सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 568, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 568

निर्देशः ] तृतीयं कोशस्थानम् ५४२
त्वात् । शक्यं च तैः पूर्वबुद्धानामनुशासनमनुस्मृत्यापि¹ धर्मं देशयितुम् ।
नापि निष्करुणाः, सत्त्वानुग्रहार्थमृद्धेराविष्करणात् । नापि सत्त्वानामभव्यत्वात्;
तथा हि लौकिकवीतरागाः² संविद्यन्ते । किं तर्हि ?
पूर्वाभ्यासवशेनाल्पोत्सुकताधिमुक्तत्वात् नोत्सहन्ते गम्भीरधर्मग्रहणाय
परेषां व्यापर्तुम् । अनुस्रोतोगामिनीनां हि प्रजानां दुष्करं प्रतिस्रोतोनायनम् ।
गणपरिकर्षणप्रसङ्गपरिहारार्थं च; विक्षेपसंसर्गभीरुत्वात् ॥ ९३–९४ ॥
अथ चक्रवर्तिनः कदोत्पद्यन्ते ?
चक्रवर्तिसमुत्पत्तिर्नाधोऽशीतिसहस्रकात् ।
अमिते चायुषि मनुष्याणां यावदशीतिसहस्रके चोत्पत्तिश्चक्रवर्त्तिनाम्,
नाधः; तस्याः सस्यसम्पदस्तदूनायुषामभाजनत्वात् ।
राज्यं चक्रेण वर्तयितुं शीलमेषामिति चक्रवर्तिनः ।
ते पुनश्चतुर्विधाः—
सुवर्णरूप्यताम्रायश्चक्रिणः,
शक्यञ्च तैरिति विस्तरः । अथापि ते प्रतिसंवित्प्राप्ता न भवेयुः । तथापि
तैः प्रणिधिज्ञानेन पूर्वबुद्धानामनुशासनमनुस्मृत्य धर्मो देशयितुं शक्यते । ऋद्धे-
राविष्करणादिति । आकाशगमनादिकायाः सत्त्वानुग्रहार्थं प्रकाशनात् । नापि
सत्त्वानामभव्यत्वात् । धर्मं न देशयन्तीति वाक्यशेषः । कस्माद् ? इत्याह—तथा-
हीति विस्तरः । यस्माद्धि लौकिकवीतरागास्तदानीं संविद्यन्ते, तस्माल्लोकोत्तर-
वीतरागा अपि सम्भवेयुरित्यभिप्रायः । यद्येते न हेतवो धर्मदेशनाया अकरणे,
कस्तर्हि हेतुः ? इत्याह—किं तर्हीति विस्तरः ।
पूर्वाभ्यासवशेन असंसर्गाभ्यासवशेन ।
त्वादित्यर्थः । गणपरिकर्षणप्रसङ्गपरिहारार्थं³ च नोत्सहन्ते गम्भीरधर्मग्रहणाय
परेषां व्यापर्तुम् । तथा व्यापारे हि सति गणः परिक्राष्टव्यः स्यात् । गणपरिकर्षण-
प्रसङ्गं पुनः कस्मात् परिहरन्ति ? विक्षेपसंसर्गभीरुत्वात् । विक्षेपसंसर्गाभ्यां
भीरुत्वात् । विक्षेपः=अभिप्रेतसमाध्यादिकर्मण्यप्रवृत्तिः । संसर्गः=अन्यसम्पर्कः ।
विक्षेपसंसर्गभीरुत्वं पुनः पूर्वाभ्यासवशात् ॥ ९३–९४ ॥
१. ॰बुद्धानां शासनमनु०—का० । २. लौकिकमार्गवीत०—का० ।
३. ॰परिहार्यं—मुद्रितः पाठः ।