अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 682, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ६६३
सम्भवात् ।
यच्चानियतं तस्याविपाक एव, अत्यन्तवैराग्यात् ॥ ५५ ॥
कीदृशं पुनः क्षेत्रं यत्रावश्यं दृष्टधर्मवेदनीयं कर्म सम्पद्यते ? आह--
बुद्धप्रमुखो भिक्षुसङ्घः, पुद्गलास्तु पञ्च ।
ये निरोधारणामैत्रीदर्शनार्हत्फलोत्थिताः ।
तेषु कारापकाराणां फलं सद्योऽनुभूयते ॥ ५६ ॥
निरोधसमापत्तिव्युत्थितः परां चित्तशान्ति लभते; निर्वाणसदृशत्वात्
समापत्तेः । स हि गतप्रत्यागत इव निर्वाणाद् भवति ।
अरणाव्युत्थितस्याप्रमाणसत्त्वारणाहिताध्याशयानुगतात्युद्ग्रप्रमाणपुण्यपरि-
भावनानुगता च सन्ततिर्वर्तते ।
मैत्रीव्युत्थितस्याप्रमाणसत्त्वसुखाध्याशयानुगतात्युद्ग्रप्रमाणपुण्यपरिभावनानु-
गता च सन्ततिर्वर्तते ।
दर्शनमार्गव्युत्थितस्याशेषदर्शनप्रहातव्यप्रहाणात् प्रत्यग्राश्रयपरिवृत्तिनिर्मला
सन्ततिर्वर्तते ।
अर्हत्फलव्युत्थितस्याशेषभावनाप्रहातव्यप्रहाणात् प्रत्यग्राश्रयपरिवृत्तिशुद्धा
सन्ततिर्वर्तते ।
सम्भवादिति । एवमस्थान्तरनियतविपाकेन कर्मणा तद्वत् पुद्गलस्यात्यन्तं तस्या
भूमेर्वैराग्यासम्भवादित्यर्थः ॥ ५५ ॥
क्षेत्रविशेषादित्युकम्, अतः पृच्छति—कीदृशं पुनः क्षेत्रमिति ।
अरणाव्युत्थितस्येति विस्तरः । अप्रमाणेषु सत्त्वेषु अरण्या हितोऽध्याशयो-
ऽभिप्रायः, तेनानुगता । अत्युद्ग्रेण तीक्ष्णेन, अप्रमाणेन पुण्येन परिभावनानु-
गता सन्ततिर्वर्तते । अरणामुत्तरत्र वक्ष्यति—"अरणा प्रणिधिज्ञान०" (अभि०
को० ७.३५) इत्यत्र ।
मैत्रीव्युत्थितस्येति विस्तरः । अप्रमाणेषु सत्त्वेषु सुखमुत्पद्यतामित्याशयः,
तेनानुगता अत्युद्ग्रेति पूर्ववच्च ।
प्रत्यग्राश्रयपरिवृत्तिनिर्मलेति । प्रत्यग्रा अभिनवा; अचिरव्युत्थितत्वात् ।
प्रत्यग्राश्रयस्य शरीरस्य परिवृत्त्या निर्मला सन्ततिः ।