सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 437, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 437

निमित्तानि मनसिकरोति, अपि तु यत्तत्रोपलभते पूर्ववद् ग्रन्थो यावद्विरागो
निरोधो निर्वाणम्” ( १)।
एतदेव सूत्रमुक्त्वा "तस्यैवं जानत एवं पश्यतः कामास्रवाच्चित्तं विमुच्यते
भवास्रवादविद्यास्रवात्, पूर्ववद् यावत् कृतं करणीयं नापरमस्माद् भवं
प्रजानामीति (२)।
एतदेव सूत्रमुक्त्वा “नो तु विमुच्यत अपि तु तेनैव धर्मच्छन्देन पूर्ववद् याव-
त्तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति (३)। न हैवान्तरापरिनिर्वायी
भवत्यपि तूपपद्यनिर्वायी भवति (४)। न हैवोपपद्यपरिनिर्वायी भवत्यपि त्वनभि-
संस्कारपरिनिर्वायी भवति (५)। न हैवानभिसंस्कारपरिनिर्वायी भवत्यपि तु
साभिसंस्कारपरिनिर्वायी भवति (६)। न हैव साभिसंस्कारपरिनिर्वायी भव-
त्यपि तूध्वंस्रोता भवति (७)। न हेवोध्वंस्रोता भवत्यपि तु तेनैव धर्मच्छन्देन
पूर्ववद् यावत्तयैव धर्माभिरत्याभास्वराणां देवानां सभागतायामुपपद्यते (८)।
न हैवाभास्वराणां देवानां सभागतायामुपपद्यते, अपि तु तेनैव धर्मच्छन्देन याव-
त्तयैव धर्माभिरत्याप्रमाणाभानां देवानां सभागतायामुपपद्यते (९)। न हैवा-
प्रमाणाभानां देवानां सभागतायामुपपद्यते, अपि तु तेनैव धर्मच्छन्देन पूर्ववद्
यावत्तयैव धर्माभिरत्या परीत्ताभानां देवानां सभागतायामुपपद्यते (१०)।
३. “इह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः प्रीतिविरागादुपेक्षको विहरति, स्मृतः
सम्प्रजानन् सुखं च कायेन प्रतिसंवेदयते । यत्तदार्या आचक्षते--उपेक्षकः स्मृति-
मान् सुखविहारी, तृतीयं ध्यानमुपसम्पद्य विहरतीति, स न हैव तानाकारांस्तानि
लिङ्गानि तानि निमित्तानि मनसिकरोति पूर्ववत् सर्वाणि सूत्राणि ( १-७) ।
केवलं तु निकायसभागतायां विशेषः-न हेवोध्वंस्रोता भवति, अपि तु तेनैव
धर्मच्छन्देन पूर्ववद्यावच्छुभकृत्स्नानां देवानां सभागतायामुपपद्यते (८)। न
हैव शुभकृत्स्नानां देवानां सभागतायामुपपद्यते, अपि तु तेनैव पूर्ववदप्रमाणशु-
भानां देवानां सभागतायामुपपद्यते (९)। न हेवाप्रमाणशुभानां देवानां सभाग-
तायामुपपद्यत अपि तु तेनैव पूर्ववत् परीत्तशुभानां सभागतायामुपपद्यते (१०) ।
४. “इह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैः सुखस्य च प्रहाणात् दुःखस्य च
प्रहाणात् पूर्वमेव सौमनस्यदौर्मनस्ययोरस्तङ्गमात् अदुःखामसुखमुपेक्षास्मृतिपरि-
शुद्धं चतुर्थं ध्यानमुपसम्पद्य विहरति । स न हैव तानाकारांस्तानि लिङ्गानि
विस्तरेण सर्वाणि सूत्राणि पूर्ववद् वक्तव्यानि ( १-८)।
देवनिकायोपपत्तयस्तु विशेष्यन्ते- “यावत्तयैव धर्माभिरत्या बृहत्फलानां
देवानां सभागतायामुपपद्यते (९)। न हैव पूर्ववत् पुण्यप्रसवानां देवानां सभाग-
तायामुपपद्यते । न हैव पूर्ववदनभ्रकाणां देवानां सभागतायामुपपद्यते (१०)।