अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 569, कुल 1258 में से
संदर्भ में पढ़ें५५० भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
सुवर्ण-रूप्य-ताम्र-अयश्चक्राणि येषां सन्ति। प्रथम एषामुत्तमः, द्वितीय
ऽपोत्तमः, तृतीयो मध्यमः, चतुर्थोऽधमः।
तेऽधरक्रमात् ॥ ९५ ॥
एक-द्वि-त्रि-चतुर्द्वीपाः,
यस्यायसं चक्रं स एकद्वीपाधिपतिः, यस्य ताम्रमयं स द्वयोः, यस्य
रूप्यमयं स त्रयाणाम्, यस्य सुवर्णमयं स चतुर्द्वीपाधिपतिः—एष प्राज्ञप्तिको
निर्देशः।
सूत्रे तु प्रधानग्रहणादेकमेव सौवर्णं चक्रम्। “यस्य राज्ञः क्षत्रियस्य
मूर्द्धाभिषिक्तस्य तदैव पोषधे पञ्चदश्यां शिरःस्नातस्योपोषधोपोषितस्योपरिप्रसाद-
तलगतस्यामात्यगणपरिवृतस्य पूर्वस्यां दिशि चक्ररत्नं प्रादुर्भवति सहस्रारं सना-
भिकं सुनेमिकं सर्वाकारपरिपूर्णं शुभकर्माहृतं दिव्यं सर्वसौवर्णम्, स राजा भवति
चक्रवर्ती” ( ) इति।
एवं चैते चक्रवर्तिन उत्पद्यन्ते—
न च द्वौ सह बुद्धवत्।
सूत्र उक्तम्—“अस्थानमनवकाशो यदपूर्वाचरमौ द्वौ तथागतावर्हन्तौ
सम्यक्सम्बुद्धौ लोक उत्पद्येयाताम्। नेदं स्थानं विद्यते। स्थानमेतद् विद्यते
यदेकस्तथागतः। यथा तथागत एवं चक्रवर्तिनौ” ( ) इति।
इदमत्र सम्प्रधार्यम्—किमत्र त्रिसाहस्रमहासाहस्रो लोकधातुर्लोक इष्टः,
उताहो सर्वलोकधातव इति ?
नान्यत्र बुद्धा उत्पद्यन्ते इत्येके। किं कारणम् ? मा भूद् भगवतः शक्ति-
व्याघात इति। एक एव हि भगवान् सर्वत्र शक्तः। यत्र बुद्ध एको न शक्तः
एष प्राज्ञप्तिक इति। प्रज्ञप्तिशास्त्रनिर्देशः—चतुर्विधाश्चक्रवर्तिन इति।
सूत्रे तु सुवर्णचक्रवर्त्येवोक्तः; प्राधान्यात्।
अस्थानं वर्तमानकालापेक्षया। अनवकाशोऽनागतापेक्षया। अनागतेऽप्य-
ध्वनि सम्भवादयुगपद् द्वयोरिति। अपूर्वाचरमाविति। नैकः पूर्वो नापरः पश्चात्।
किं तर्हि ? सहेत्यर्थः। समसम इति वीप्सा। अथ वा—समेः सर्वसत्त्वेषु बुद्धे-
र्भगवद्भिः सम इति समसमः।