सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 441, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 441

४२० भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
येनैव कर्मणा गतिराक्षिप्यते तेनैवान्तराभवस्तत्प्राप्तये । अतो यां गतिं
गन्ता भवति, तस्यां गतौ य आगमिष्यत्पूर्वकालभवस्तस्यैवाभ्याकृतिर्भवति ।
एवं तर्हि शुनीप्रभृतीनामेकस्मिन् कुक्षौ पञ्चगतिकोऽन्तराभवोऽभिनिर्वर्त्तते¹
इति नारकोऽन्तराभवः मातुः² कुक्षिं निर्दहेत् ? पूर्वकालभवेऽपि तावन्नारका
न नित्यं प्रज्वलिता भवन्त्युत्सदेषु भ्रमन्तः, किं पुनरन्तराभविकाः !
अस्तु वा प्रज्वलितः । स तु यथा न द्रष्टुं शक्यते तथा न स्प्रष्टुमपि;
अच्छत्वादात्मभावस्येत्योच्यमेतत् । अन्तराभवानामप्यन्योन्यं कुक्षावसंश्लेषात्
कर्मप्रतिबन्धाच्च न दाहः ।
प्रमाणं तु यथा पञ्चषड्वर्षस्य दारकस्य, स तु पट्विन्द्रियो भवति ।
बोधिसत्त्वस्य पुनर्यथा सम्पूर्णयूनः, सलक्षणानुव्यञ्जनश्च ।
अत एवान्तराभवस्थेन मातुः कुक्षिं प्रविशता कोटीशतं चातुर्द्दीपिका-
नामवभासितम्³ ।
“ऐष्यत्पूर्वकालभवाकृतिः” इति । आ एष्यदष्यत्, ऐष्यतः पूर्वकालभवस्ये-
वाकृतिरस्येति ऐष्यत्पूर्वकालभवाकृतिः । कस्मात् ? एकाक्षेपात् । यस्मादैष्यन्ती
गतिस्तत्प्रापकश्चान्तराभवस्तेनैवैकेन कर्मणाक्षिप्यते ।
शुनीप्रभृतीनामिति शुनीशूकराप्रभृतीनाम् । पञ्चगतिक इति । पञ्चगति-
गामीत्यर्थः । यदि गर्भस्थोऽपि म्रियेत तस्य नारकोऽन्तराभवो मातुः कुक्षिं
निर्दहेत् । नारको हि प्रदीप्तो भवति, तद्रूपं चान्तराभव इति । पूर्वकालभवे-
ऽपीति विस्तरः । नारकपूर्वकालभवावस्था अपि नारका न नित्यं प्रज्वलिता
भवन्त्युत्सदेषु कुक्कुलादिषु भ्रमन्तः, किमङ्गान्तराभविकाः ।
अस्तु वा प्रज्वलित । इति नारकोऽन्तराभवः । कुक्षावसंश्लेषादिति ।
अन्तराभवानामच्छत्वादात्मभावस्यान्योन्यमसंश्लेषान्न दाहः । कर्मप्रति-
बन्धाच्च । तत्कर्मप्रतिबन्धान्न दाह इति कृत्वा । अत एव शुनीप्रभृतीनां
कुक्षेरदाहः ।
कोटीशतं चानुद्वीपिकानामवभासितमिति । यतः पूर्णयून इव बोधिसत्त्व-
स्यान्तराभवः सलक्षणानुव्यञ्जनश्च, अतोऽन्तराभवस्थेन तेन मातुः कुक्षिं प्रवेष्टु
मिच्छता त्रिसाहस्रमहासाहस्रो लोकधातुः स्वक्षेत्रमिति कृत्वाऽवभासितः ।
१ पाठ०—का० । २. का० पुस्तके नास्ति ।
३. ०मवभासितः—का० ।