं दूरादेव ।
दृष्ट्वा च पुनर्जेह्रीयमाणरूपा उत्कुटकाऽस्थात्, स्मृतिं च लब्धवती । अद्राक्षीद्
भगवान् वसिष्ठगोत्रां ब्राह्मणीं दूरादेव । दृष्ट्वा च पुनरायुष्मन्तमानन्दमामन्त्र-
यते स्म—‘अनुप्रयच्छानन्द वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासङ्गम् । धर्ममस्यै
देशयिष्यामि’ । आयुष्मान् आनन्दो वसिष्ठसगोत्रायै ब्राह्मण्यै उत्तरासङ्गमदात् ।
अथ वसिष्ठसगोत्रा ब्राह्मणी उत्तरासङ्गं प्रावृत्य येन भगवांस्तेनोपसंक्रान्ता ।
उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णा । एकान्तनिषण्णां
वसिष्ठसगोत्रां ब्राह्मणीं धर्म्यया कथया सन्दर्शयति समादापयति समुत्तेजयति
सम्प्रहर्षयति” इत्येवमादि । विस्तरग्रन्थभयात् सर्वसूत्रं न लिखितम् । अयं
तत्रार्थः—भगवांस्तस्यै दानकथादि कृत्वा चत्वार्यार्यसत्यानि देशितवान् यावत्तया
स्रोतआपत्तिफलमधिगतम् । अधिगम्य च भगवतोऽन्तिकात् प्रक्रान्ता । तस्या
अपरेण समयेन सप्तमः पुत्रः कालगताः । सा तत्कालक्रियया न शोचति ।
तामशोचन्तीं स्वभर्ताब्रवीत्—‘त्वं पूर्वं पुत्रमरणेन परित्रप्तासि, इदानीं नासि
परितप्ता, नूनं ते पुत्रास्त्वया भक्षिता यतो न परितप्यसे’? इति सां तं
प्रत्युवाच—
पुत्रपौत्रसहस्राणि ज्ञातिसङ्घशतानि च।
दीर्घेऽध्वनि मया ब्रह्मन् खादितानि तथा त्वया ॥
पुत्रपौत्रसहस्राणां परिमाणं न विद्यते ।
अन्योन्यं खाद्यमानानां तासु तासुपपत्तिषु ॥