सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 436, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 436

निर्देशः ] तृतीयं कोशस्थानम् ४१५
अथैतान्यपि सूत्राणि तैर्नाम्नायन्ते ? किमिदानीं कुर्मो यच्छास्ता च
परिनिर्वृतः, शासनं चेदमनायकं बहुधा भिन्नम्, भिद्यते चाद्यापि यथेच्छं ग्रन्थ-
तश्चार्थतश्च । येषां तु तावदयमागमः प्रमाणं तेषामागमतोऽपि सिद्धोऽन्तराभवः ॥
१ “इह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैर्विविक्तं कामैर्विविक्तं पापकैरकुशलै-
र्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखं प्रथमध्यानमुपसम्पद्य विहरति ।
स न हैव तानाकारान् तानि लिङ्गानि तानि निमित्तानि मनसिकरोति, अपि तु
यत्तत्रोपलभते रूपगतं वा वेदनागतं वा संज्ञागतं वा संस्कारगतं वा विज्ञान-
गतं वा, स तान् धर्मान् रोगतो मनसिकरोति गण्डतः शल्यतोऽघतोऽनित्यतो
दुःखतः शून्यतोऽनात्मतो मनसिकरोति । स तान् धर्मान् रोगतो मनसिकृत्य
तेभ्यो धर्मेभ्यश्चित्तमुद्वेजयत्युत्त्रासयति प्रतिवारयति । स तेभ्यो धर्मेभ्यश्चित्त-
मुद्वेज्योत्त्रास्य प्रतिवार्यामृते धातावुपसंहरति—एतच्छान्तमेतत् प्रणीतम्, यदुत
सर्वोपधिप्रतिनिसर्गस्तृष्णाक्षयो विरागो निरोधो निर्वाणम्” इति ( १ ) ।
एतदेव च सूत्रमुक्त्वाऽयं विशेषः—“तस्यैवं जानत एवं पश्यतः कामास्र-
वाच्चित्तं विमुच्यते भवास्रवाद्, अविद्यास्रवाच्चित्तं विमुच्यते । विमुक्तस्य
विमुक्तोऽस्मीति ज्ञानदर्शनं भवति, क्षीणा मे जातिरुषितं ब्रह्मचर्यं कृतं कर-
णीयं नापरमस्माद् भवं प्रजानामीति ( २ )।
एतदेव च सूत्रमुक्त्वा “नो तु विमुच्यते, अपि तु तेन धर्मच्छन्देन तेन धर्म-
स्नेहेन तेनैव धर्मप्रेम्णा तयैव धर्माभिरत्या अन्तरापरिनिर्वायी भवति ( ३ )।
न हैवान्तरापरिनिर्वायी भवत्यपि तूपपद्यपरिनिर्वायी भवति ( ४ )। न हैवोपपद्य-
परिनिर्वायी भवत्यपि त्वनभिसंस्कारपरिनिर्वायी भवति ( ५ )। न हैवानभि-
संस्कारपरिनिर्वायी भवति, अपि तु साभिसंस्कारपरिनिर्वायी भवति ( ६ )।
न हैव साभिसंस्कारपरिनिर्वायी भवति, अपि तूर्ध्वंस्रोता भवति ( ७ )। न
हैवोर्ध्वंस्रोता भवति, अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावत्तयैव धर्माभिरत्या
महाब्रह्माणां देवानां सभागतायामुपपद्यते ( ८ )। न हैव महाब्रह्माणां देवानां
सभागतायामुपपद्यते, अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावत्तस्यैव धर्माभिरत्या
ब्रह्मपुरोहितानां देवानां सभागतायामुपपद्यते ( ९ )। न हैव ब्रह्मपुरोहितानां
देवानां सभागतायामुपपद्यते, अपि तु तेनैव धर्मच्छन्देन पूर्ववद् यावत्तयैव
धर्माभिरत्या ब्रह्मकायिकानां देवानां सभागतायामुपपद्यते ( १० )।
२. “इह भिक्षुर्यैराकारैर्यैर्लिङ्गैर्यैर्निमित्तैर्वितर्कविचाराणां व्युपशमादध्या-
त्मसम्प्रसादाच्चेतस एकोतीभावादवितर्कमविचारं समाधिजं प्रीतिसुखं द्वितीयं
ध्यानमुपसम्पद्य विहरति । स न हैव तानाकारान् तानि लिङ्गानि तानि