सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 571, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 571

५५२ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
किमिदमेकं लोकधातुमधिकृत्योक्तम्, आहोस्वित् सर्वानिति ? चक्रवर्तिनोऽपि
चास्य लोकधातौ न स्यादुत्पादः; सहोत्पत्तिप्रतिषेधात् बुद्धवत् ।
अथैतत् क्षम्यते, इदं तु कस्मान्न क्षम्यते—“पुण्यस्तु बुद्धानां लोक
उत्पादः” इति ? यदि बहूनां बहुषु स्यात्, न दोषः स्यात् । भूयसां लोकानाम-
भ्युदयेन योगः स्यान्निःश्रेयसेन च ॥
अथैकस्मिन्नपि कस्माद् द्वौ तथागतौ न सहोत्पद्येते ?
१. प्रयोजनाभावात् । २. प्रणिधानवशाच्च । एवं हि बोधिसत्त्वाः प्रणि-
धानं कुर्वन्ति—‘अहो बताहमन्धे लोकेऽपरिणायके बुद्धो लोक उत्पद्येयमनाथानां
नाथः’ इति । ३. आदरार्थम् । ४. अभित्वरार्थं च । एकस्मिन् हि बुद्धे
सुतरामाद्रियन्ते । ‘दुर्लभ ईदृशोऽन्यः’ इति मन्यमानाः सुतरां चाभित्वरन्ते
शासनप्रतिपत्तौ—‘माऽस्मिन् गते परिनिर्वृते वाऽनाथा भूम’ इति ॥
अथैते चक्रवर्तिनः सुवर्णादिमयैश्चक्रैः पृथिवीं जयन्तः कथं जयन्ति ?
यथाक्रमम्—
प्रत्युद्यानस्वयंयानकलहाशस्त्रजितः,
यस्य सौवर्णं चक्रं भवति तं कोटराजानः स्वयं प्रत्युद्गच्छन्ति—‘इमे
देवस्य जनपदाः ऋद्धाश्च स्फीताश्च क्षेमाश्च सुभिक्षाश्चाकीर्णबहुजनमनुष्याश्च,
तान् देवः समनुशास्तु, वयं देवस्यानुयात्रिका भविष्यामः’ इति ।
यस्य रूप्यमयं स स्वयमेव तेषामन्तिकं याति, पश्चादस्य प्रह्वीभवन्ति ।
यस्य ताम्रमयं स तेषामन्तिकं गत्वा कलहायते, पश्चात् प्रह्वीभवन्ति ।
किमिदमेकं लोकधातुमधिकृत्येति । एकचातुर्द्वीपकं त्रिसाहस्रमहासाहस्रं वा
लोकधातुमधिकृत्यैतदुक्तमित्यभिप्रायः। चक्रवर्त्तिनोऽपि चेति विस्तरः। “अस्थान-
मनवकाशो यदपूर्वाचरमौ द्वौ तथागतौ उत्पद्येयाताम्” इति नानेन वचनेन
लोकधात्वन्तरोत्पादप्रतिषेधः; तथागतानां तथोक्तत्वात् । तद् यथा—चक्र-
वर्त्तिनाम् । चक्रवर्त्तिनोऽपि हि तथोक्ताः—“अस्थानमनवकाशो यदपूर्वाचरमौ
द्वौ चक्रवर्त्तिनौ लोक उत्पद्येयाताम्” इति ।
जनाः प्राकृतमनुष्याः । मनुष्यास्तु मतिमन्तः ।