सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 683, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 683

६६४ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ कर्म-

अत एतेषु कृतानां कारापकाराणां फलं दृष्ट एव धर्मे नियतं प्राप्यते ।
शेषस्य तु भावनामार्गस्यापरिपूर्णस्वभावफलत्वाच्च तद्व्युत्थितानां न तथा
प्रत्यग्राश्रयपरिवृत्तिशुद्धाशयसन्ततिर्वर्तत इति न ते तथा पुण्यक्षेत्रं भवन्ति¹ ॥५६॥
विपाकः पुनर्वेदनाप्रधानः । तदिदानीं विचार्यते—स्यात् कर्मणश्चैतसिक्येव
वेदना विपाको विपच्येत न कायिकी, स्यात् कायिक्येव न चैतसिकी
स्याद् ? इत्याह—
कुशलस्यावितर्कस्य कर्मणो वेदना मता ।
विपाकश्चैतसिक्येव,
अवितर्कं कर्म ध्यानान्तरात् प्रभृति यावद् भवाग्रे । तस्यावितर्कस्य
कुशलस्य कर्मणश्चैतसिक्येव वेदना विपाकः । कस्मान्न कायिकी ? तस्या
अवश्यं सवितर्कसविचारत्वात्² ।
कायिक्येवाशुभस्य तु ॥ ५७ ॥
एतेषु पुद्गलेषु कृतानां कारापकाराणामुपकारापकाराणां कुशलाकुशलानाम्
फलं दृष्ट एव धर्मे इहैव जन्मनि प्राप्यत इति । सद्योऽर्थं दर्शयति, सद्य इवेति
कृत्वा ।
शेषस्य त्विति विस्तरः । शेषो भावनामार्गः सकृदागाम्यनागामिफल-
प्रापकः । अपरिपूर्णः स्वभावः फलं वा अस्येत्यपरिपूर्णस्वभावफलः, तस्य
भावः, तस्मात् अपरिपूर्णस्वभावफलत्वात् । का पुनस्तस्य परिपूर्णस्वभावता,
परिपूर्णफलता च ? अशैक्षत्वं परिपूर्णस्वभावता । स हि मार्गोऽशैक्षस्वभावश्च,
येनार्हत्त्वं प्राप्यते । परिपूर्णफलताप्यर्हत्त्वप्राप्तिः । स हि फलमार्गस्त्रिभिः
फलैः फलवानिति । अथवा—क्षयज्ञानं संगृहीतो मार्गः परिपूर्णस्वभावफलः ।
परिपूर्णस्वभावो यस्मादशैक्षमार्गः । परिपूर्णफलो निरवशेषफलत्वात् । तद्व्यु-
त्थितानामिति । शेषभावनामार्गव्युत्थितानाम् । न ते तद्व्युत्थितास्तथा पुण्य-
क्षेत्रं भवन्ति । यथार्हत्त्वव्युत्थिताः । प्रागेव लौकिकमार्गव्युत्थिताः । भावना-
प्रहातव्यानां हि क्लेशानां सावशेषनिरवशेषप्रहाणादयं विशेष उक्त इत्यव-
गन्तव्यम् ॥ ५६ ॥
तस्या अवश्यं सवितर्कसविचारत्वादिति । "सवितर्कविचारा हि पञ्च-
विज्ञानधातवः" ( अभि० को० १.३२) इति नियमात्, वितर्कविचारयोश्च
१: भवति—का० ।
२. सवितर्कविचारत्वात्—का० ।