सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 435, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 435

४१४ भाष्यस्फुटार्थासहितेऽभिधर्मकोशे [ लोक-
उपपद्यपरिनिर्वायी पुनः प्रकर्षयुक्तां सङ्गीतिमनुप्रविश्य परिनिर्वाति भूयसा
वा आयुरुपहृत्य¹ नोपपन्नमात्र एवेति त एते सर्वेऽपि शकलिकादिदृष्टान्तैर्न
सम्बध्यन्ते; देशगतिविशेषाभावात् । आरूप्येष्वपि चान्तरापरिनिर्वायी पठ्येत;
आयुःप्रमाणान्तरे परिनिर्वाणात् । न चैवं² पठ्यते ।
“ध्यानेश्चतस्रो दशिका आरूप्यैः सप्तिकात्रयम् ।
संख्या षट्किकां³ कृत्वा वर्गों भवति समुदितः ॥”
ित्येतस्यादौनगाथायाम् । तस्मादेतदपि सर्वं कल्पनामात्रम् ।
तदेवं विनाप्यन्तराभावेन यथान्तरापरिनिर्वायी भवति, यथा च तस्य
दृष्टान्तत्रयेण त्रिविधो भेदस्तथा साधितं निकायान्तरीयैः । तस्मिन् साधिते
इदं चोद्येत—यदि धर्मसङ्गीतिमनुप्रविश्य यः परिनिर्वाति, सोऽन्तरापरिनिर्वा-
यीष्यते; कीदृश उपपद्यपरिनिर्वायी भविष्यति ? इत्यत आह—उपपद्यपरि-
निर्वायी पुनः प्रकर्षयुक्तां सङ्गीतिमनुप्रविश्य परिनिर्वातीति । प्रकर्षयोगादुत्पत्त्यर्थो
भवतीत्यभिप्रायः ।
सङ्गीत्यनुप्रवेशसामान्यान्नेष भेदो युज्यत इति वचनावकाशं मत्वा
पुनराह—भूयसा वायुरुपहृत्येति । आयुषो बहु क्षयित्वा परिनिर्वातीत्यर्थः ।
त एत इति विस्तरः । त एते सर्वेऽपि धातुगतादयस्त्रयः शकलिकादिभिर्ह-
ष्टान्तैर्न सम्बध्यन्ते । कस्मात् ? देशगतिविशेषाभावात् । देशगतेर्विशेषस्या-
भावात् । न ह्येषां देशगतिविशेषोऽस्ति, तत्रैव देशे परिनिर्वाणात् । सूत्रोक्तानां
त्रयाणां दृष्टान्तानां देशगतिविशेषोऽस्तीति नैभिरेते सम्बध्यन्ते । आरूप्येष्वपि
चेति विस्तरः । यदि चेवमुपपद्यपरिनिर्वाायण एवान्तरापरिनिर्वायित्वेन
व्यवस्थाप्येरन्, आरूप्येष्वपि ते तथैव पठ्येरन्; तत्रायुःप्रमाणान्तरे परिनिर्वा-
णात् । न चैवम्, अतो नैवं सूत्रार्थः—आयुःप्रमाणान्तरे वेत्यादि ।
कथं पुनर्गम्यते—नारूप्येष्वन्तरापरिनिर्वायी पठ्यते ? इत्याह-ध्यानेश्चतस्रो
दशिका इति विस्तरः । ध्यानेश्चतुर्भिश्चतस्रो दशिकाः सूत्रार्थानिाम् । प्रथमस्य
ध्यानस्यैका दशिका यावच्चतुर्थस्यैका दशिका, ताः कृत्वा । आरूप्यैः सप्तिका-
त्रयम्, आकाशविज्ञानाकिञ्चन्यायतनेस्तिस्रः सप्तिकाः, तासां त्रयम्; अन्तरा-
भवाभावादुपपत्तिस्थानत्रयाभावेन च द्वयाभावात्, तत् कृत्वा । नैवसंज्ञाना-
संज्ञायातनेन षट्किका । तेषामेव त्रयाणामूर्ध्वं स्रोतसश्चाभावात् । तां च कृत्वा
वर्गो भवति समुदितः । बद्ध इत्यर्थः । कथम् ?
१. ०पहत्य—का० । २. चैव—का० । ३. षष्टिकां—का० ।