अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 572, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ५५३
यस्य शस्त्रमयं स तेषामन्तिकं गच्छति, अन्योन्यं शस्त्राण्यावहन्ति,
पश्चान्नमन्ति ॥
सर्वे तु चक्रवर्तिनः—
अवधाः ॥ ९६ ॥
शस्त्रेणापि जयतां वधो न प्रवर्तते । निर्जित्य च सत्त्वान् दशसु कुशलेषु
कर्मपथेषु प्रतिष्ठापयन्ति । अत एव ते नियतं देवेषूत्पद्यन्ते । सूत्र उक्तम्—
“राज्ञश्चक्रवर्तिनो लोके प्रादुर्भावात् सप्तानां रत्नानां लोके प्रादुर्भावो भवति ।
तद्यथा—चक्ररत्नस्य, हस्तिरत्नस्य, अश्वरत्नस्य, मणिरत्नस्य, स्त्रीरत्नस्य,
गृहपतिरत्नस्य, परिणायकरत्नस्य” ( ) इति । कथं सत्त्वसंख्याता
हस्त्यादयः परकीयेण कर्मणोत्पद्यन्ते ? न वै कश्चित् परकीयेणोत्पद्यते ।
येन तु सत्त्वेन तत्सम्बन्धजातीयं१ तत्सम्बद्धसंवर्तनीयं१ कर्मोपचितम्, तस्मिन्नु-
त्पन्ने स्वान्येवैनं कर्माण्युत्पादयन्ति ।
किमेष एवान्यराज्यैश्चक्रवर्तिनां विशेषः ? अन्योऽपि विशेषोऽस्ति;
तद्यथा—द्वात्रिंशन्महापुरुषलक्षणान्येषां भवन्ति, तद्यथा बुद्धानाम् ॥९५-९६॥
तत्र तु—
देशस्थोत्सन्नपूर्णत्वैर्लक्षणातिशयो मुनेः ।
देशस्थतराणि बुद्धानां लक्षणानि, उत्सन्नतस्त्राणि, सम्पूर्णातराणि च—इत्येष
तेषां विशेषः ॥
शस्त्राण्यावहन्ति उत्क्षिपन्ति ।
गृहपतिरत्नम् । कोषाध्यक्षजातीयः । परिणायकरत्नम् । बलाध्यक्षजातीयः ।
तत्सम्बन्धजातीयमिति । तेन चक्रवर्त्तिना सम्बद्धः । तत्सम्बद्धस्य तत्सम्बद्धेन
वा संवर्तनं तस्मै हितं तदनुकूलं तत्सम्बद्धसंवर्तनीयमिति । येन सत्त्वेन कर्मा-
पचितं तस्मिन्नुत्पन्ने चक्रवर्त्तिन स्वान्येवैनं सत्त्वं कर्माण्युत्पादयन्ति । न तु
सत्त्वश्चक्रवर्त्तिकुशलविपाकोत्पत्तिप्रत्ययभावमापद्यते । स च कुशलविपाकश्चक्र-
वर्त्तिन एवेत्यवगन्तव्यम् ॥ ९५-९६ ॥
देशस्थतराणीति । अभ्रष्टस्थानानि । उत्सन्नतत्राणि । प्रभास्वरतराणि ।
सम्पूर्णतराणि । अखण्डरूपाणि ॥
१-१. तत्सम्बन्धसंवर्तनीयम्—का० ।