अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 594, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] चतुर्थं कोशस्थानम् ५७५
न चैवं भवति । अयुक्तमस्य स्प्रष्टव्यात् स्मरणम् । चित्रान्तरेण¹
वाऽनेकवर्णसंस्थाने दर्शनाद् बहूनामेकदेशं² प्राप्नुयात् । तच्चायुक्तं वर्णवत् ।
तस्मान्नास्ति द्रव्यतः संस्थानम् ॥
यच्चापि किञ्चित् सप्रतिघं रूपमस्ति तदवश्यं परमाणौ विद्यते ?
न चाणौ तत् ,
न च संस्थानं परमाणौ विद्यते दीर्घादि । तस्माद् बहुष्वेव तथासन्नि-
विष्टेषु दीर्घादिप्रज्ञप्तिः ।
दीर्घे ह्रस्वमिति, ह्रस्वे दीर्घमिति । किं कारणम् ? वर्णे ह्यनियमेन स्मरणं
भवति स्प्रष्टव्यात् कदाचिद् रक्ते पीतमिति पीते रक्तमिति । न चैवं भवति ।
कथमेवं न भवति ? यथा वर्णे संस्मरणं न नियमेन भवति, तथा संस्थानेऽप्य-
नियमेनेति । किं तर्हि ? वर्णे स्मरणं न नियमेन भवति, संस्थाने पुनर्नियमेनेति
अयुक्तमस्य संस्थानस्य स्प्रष्टव्यात् स्मरणम् । कथं तर्हि दीर्घबुद्धिर्ह्रस्वबुद्धिर्वा
भवति ? उक्तमेतद्—एकदिङ्मुखे भूयसि वर्णे वा स्प्रष्टव्ये वा गृह्यमाणे दीर्घ-
विकल्पबुद्धिः, अल्पीयसि ह्रस्वविकल्पबुद्धिरित्येवमाद्यवगन्तव्यम् । चित्रान्तरेण
वेति विस्तरः । चित्रान्तरेण वानेकवर्णसंस्थाने बहुभिः प्रकारैर्दृश्यमानेनानेक-
संस्थानं दृश्यते दीर्घादि । अतोऽनेकसंस्थानदर्शनात् बहूनां संस्थानानामेकदेशं
प्राप्नुयात् । यत्रैव दीर्घत्वं तत्रैव ह्रस्वादिग्रहणात् । तच्चायुक्तं वर्णवत् । यथा
हि वर्णः सप्रतिघत्वादेकदेशो न भवति, तथा संस्थानमपीति ।
तथा च सति द्रव्यतोऽपि संस्थानमिति सापक्ष्यालः पक्ष्यो भवति; धर्म-
विशेषविपर्ययात् ।
“न चाणौ तद्” इति । यथा नीलादिरूपम् अष्टद्रव्यकादावणौ विद्यते
न चैवमणौ संस्थानं दीर्घादि विद्यते । कथं पुनर्गम्यते—संस्थानं परमाणौ
नास्तीति ? दीर्घसङ्घातेऽपचीयमाने दीर्घबुद्ध्यभावात् । दीर्घं हि दण्डमुपलभ्य
तस्मिन्नेवापचीयमाने दीर्घबुद्धिर्न निवर्तेत³ । न हि नीलादि द्रव्यमुपलभ्यापचीय-
माने तस्मिन् पीतबुद्धिर्भवति । दीर्घद्रव्ये त्वपचीयमाने ह्रस्वबुद्धिर्भवति, न
दीर्घबुद्धिः । न च युक्तं वक्तुम्—तदेव संस्थानं दीर्घादि-ह्रस्वादि-बुद्धिं जनय-
तीति । तस्माद् बहुष्वेवेति सर्वम् ।
१. चित्रास्तरणे—का० । २. मैकदेश्ये—का० ।
३. विवर्तेत—मुद्रितः पाठः ।