सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 442, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 442

निर्देशः ] तृतीयं कोशस्थानम् ४२१
यत्तर्हि माता बोधिसत्त्वस्य स्वप्ने गजपोतं पाण्डरं कुक्षिं प्रविशन्त-
मदाक्षीत् ? निमित्तमात्रं तत्; तिर्यग्योनेश्चिरव्यावर्तितत्वात्¹। तद्यथा—कृकी
राजा दश स्वप्नानद्राक्षीदिति ।
पाण्डरं गजपोतमिति । यद्यैष्यत्पूर्वकालभवाकृतिरन्तराभवः, कस्माद्
बोधिसत्त्वस्य माता गजपोतमेवं रूपमद्राक्षीत् ? निमित्तमात्रं तत् । तस्य बोधि-
सत्त्वस्य । तिर्यग्योनेश्चिरव्यावर्तितत्वात् । यतः प्रभृति लक्षणविपाकानि कर्मा-
ण्यारभते कर्तुं कल्पशते शेषे ततः प्रभृति तस्य सर्वा दुर्गतयो व्यावृत्ताः । तद्
यथा कृकी राजा दश स्वप्नानद्राक्षीत् । भविष्यतोऽर्थस्य निमित्तमात्रमिति ।
दश स्वप्ना विनये पठ्यन्ते । कृकिना किल राज्ञा दश स्वप्ना दृष्टाः—हस्ती
वातायनेन निर्गत्य पुच्छे सक्तः, कूपस्तृषितस्य पृष्ठतोऽनुधावति, सक्तुप्रस्थेन
मुक्ताप्रस्थो लभ्यते, चन्दनं काष्ठार्घेण विक्रीयते, आरामाः पुष्पफलसम्पन्नाः,
सर्वैश्च पुष्पफलमदत्तादायिभिर्ह्रियते, कलभैर्गन्धहस्तिनस्त्रास्यन्ते, अशुचिम्रक्षितो
मर्कटः परानुपलिम्पति, मर्कटाभिषेको वर्त्तते, पटकोऽष्टादशभिर्जनैराकृष्यते,
महाजनकाय एकत्र
तेन च ते भगवते काश्यपाय तथागताय निवेदिताः, भगवता च व्याकृताः—
भविष्यत्यनागतेऽध्वनि शाक्यमुनिर्नाम तथागतः। तस्य श्रावका विस्तीर्ण-
स्वजनबन्धुवर्गं प्रहाय प्रव्रजिता विहारेषु गृहसंज्ञामुत्पाद्य सङ्गं करिष्यन्ति,
हस्तिनो वातायननिर्गमनपुच्छलग्नवत्। कूपस्वप्नेन तच्छावका एव ब्राह्मण-
गृहपतीनाममभ्युपेत्य धर्मं देशयिष्यन्ति, तेषा श्रोतुकामता न संस्थास्यत
इत्येतद्दर्शयति। सक्तुमुक्ताप्रस्थस्वप्नेन तच्छावका एव सक्तुभिक्षाया अप्यर्था-
येन्द्रियबलबोध्यङ्गादीन् प्रकाशयिष्यन्ति । चन्दनस्वप्नेन तच्छावका एवा-
भावितकायशीलप्रज्ञास्तीर्थ्यमतानि गृहीत्वा बुद्धवचनेन समानीकरिष्यन्तीत्ये-
तद्दर्शयति । आरामस्वप्नेन तच्छावका एवावासमाश्रयं कृत्वा यत्तद् भविष्यति
सङ्घस्य पुष्पं वा फलं वाधिकं वा तद्विक्रीय विक्रीय जीविकां कल्पयिष्यन्ति,
तेन च गृहिणः प्रतिसंस्तरिष्यन्तीत्येतद्दर्शयति । कलभस्वप्नेन तच्छावका
एव दुःशीला पापधर्माणो भविष्यन्ति, ये ते भिक्षवः स्थविराः शीलवन्तः
कल्याणधर्माणस्तानावासेभ्यः प्रवासयिष्यन्तीत्येतद्दर्शयति । अशुचिम्रक्षित-
मर्कटस्वप्नेन तच्छावका एव दुःशोला पापधर्माणः सन्तो ये ते भिक्षवः कल्याणा-
स्तानसद्भिर्दोषैश्चोदयिष्यन्तीत्येतद्दर्शयति । मर्कटाभिषेकस्वप्नेन तच्छावका एव
सामन्तिकाभिषेकं विहारेषु करिष्यन्ति, लोकेऽपि च पण्डका अधिराज्यं कार-
१. ०व्यावृत्तत्वात्—का०।