सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 684, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 684

निर्देशः ] चतुर्थं कोशस्थानम् ६६५
अकुशलस्य कर्मणः कायिक्येव वेदना विपाकः । कस्मान्न चैतसिकी ?
तस्य हि दुःखा वेदना विपाकः । चैतसिकी च दुःखा वेदना दौर्मनस्यम् । न
च दौर्मनस्यं विपाक इति व्याख्यातमेतत् ॥ ५७ ॥
यत् तर्हि सत्त्वानां चित्तक्षेपो भवति, कतमस्मिन्नसौ चित्ते भवति, केन वा
कारणेन ?
चित्तक्षेपो मनश्रिते,
मनोविज्ञान इत्यर्थः । नहि पञ्चसु विज्ञानकायेषु चित्तं क्षिप्यते; अविकल्प-
कत्वात् ।
स च कर्मविपाकजः ।
स चैष चित्तक्षेपः सत्त्वाना कर्मजः । ये हि द्रव्यमन्त्रप्रयोगेण वा परेषां
चित्तं क्षेपयन्ति, अकामकं वा विषं मद्यं वा पाययन्ति, त्रासयन्ति वा,
मृगयादिष्वग्निं वा दावेषूत्सृजन्ति, प्रपाताद्वा पातयन्ति, अन्येन वा केनचित् परेषां
स्मृतिं भ्रंशयन्ति, तेषां तस्य कर्मणो विपाकेनायत्यां चित्तं क्षिप्यते ।
ध्यानान्तरादिखभावात् । न चावितर्कस्य कर्मणः सवितर्कविचारोऽधरभूमिको
विपाको युज्यत इति ।
तस्य हि दुःखा वेदना विपाक इति विस्तरः । तस्याकुशलस्य दुःखा वेदना
विपाक इष्यते; तस्यानिटफलत्वाच्च । चैतसिकी च दुःखा वंदना दौर्मनस्यम्,
नान्यदस्ति । न च दौर्मनस्यं विपाक इति व्याख्यातमेतदिति । इन्द्रियनिर्देशे
‘विपाको जीवितं द्वेधा द्वादशान्त्याष्टकादृते दौर्मनस्याच्च” ( अभि० को०
२.१०) इति ॥ ५७ ॥
‘दौर्मनस्यं न विपाकः’ इत्येतदमृष्यन्नाह - यत्तर्हीति विस्तरः । यदि
दौर्मनस्यं न विपाकः । यत्तर्हि सत्त्वानां चित्तक्षेपो भवति । कतमस्मिन्नसौ चित्ते
भवति केन वा कारणेनेति । तस्यायमभिप्रायः - चित्तक्षेपो न पञ्चमु विज्ञान-
कायेषु; तेषामविकल्पकत्वात् । स चाकुशलहेतुकोऽनिष्टत्वादित्यतो विपाकेन
दौर्मनस्येन भवितव्यमिति ।
अविकल्पकत्वादिति । अभिनिरूपणानुस्मरणविकल्पाभ्यामविकल्पकत्वात्
पञ्चानां विज्ञानकायानाम् । चित्तक्षेपस्य चासद्विकल्पलक्षणत्वात् ।
अग्निं वा दावेषूत्सृजन्तीति । दावः = तृणादिगहनान्वितो देशविशेषः । अन्येन
वा केनचिदिति । अनिष्टवेदनादिना ।