अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 570, कुल 1258 में से
संदर्भ में पढ़ेंनिर्देशः ] तृतीयं कोशस्थानम् ५५१
स्याद् विनेयान् विनेतुम्, तत्रान्योऽपि न शक्त इति । उक्तं च सूत्रे—"स
चेत् त्वां शारिपुत्र कश्चिदुपसंक्रम्यैवं पृच्छेत्—'अस्ति कश्चिदेतर्हि श्रमणो वा
ब्राह्मणो वा समसमः श्रमणेन गौतमेन यदुताभिसम्बोधाय । एवं च पृष्टः किं
व्याकुर्याः' ? 'स चेन्मां भदन्त कश्चिदुपसंक्रम्यैवं पृच्छेत्, तस्याहं पृष्ट एवं
व्याकुर्याम्—नास्ति कश्चिदेतर्हि श्रमणो वा ब्राह्मणो वा समसमो भगवता
यदुताभिसम्बोधाय । तत् कस्य हेतोः ? सम्मुखं मे भगवतोऽन्तिकाच्छ्रुतम्,
सम्मुखमुद्गृहीतम्—अस्थानमनवकाशो यदपूर्वाचरमौ तथागतौ लोक उत्पद्येयातां
नेदं स्थानं विद्यते''' ( ) इति ।
यत्तर्हि भगवतोक्तं ब्रह्मसूत्रे—"यावत्त्रिसाहस्रमहासाहस्रो लोको वशे
मेऽत्र वर्तते" ( ) इति ? आभिप्रायिक एष निर्देशः ।
कोऽत्राभिप्रायः ? तावतोऽनभिसंस्कारेण व्यवलोकनात् । अभिसंस्कारेण
त्वनन्तो बुद्धानां चक्षुर्विषयः ।
सन्त्येवान्यलोकधातुषु बुद्धा इति निकायान्तरीयाः । किं कारणम् ?
बहवो हि समं सम्भारेषु प्रवर्तमाना दृश्यन्ते । न चैकत्र बहूनां युगपद् योग
उत्पत्तुम्, न चास्ति तदुत्पत्तौ कश्चित् प्रतिबन्ध इति नियतं लोकधात्वन्तरेषू-
त्पद्यन्ते । अनन्ता लोकधातव इति न शक्यं भगवता कल्पमप्यायुर्बिभ्रता यथेह
तथान्येष्वपि अनन्तेषु लोकधातुषु व्यापर्तुम्, किं पुनः पुरुषायुषम् ।
कथं चेह बुद्धो व्याप्रियेत ? अस्य पुद्गलस्येदमिन्द्रियम् इयता कालेन-
मुष्मिन् देशे अमुं पुद्गलमागम्यास्य दोषस्य परिहारादस्याङ्गस्योपसंहारादनेन
प्रयोगेणानुत्पन्नं वोत्पत्स्यते, अपरिपूर्णं वा परिपूरयिष्यतीति ।
यत्त्विदं सूत्रमत्रोपनीतम्—"अस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथा-
गतावेकत्र लोक उत्पद्येयाताम्" ( ) इति, तदेवेदं सम्प्रधार्यते—
तावतोऽनभिसंस्कारेणेति । तावतो लोकधातोरनाभोगेन दर्शनात् ।
निकायान्तरीया इति । महासाङ्घिकप्रभृतयः ।
न चैकत्रेति । लोकधातौ पुरुषायुषमिति । पुरुषस्यायुः पुरुषायुषम् । तद्
बिभ्रतेति वर्तते । इदमिन्द्रियमिति । श्रद्धादि । अस्याङ्गस्येति । अस्य प्रत्ययस्य ।