सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 443, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 443

४२२ भाष्यस्फुटार्थसहितेऽभिधर्मकोशे [ लोक-
"करिकूपसक्तुचन्दनकलभारामास्तथा कपेरभिषेकः ।
अशुचिकपिः पटकलहाविति दश दृष्ट्वा नृपेण कृकिणा स्वप्नाः" ॥
नैव चान्तराभविकः कुक्षिं भित्त्वा प्रविशति, अपि तु मातुर्योनिद्वारेण ।
अत एव यमलयोर्यः पश्चात् प्रजायते स ज्यायानुच्यते, यः पूर्वं स कनीयानिति ।
धर्मसूत्रविभाष्यं कथं नीयते-
"वारण त्वमुपगम्य पाण्डरं षड्विषाणरुचिरं चतुष्क्रमम् ।
मातृगर्भशयनं विशेषसम्प्रजानन् ऋषिराश्रमं यथा" ॥
( ) इति ?
नैतदवश्यनेतव्यम् । न ह्येतत् सूत्रम्, न विनयः, नाभिधर्मः; काव्यमेतत् ।
कवीनां च काव्यं समायोजयतां केचिद् भावाः समारोपिता गच्छन्ति ।
अथवा-नेतव्यमेव । यथा अस्य माता स्वप्ने तं प्रविशन्तमद्राक्षीत्, तथा
सोऽपि गाथामकार्षीदिति ।
रूपावचरोऽप्यन्तराभवः सम्पूर्णप्रमाणः सवस्त्रश्च प्रादुर्भवति; अपत्राप्योत्स-
दत्वात् बोधिसत्त्वस्य सवस्त्रः । शुक्लायाश्च भिक्षुण्याः प्रणिधानवशाद् यावन्त-
मेव परिवेष्टिता निर्दग्धा । अन्यो नग्नः; कामधातोरनपत्राप्योत्सदत्वात् ॥
अथ कोऽयं पूर्वकालभवो नाम ?
स पुनर्मरणात् पूर्वं उपपत्तिक्षणात् परः ॥ १३ ॥
भवो हि नामाविशेषेण पञ्चोपादानस्कन्धाः । स एव चतुर्धा भिद्यते-
यिष्यन्ति इत्येतद्दर्शयति । पटस्वप्नेन तच्छासनमेवाष्टादशधाभेदं गमिष्यति,
न च विमुक्तिपटः स्फाटयिष्यत इत्येतद्दर्शयति । कलहस्वप्नेन तच्छ्रावका
एव निकायपरिग्रहात् परस्परं विवादमापत्स्यन्त इत्येतद्दर्शयतीति । संग्रह
श्लोकः-
"करिकूपसक्तुचन्दनकलभारामास्तथा कपेरभिषेकः ।
अशुचिकपिः पटकलहाविति दश दृष्टा नृपेण कृकिणा स्वप्नाः ॥"
( )
अपत्राप्योत्सदत्वात् । अपत्राप्योत्कटत्वात् ।