अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
DevanagariSanskritpublished1,258 पृष्ठ
पृष्ठ 564, कुल 1258 में से
संदर्भ में पढ़ेंपृष्ठ 564निर्देशः ] तृतीयं कोशस्थानम् ५४५
अष्टकं मध्याद् विस्मृतमिति । अष्टौ स्थानानि कापि प्रदेशे प्रमुषितत्वान्न
निर्देशः ] तृतीयं कोशस्थानम् ५४५
महासंज्ञा । दश महासंज्ञा विभूतः । दश विभूता महाविभूतः । दश महा-
विभूता बलाक्षम् । दश बलाक्षा महाबलाक्षम् । दश महाबलाक्षाणि असंख्येयम् ।|
अष्टकं मध्याद् विस्मृतम्¹ ।
इत्येतेषां षष्टिस्थानान्तरगतां संख्यामनुप्राप्ताः कल्पा असंख्येयानीत्युच्यन्ते ।
ततो व्यावृत्य पुनर्गण्यन्ते । एवं त्रीणि असंख्येयानीत्युच्यन्ते । न तु नैव
परिसंख्यातुं शक्यन्त इति ।
किन्नु खलु कालप्रकर्षेणैव कृतप्रणिधाना बोधिसत्त्वा बोधिमभिसम्बुध्यन्ते ?
किमेतदेव भविष्यति—महतां हि पुण्यज्ञानसम्भारेण षड्भिः पारमिताभिः बहु-
भिर्दुष्करशतसहस्रैस्त्रिभिः कल्पासंख्येयैरनुत्तरां सम्यक्संबोधिमभिसम्बुध्यन्ते बोधि-
सत्त्वाः । यद्यप्यन्यथाप्यस्ति मोक्षावकाशः, किमर्थं त इयन्तं यत्नमारभन्ते ?
परार्थं त इयन्तं यत्नमारभन्ते—'कथं परानपि महतो दुःखौघात् परित्रातुं
शक्नुयाम्' इति ।
क एषां परार्थेन स्वार्थः ? एष एव तेषां स्वार्थो यः परार्थः, तस्याभिम-
तत्त्वात् ।
क² इदानीमेतच्छ्रद्धास्यते ? सत्यं दुःश्रद्धानमेतदात्मम्भरिभिनिष्करुणैः;
अष्टकं मध्याद् विस्मृतमिति । अष्टौ स्थानानि कापि प्रदेशे प्रमुषितत्वान्न
पठितानि । तेनात्र द्वापञ्चाशत् स्थानानि भवन्ति । षष्ट्या च संख्यास्थाने-
र्भवितव्यम् । तान्यष्टकानि स्वयं कानिचिन्नामानि कृत्वा पठितव्यानि, येन
षष्टिसंख्यास्थानानि परिपूर्णानि भवेयुः । असंख्येया इति । असंख्येयाः संख्या-
नेनासंख्येया असंख्या इति । बहुवचननिर्देशादनुक्ता अपि तद्विता भवन्ति ।
यद्येवं "तदसंख्यत्रयोद्भवम्" इति कथमुक्तम् ? नैष दोषः; नास्ति संख्या
परेणेत्यसंख्याः, असंख्येयाः कल्पाः । असंख्याश्चासंख्याश्चासंख्याश्चेत्यसंख्याः,
तेषां त्रयम् । तेषां कल्पानामसंख्यत्रय उद्भवतीति तदसंख्यत्रयोद्भवं बुद्धत्व-
मित्येवं तद्व्याख्यातव्यम् ।
तस्याभिमतत्वादिति । तस्य परार्थस्याभिमतत्वात् । यो ह्यभिमतः स,
स्वार्थो दृष्ट इति ।
१. विस्मृतम्—का० । २. का० पुस्तके नास्ति ।