सामग्री पर जाएँ
सर्वकोश
अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

अभिधर्मकोश एवं भाष्य (आचार्य वसुबन्धु - स्फुटार्था व्याख्या सहित सम्पूर्ण बौद्ध दर्शन महाकोश)

Abhidharmakosha and Bhashya of Vasubandhu with Commentary

आचार्य वसुबन्धु (टीकाकार: यशोमित्र, सम्पादक: स्वामी द्वारिकादास शास्त्री) द्वारा

DevanagariSanskritpublished1,258 पृष्ठ

पृष्ठ 434, कुल 1258 में से

संदर्भ में पढ़ें
पृष्ठ 434

निर्देशः ] तृतीयं कोशस्थानम् ४१३
अन्ये पुनराहुः—आयुःप्रमाणान्तरे वा देवसमीपान्तरे वा यः क्लेशान् प्रजहाति
सोऽन्तरापरिनिर्वायी। स पुनर्धातुगतो वा परिनिर्वाति, संज्ञागतो वा, वितर्कगतो वा।
तेन त्रिविधो भवतीति। प्रथमो वा$^१$ निकायसभागपरिग्रहं कृत्वा परिनिर्वाति, द्वितीयो
देवसमृद्धिं चानुभूय परिनिर्वाति$^२$, तृतीयो$^३$ धर्मसङ्गीतिमनुप्रविश्य परिनिर्वाति$^२$।
“पुनरपरं भिक्षुरेवं प्रतिपन्न इति पूर्ववद् यावदयस्प्रपाटिका उत्प्लुत्य महति
विपुले तृणकाष्ठे निपतेत्, सा तत्र धूममपि कुर्यादर्च्चिरपि सञ्जनयेत्, सा तत्र
धूममपि कृत्वाच्चिरपि सञ्जनय्य तदेव महद् विपुलं तृणकाष्ठं दग्ध्वा ग्राममपि
दहेद् ग्रामप्रदेशमपि, नगरमपि नगरप्रदेशमपि, जनपदमपि जनपदप्रदेशमपि, कक्ष-
मपि, दावमपि, द्वीपमपि, षण्डमपि दहेत् । ग्राममपि दग्ध्वा यावत् षण्डमपि
दग्ध्वा मार्गे व्यपगम्य उदकान्तं वाऽल्पहरितकं वा पृथिवीप्रदेशमागम्य पर्यादाय
निरुपदाना निर्वायात् । एवमेव तस्य यावत् पञ्चानामवरभागीयानां संयो-
जनानां प्रहाणादूर्ध्वंस्रोता भवति । इयं सप्तमी सत्पुरुषगतिराख्याता ।
“अनुपादाय परिनिर्वाणं कतमत् ? इह भिक्षुरेवं प्रतिपन्न इति पूर्ववद्
यावत् स्युः प्रष्टार इति । तस्यैवम्प्रतिपन्नस्य भिक्ष