अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)
Abhidharmakosha and Bhashya of Vasubandhu with Commentary
आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा
पृष्ठ 563, कुल 1258 में से
संदर्भ में पढ़ें५४४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
“त्रिभिरसंख्येयैः कल्पानां बुद्धत्वं प्राप्यते” ( ) इति ।
तत् कतमेषां कल्पानाम् ? य एव महाकल्पो निर्दिष्टः ।
तदसंख्यत्रयोद्भवम् ॥ ९३ ॥
बुद्धत्त्वम्,
असंख्येयानां कल्पानां त्रयेण ।
कथमसंख्येयस्यासति संख्येयावसाने पुनस्त्रित्वमुच्यते ? नैतदेवं वेदि-
तव्यम् । किं तर्हि ? “षष्टिः स्थानान्तराण्यसंख्येयम्” ( ) इति
मुक्तकसूत्रं पठ्यते ।
कतमानि षष्टिः ?
एको ह्यद्वितीयः प्रथमं स्थानान्तरम् । एककानां दशको द्वितीयम् । दश
दशकानि शतं तृतीयम् । दश शतानि सहस्रम् । दश सहस्राणि प्रभेदः ।
दश प्रभेदा लक्षम् । दश लक्षा अतिलक्षः । दशातिलक्षाः कौटिः । दश कौट्यो
मध्यः । दश मध्या अयुतम् । दशायुता महायुतम् । दश महायुता नियुतम् ।
दश नियुता महानियुतम् । दश महानियुताः प्रयुतम् । दश प्रयुता महाप्रयुतः ।
दश महाप्रयुताः कङ्करः । दश कङ्करा महाकङ्करः । दश महाकङ्करा विस्वरः ।
दश विस्वरा महाविस्वरः । दश महाविस्वरा अक्षोभ्यः । दशाक्षोभ्या महा-
क्षोभ्यः । दश महाक्षोभ्या विवाहः । दश विवाहा महाविवाहः । दश महा-
विवाहा उत्सङ्गः । दशोत्सङ्गा महोत्सङ्गः । दश महोत्सङ्गा वाहनः । दश
वाहनानि महावाहनम् । दश महावाहनानि टिटिभः । दश टिटिभा महा-
टिटिभः । दश महाटिटिभा हेतुः । दश हेतवो महाहेतुः । दश महाहेतवः
करभः । दश करभा महाकरभः । दश महाकरभा इन्द्रः । दशेन्द्रा महेन्द्रः ।
दश महेन्द्राः समाप्तम् । दश समाप्तानि महासमाप्तम् । दश महासमाप्तानि
गतिः । दश गतयो महागतिः । दश महागतयो निम्बरजः । दश निम्बरजांसि
महानिम्बरजः । दश महानिम्बरजांसि मुद्रा । दश मुद्रा महामुद्रा । दश महा-
मुद्रा बलम् । दश बलानि महाबलम् । दश महाबलानि संज्ञा । दश संज्ञा
मुक्तकमिति । न चतुरागमन्तर्गतमित्यर्थः ।